Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 191
________________ नयामृततरङ्गिना-तक्षिणीतरणियां समतो मेवोपदेशः। श्रुति-लिङ्गयोंलिङ्ग बलवत्, अपि च, एवं राजसूयादौ स्वराज्यकाममात्रस्य समर्थस्याधिकारः प्रसज्येस, अथ " राजसूयेन यजेत" इति [ ] अतेंबलीयस्त्वात् राजत्वमप्यधिकारिविशेषणं तईत्रापि विवेकादिकमपि श्रुतं किं ततो न तथा, युक्तेस्तुल्यत्वात् / अथ विवेकादीनि सर्वत्र सर्वाणि( न ) श्रयन्ते, किन्तु कचित् किश्चित् , ततश्चैकैकशाखावाक्यात् प्रसक्ता धीः सर्ववेदान्तप्रत्ययन्यायेन बाध्यते, मुमुक्षा तु सर्वशाखास्वबाधितेति सेवाश्रयणीयेति चेत् ? न-" विवेकवता श्रवणं कर्तव्यम्" [.. ] इत्यायेकैकशाखावाक्यात् ' अविवेकिनः श्रवणकर्तव्यता न' इत्यर्थात् प्रतीतावपि साधना. ग्तरसम्पन्नस्य विवेकिनस्सदकर्तव्यस्वाप्रतीतेरर्थसमाजस्योक्तन्यायाबाध्यत्वात् , तस्मात् साधनचतुष्टयसंपन्न एव श्रवणाधिकारी / न चोपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिः, तस्य श्रवणाङ्गत्वे मानाभावात्, अज्ञानाङ्गस्वस्यैव न्यायत्वादित्याशङ्कनीयम् , श्रवणस्य दृष्टार्थत्वात् , दृष्टेनैवार्थलिङ्गं परिकल्प्यते, लिङ्गेन च साक्षादङ्गाङ्गिभावबोंधिका श्रतिः परिकल्प्यते, तेन साक्षादङ्गाङ्गिमावबोधिका. श्रुतिर्लिङ्गादितः प्रबलं प्रमाणम् . लिङ्गं च श्रुति कल्पयित्वाऽाशिभावबोधकमिति श्रुत्यपेक्षया दुर्बलम् , लिङ्गाच्च वाक्यं दुर्बलं यतो वाक्य लिङ्गश्रुती कल्पयित्वा तद्द्वाराऽङ्गाङ्गिमावबोधकम् , लिङ्गं तु श्रुतिमात्रं कल्पयित्वाऽङ्गाङ्गिभावबोधकमिति, वाक्याच्च प्रकरणं दुर्बलम् , यावद्धि प्रकरणं वाक्य-लिङ्ग-श्रुतिकल्पनेन तद्द्वाराऽझाङ्गिभावबोधकम् , तावद्वाक्यं लिङ्ग-श्रुती द्वे एवं कल्पयित्वा तद्द्वाराऽजाङ्गिभावबोधकमिति, प्रकरणाच्च स्थानं दुर्बलं यावद्धि स्थानं प्रकराणादीनि चत्वारि प्रमाणानि कल्पं. यित्वासाङ्गिभाक्योधकं तावत् प्रकरणे वाक्यादीनि त्रीण्येव प्रमाणानि कल्पयित्वा तद्वाराऽङ्गाङ्गिभावबोधकमिति, एवं स्थानात् समाख्या प्रमाणं दुर्बलं यावत् समाख्याप्रमाणं स्थानादीनि पञ्च प्रमाणामि कल्पयित्वाऽङ्गाङ्गिभावबोधकं तावत् स्थान प्रकरणादीनि चत्वाथैव कल्पयित्वा तद्वारा निभावबोधकमिति सोऽयं सिद्धान्तः श्रुतितो लिङ्गस्य प्राबल्याभ्युपगमे विरुद्धयेतेत्यर्थः / किञ्च यथार्थिक सामर्थ्यमात्र कामनाऽपेक्षेत, तदा राजसूयादियागकरणसमर्थः स्वाराज्यकामो ब्राह्मणादिरपि राजसूयादावधिकारी प्रसज्येतेत्याह- अपि चेति / एवं कामनया सामर्थ्यमात्रस्यापेक्षणमित्युपगमे। पर