Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 154
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। 297 तथा पूर्वकमनुभवाभावात्, प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितौ च ततः प्रमेयवानित्याकारक. बोधस्यैव सम्भवात् , न च, प्रमेयवानियाकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहिता(तत्वा)च्छुद्धदशरथत्वादिप्रकारकस्मरणोपपत्तिः, तत्प्रकारकस्मृतौ तत्प्रकारकानुभवत्वेनैव हेतुत्वादिति वाच्यम् , अन्वयव्यतिरेकाभ्यां शुद्धतत्प्रकारकस्मृति प्रति शुद्धतत्प्रकारकानुभवत्वेनैव हेतुत्वसिद्धेः, न च प्रमेयाभाववदित्यादिज्ञानात् संसर्गविधया शुद्धदशरथत्वादिस्वरूपप्रतियोगित्वलक्षणसम्बन्धविषयकात् ज्ञानलक्षणप्रत्या. सत्तेः शुद्धदशरथत्वादिप्रकारको मानसानुभवः सुलभः, सर्वज्ञापत्तिभिया सांसर्गिकज्ञानस्यानुपनायकत्वस्वीकारात् / तस्मादत्र दशरथपदवाच्यत्ववति दशरथपदवृत्तिप्रकारकज्ञानाद् यथा दशरथपदवाच्यत्वेन शामिति शक्तिग्रहः प्रमेयत्वेन रूपेण दशरथत्वादिप्रकारकानुभवतः सम्भवति, तेन च शक्तिप्रहेण प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिरपि दशरथादिपदाद् भवितुमर्हति तथापि तथोपस्थितितः प्रमेयवानित्याकारक एव शान्दबोधः प्रमेयत्वेन दशरथत्वादिप्रकारको भवेन्न तु दशरथादिरित्याकारकः शुद्धदशरथत्वादिप्रकारकः शाब्दबोध इत्याह-प्रमेयत्वादिनेति। ततः प्रमेयत्वादिना दशरथत्वादिप्रकारकोपस्थितिद्वारा दशरथादिपदात् / ननु प्रमेयत्वादिना दशरथत्वादेविशिष्टेऽनुभूते दशरथादिपदानां शक्तिग्रहेऽपि तदनुभवाहितात् प्रमेयवानित्याकारकसंस्कारात् प्रमेयत्वांशे उद्बोधकरहितात् प्रमेयत्वं परित्यज्य शुद्धदशरथत्वादिप्रकारकस्मरणं सम्भवति, तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्द. बोधोऽपि सम्भवत्येव, अनुभव-स्मरणयोः समानप्रकारकत्वेनैव कार्यकारणभाव उपेयत इति दशरथत्वादिप्रकारकस्मरणं प्रति दशरथत्वादिप्रकारकोऽनुभवः कारणम्, न तु शुद्धदशरथत्वादिप्रकारकस्मरणं प्रति शुद्धदशरथत्वादिप्रकारकोऽनुभवः कारणमित्येवं प्रकारांशे शुद्धत्वादिकमपि मिवेश्यते, एवं च प्रमेयत्वेन दशरथादिविशिष्टानुभवोऽपि दशरथत्वादिप्रकारकानुभवो - भवत्येवेति ततः शुद्धदशरथत्वादिप्रकारकस्मरणस्य दशरथत्वादिप्रकारकस्मरणलक्षणोकानुभवकार्यतावच्छेदकधर्माकान्तस्योदयः सम्भवतीत्युक्तस्मरणलक्षणोपस्थितिद्वारा दशरयादिपदाच्छुद्धदशरथस्वादिप्रकारकः शाब्दबोधः स्यादेवेत्याशक्षा प्रतिक्षिपतिनचेति-अस्य वाच्यमित्यनेनान्वयः। निषेधे हेतुमाह- अन्वय-व्यतिरेकाभ्यामिति-शुद्धतत्प्रकारकानुभवसत्त्वे शुद्धतत्प्रकारकस्मरणं शुद्धतत्प्रकारकानुभवाभावे शुद्धतत्प्रकारकस्मरणाभाव इत्यन्वय-व्यतिरेकाभ्यामित्यर्थः, एवं च शुद्धदशरथस्वादिप्रकारकानुभवाभावाच्छुद्धदशरथत्वादिप्रकारकस्मरणलक्षोपस्थित्यनुत्पत्त्या न दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्द. चोधो भवेदित्यर्थः / ननु प्रमेयाभाववदित्यादिज्ञानं शुद्धदशरथत्वाचवच्छिन्नप्रतियोगितासम्बन्धन प्रमेयप्रकारकाभावविशेष्यकज्ञानरूपमपि सम्भवति, तस्मादेव च ज्ञानलक्षणप्रत्यासत्तिलक्षणालौकिकसन्निकर्षान्मनोरूपेन्द्रियेणेदानीन्तनानामपि शुद्धदशरथत्वादिप्रकारकालौकिकप्रत्यक्षात्मकानुभवो भविष्यति, तदनुभवतश्च शुद्धदशरथत्वादिप्रकारकस्मरणमपि भवितुमर्हति, तदात्मकोपस्थितिद्वारा दशरथादिपदाच्छुद्धदशरथत्वादिप्रकारकशाब्दबोधोऽपि भविष्यतीत्याशयं प्रतिक्षिपति-न चेति / यदि चान्वयितावच्छेदकावच्छिन्नप्रतियोगितैव संसर्गविधया भासत इति दशरथत्वादिकं नान्वयितावच्छेदकमिति न तदवच्छिन. प्रतियोगितायाः संसर्गविधया भानमिति विभाव्यते तदापि प्रमेयत्वेन दशरथादेरप्यभावेऽन्वय इति प्रतियोगिनो दशरथादेदशरथत्वादिखरूपमेव प्रतियोगित्वं संसर्ग इत्येतावताऽपि संसर्गविधया दशरथत्वादिस्वरूपप्रतियोगितालक्षणसंसर्गज्ञानरूपं तज्ञानलक्षणविधया दशरथत्वाद्यलौकिकमानसप्रत्यक्षकारणं भविष्यतीति बोध्यम् , एवं सति प्रमेयाभाववदित्यादिज्ञाने धर्ममात्रखरूपप्रतियोगित्वस्य संसर्गविधया भानसम्भवेन तज्ज्ञानस्य ज्ञानलक्षणप्रत्यासत्तिविधया निरवच्छिन्नधर्ममात्रप्रकारकालौकिकमानसप्रत्यक्षकारणत्वसम्भवेन ततः सर्वज्ञानसम्भवतः सर्वत्रत्वापत्तिरेव प्रसज्यत इति तद्भिया संसर्गविधया शानस्य न ज्ञानलक्षणप्रत्यासत्तिविधया कारणत्वमित्येव खीकरणीयमिति निषेधहेतुमुपदर्शयति- सर्वज्ञापत्तिभियेति-भत्र सार्व: श्यापचिभियेति पाठो युक्तः / अनुपनायकत्वं ज्ञानलक्षणप्रत्यासत्तिविधया भानाप्रयोजकत्वम् / शब्दा-ऽर्थयोस्तादात्म्ये सत्येव सम्बन्ध इति प्रतिज्ञातमुपसंहरति- तस्मादिति / अत्र दशरथादिपदस्थळे। दशरथपदवाच्यत्ववतीयत्र सप्तम्यर्थो विशेष्यत्वम्, तस्य निरूपकतासम्बन्धेन ज्ञानेऽन्वयः, तथा च दशरथपदवाच्यत्ववनिष्ठविशेष्यतानिरूपकदशरथपद:

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282