Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 212
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समहतो नयोपदेशः / 355 चिशे व्यवहारप्रकृतिस्वाभावेऽपि न क्षतिः, आस्मन एव सकलशास्त्रप्रयोजनभागित्वेन मुख्यत्वान्मुख्योदेशेनैव च नयानां प्रकृतिविकृतिचिन्ताया युक्तत्वादिति भावः // 115-116 // यद्येवं सहङ्घ-व्यवहारौ वेदान्त-सायदर्शनप्रवर्तको, नैगमनयस्तर्हि कस्य दर्शनस्य प्रवर्तक इति जिज्ञासायाह हेतुर्मतस्य कस्यापि शुद्धाशुद्धो न नैगमः / .. अन्तर्भावो यतस्तस्य सङ्ग्रह-व्यवहारयोः // 117 // नयामृत-हेतुरिति / सामान्य-विशेषादुभयप्राहित्वेन शुद्धाशुद्धो नैगमनयः कस्यापि मतस्यदर्शनस्य, न हेतु:- न प्रकृतिः, यतः सामान्यग्रहाय प्रवृत्तस्य सङ्ग्रह एव, विशेषग्रहाय च प्रवृत्तस्य व्यवहार एवान्तर्भाव इति तदुभयभिन्नं स्वात्मानमेवालभमानस्य न भिन्नदर्शनप्रकृतिकत्वमभिधातुं युज्यत इति // 117 // ___ कुतस्तर्हि वैशेषिकदर्शनमुत्पन्नं कथं वा तन्न सम्यगित्याकाङ्खायामाह द्वाभ्यां नयाभ्यामुन्नीतमपि शास्त्रं कणाशिना / अन्योऽन्यनिरपेक्षत्वान्मिथ्यात्वं स्वमताग्रहात् // 118 // नयामृत०-द्वाभ्यामिति / द्वाभ्यां- सामान्य-विशेषग्राहिभ्यां सङ्ग्रह-व्यवहाराभ्यां नयाभ्याम् , उन्नीतं- पृथग व्यवस्थापितमपि, कणाशिना- कणादमुनिना, शास्त्रम् , अन्योऽन्यनिरपेक्षत्वात्- परस्परद्वयावलम्बनमेव शास्त्रस्य सम्यक्त्वप्रयोजकम् , किन्तु यथास्थाने तद्विनियोगः, स च स्वप्रयुक्तभातविविक्तद्रव्य-पर्यायोभयावगाहित्वात् , स्वमताग्रहात्- स्वकल्पनाभिनिवेशात् , मिथ्यात्वम् , नहि नयनयप्रकृतिकत्वस्याभ्युपगमेन, अस्य न क्षतिरित्यनेनान्वयः, कथमेवमपि न क्षतिरित्यपेक्षायामाह- आत्मन एवेतिअस्य मुख्यत्वादित्यनेनान्वयः, अन्यत् स्पष्टम् // 16 // * सप्तदशोत्तरशततमपद्यमवतारयति- यद्येवमिति। विवृणोति-हेतुरितीति / “सामान्य-विशेषादुभयग्राहित्वेन" इत्यस्य स्थाने " सामान्यविशेषोभयग्राहित्वेन" इति पाठः सम्यग् , नैगमो यदि सामान्यमेव गृह्णीयाद् विशेषमेव वा गृह्णीयात् तर्हि शुद्धः स्यात् न चैवम्, किन्तु सामान्यमपि गृह्णाति विशेषमपि गृह्णातीत्येवं सामान्यविशेषोभयग्राहित्वेनेत्यर्थः / मतस्येत्यस्य विवरणं दर्शनस्येति / न हेतुरित्यस्य विवरणं-न प्रकृतिरिति / अत्रोत्तरा?क्तं हेतुं विवृणोति- यत इति- एतदनन्तरं तस्येति दृश्यम् , तस्य- नैगमस्य / कथमेकस्य तस्य सङ्ग्रहेऽन्तर्भावो व्यवहारे * चाऽन्तर्भाव इत्यपेक्षायामाह- सामान्यग्रहायेति / एवं च सङ्ग्रह-व्यवहारभिन्नो नैगमनयो नास्ति कस्य भिन्नदर्शनहेतुत्वमित्याह-तदुभयभिन्नमिति-सङ्ग्रह-व्यवहारान्यतरभिन्नमित्यर्थः, तेनोभयभेदस्य केवलान्वयित्वेऽपि न क्षतिः। स्वात्मानमेव नैगमनयस्वरूपमेव / अलभमानस्य अप्राप्नुवतो नैगमनयस्य / “भिन्नदर्शनप्रकृतिकत्व" इत्यस्य स्थाने "मिनदर्शन प्रकृतित्व" इति पाठो युक्तः, भिन्नदर्शनकारणत्वं वक्तुं न घटत इत्यर्थः / / 117 / / .. अष्टादशोत्तरशततमपद्यमवतारयति- कुत इति- कस्मानयादित्यर्थः, अस्य 'उत्पन्नम्' इत्यनेनान्वयः / कथं वा कस्मात् कारणादू वा। तन्न सम्यग् वैशेषिकदर्शनं न समीचीनम् / विवृणोति-द्वाभ्यामिति / द्वाभ्यामित्यस्य विवरण- सामान्य-विशेषग्राहिभ्यां सङ्गह-व्यवहाराभ्यामिति / उन्नीतमित्यस्य विवरणं-पृथग् व्यवस्थापितमिति / कणाशिनेत्यस्य विवरण-कणादमुनिनेति / कथं कणादमुनिप्रणीतं वैशेषिकदर्शनाख्यं शास्त्रं मिथ्यात्व: मित्मपेक्षायां हेतूपदर्शकमुत्तरार्द्ध विवृणोति- अन्योऽन्यनिरपेक्षत्वादिति / अन्योऽन्यनिरपेक्षत्वं सामान्य-विशेषात्मकार्थयोरेव न तु तत्प्रतिपादकशास्त्रस्येत्यतस्तहिवरणं-परस्परविविकद्रव्य-पर्यायोभयावगाहित्वादिति- शास्त्रजन्य

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282