आह-अथेति / श्रुतेः श्रुतिप्रमाणस्य / बलीयस्त्वात् लिङ्गादिप्रमाणापेक्षया बलवत्त्वात् / राजत्वमपीत्यपिना कामना-सामर्थ्ययोर्ग्रहणम् / तहीति- यदि श्रुतत्वाद् राजसूयादौ राजत्वमधिकारिविशेषणं तदेत्यर्थः, अत्रापि तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेमेत्यादावपि / विवेकादिकमित्यत्रादिपदाद् विरागार्ग्रहणम् / श्रुतं श्रुतिप्रमाणविषयः / ततः श्रुतिप्रमाणतः / किं न तथा किं नाधिकारिविशेषणम् / युक्तस्तुल्यत्वादिति- राजसूयादौ श्रुतत्वादेव राजत्वमधिकारिविशेषणं श्रुतत्वं च प्रकृते विवेकादेरपीत्येवं युक्तः समानत्वादित्यर्थः / परः शङ्कते- अथेति- 'विवेकादीनि सर्वाणि सर्वत्र न भूयन्ते इत्यन्वयः। पृच्छति-किन्विति / उत्तरयति- क्वचित किश्चिदिति- कस्याश्चिच्छाखायां विवेकादीनां चतुर्णा मध्यादेकमेव श्रुतमित्यर्थः, ततश्च क्वचित् किञ्चिदेव श्रुतमित्येतस्माच्च / धीरित्यस्य बाध्यते इत्यनेनान्वयः, सर्ववेदान्तवाक्येषु विविदिषाकामनाया एवाधिकारिविशेषणलया प्रत्यय इति तेन प्रत्ययेन विवेकादीनां मध्यादेककस्याधिकारिविशेषणतया प्रतीतिरेकैक. शाखावाक्यात् प्रसका बाध्यत इत्यर्थः / मुमुक्षा विति-मुकीच्छा पुनः सर्वशाखास्वधिकारिविशेषणतया प्रतीयत इति तत्प्रतीतिरबाधितैवेत्यतः प्रकृते मुमुक्षवाधिकारिविशेषणतयाऽऽश्रयणीयेत्यर्थः / समाधत्ते-नेति / इत्यादीत्यत्रादिपदाद् विरागवता श्रवणं कर्तव्यं शमादिषदकवता श्रवणं कर्तव्यमित्यादिवाक्यस्योपग्रहः / अर्थात् प्रतीतावपीति- अत्र " अविरामिणः श्रवणकर्तव्यता न" इति, " शमादिषदकरहितस्य श्रवणकर्तव्यता न" इत्यर्थात् प्रतीतावपीत्यस्याप्युपलक्षणम् / साधनान्तरसम्पन्नस्य विरागादिसम्पन्नस्य / तदकर्तव्यत्वाप्रतीतेः श्रवणाकर्तव्यत्वाप्रतीतेः / अर्थसमाजस्येतिविवेकिनः श्रवणं कर्तव्यं विरागिणः श्रवणं कर्तव्यं शमादिषदकवतः श्रवणं कर्तव्यं मुमुक्षोः श्रवणं कर्तव्यमित्येवं विवेकित्वविरागित्व-शमादिषद्कवत्त्व-मुमुक्षावत्त्वसंवलनस्यार्थात् प्राप्तस्येत्यर्थः / उक्तन्यायेति- सर्ववेदान्तप्रत्ययन्यायेत्यर्थः / उपसंहरति-तस्मादिति- शमादिषट्कमध्यपतितस्योपरतिशब्दवाच्यस्य संन्यासस्य श्रवणाधिकारत्वानुपपत्तिमाशय प्रतिक्षिपतिन चेति- अस्य आशङ्कनीयमित्यनेनान्वयः। संन्यासस्य श्रवणाङ्गत्वे सति श्रवणाधिकारत्वं भवेत् , श्रवणानत्व एव तु मानं नास्तीति श्रवणाधिकारत्वानुपपत्तौ हेतुमुपदर्शयति-तस्येति-संन्यासस्येत्यर्थः / यथा हि श्रवणं मननादिद्वारा

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282