Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 198
________________ . नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 341 निषेधाधिकारशून्यः संस्कारमात्रात् सदाचारः प्रारब्धक्षयं प्रतीक्षमाणो जीवन् मुक इत्युच्यते, अस्य प्रारब्धक्षये सशक्तिकनिरवशेषाज्ञाननिवृत्तौ परममुक्तिः / ननु केयमज्ञाननिवृत्तिः 1 न सती, नाप्यसती, नापि सदसती, ज्ञानजन्यत्वाद्वैतप्रसङ्गोदेश्यत्वविरोधेभ्यश्च, अस्तु त_निर्वचनीया जन्यत्वात् , तदुक्तम्" जन्यत्वमेव जन्यस्य मायिकत्वसमर्थकम् " [ ] इति, मैवम्- अनिर्वचनीयस्य ज्ञाननिवय॑त्वनियमेन निवृत्तिपरम्पराप्रसङ्गात् , सदद्वैतव्याकोपमङ्गीकृत्य तस्या असत्त्वाद् विधानेऽपि विना प्रमाणमद्वैतसङ्कोच एव दूषणम् , पञ्चमप्रकाराश्रयणं त्वत्यन्ताप्रसिद्धम् / अस्तु तर्हि चैतन्यात्मि चेति-प्रारब्धकर्मतत्कार्यव्यतिरिक्ताखिलाज्ञानप्रभवप्रपञ्चनिवृत्त्यवस्थायां पुरुषधुरन्धरः प्रारब्धकर्मफलं भुजानः सन् , सकलसंसारमज्ञानकार्य बाधितमपि किञ्चित्कालमनुवर्तत इति बाधितानुवृत्त्या पश्यन् सन् , स्वात्मन्येव रमत इति स्वात्मारामः विधि-निषेधाधिकारशून्यः- विहितकर्मकरणे तत्फलकामलक्षणरागः पुरुषस्य विशेषणत्वादधिकारः, निषिद्धकर्मानाचरणे निषिद्धकर्मफलदेषोऽधिकारिविशेषणत्वादधिकारः, अथवा निषिद्धकर्माचरणे निषिद्धकर्मफलकामोऽधिकारिविशेषणत्वादधिकारस्तदुभयशून्यः, यथा चक्रभ्रमणकारणापगमेऽपि कञ्चित् कालं पूर्वोत्पन्नवेगाख्यसंस्कारविशेषवशाच्चकं भ्रमति एवं संस्कारमात्रात् सम्यकर्मा नुष्ठानपरो भवतीति सदाचारः, प्रारब्धक्षयं-प्रारब्धकर्मविनाशम् , प्रतीक्षत इति प्रतीक्षमाणः, जीवन्मुक्त इत्येवमुच्यतेकथ्यत इत्यर्थः। जीवन्मुक्त्यनन्तरं परममुक्तिरस्य भवतीत्युपदर्शयति- अस्येति- अस्य परममुक्तिरित्यनेनान्वयः। सशक्तिकेति- आवरणशक्ति-विक्षपशक्तिसमन्वितेत्यर्थः। निरवशेषेति- अशेष कार्यकारणात्मकेत्यर्थः / परममतिरित्यनन्तरं भवतीति शेषः। नन्वज्ञाननिवृत्तौ सत्यां परममुक्तिरुपपादिता, परमज्ञाननिवृत्तिरेव विकल्पजर्जरितेति शङ्कतेनन्विति / "शानजन्यत्वा" इत्यस्य स्थाने “ज्ञानजन्यत्व" इति पाठो युक्तः, अज्ञाननिवृत्तः सत्यत्वाभ्युपगमे तस्याः सर्वदा सत्त्वं सर्वदा मुक्त्यापत्तिभयानास्त्येवाभ्युपगम्यमिति कादाचित्क्यास्तस्या ज्ञानजन्यत्वमुपेयं स्यात् , तथा च द्वैतप्रसङ्गः, तस्या असत्यत्वाभ्युपगमे न सा कदाचिद् भवतीत्यज्ञानमेव सर्वदाऽवतिष्ठित इत्यज्ञाननिवृत्तौ मुक्तिर्भवतीति यदुद्देश्यं तद्भावलक्षणोद्देश्यत्वस्य विरोधः, अज्ञाननिवृत्तः सदसदुभयरूपत्वे विरोधः स्पष्ट एव, सत्यत्वाऽसत्यत्वयोः परस्परनिषेधरूपयोरेकत्रासम्भवात् , वस्तुतः " उद्देश्यत्व" इत्यस्य स्थाने " उद्देश्यासिद्धि" इति पाठः सम्यक, तथा च विरोधस्य द्विधाऽऽश्रयणं कर्तव्यं न भवतीति बोध्यम् / ननु सत्यत्वाऽसत्यत्वाभ्यां वक्तुमशक्यत्वादज्ञाननिवृत्तिरनिर्वर्तनीयैवास्त्विति शङ्कासमाधानमाशङ्कते- अस्त्विति- उक्ताशङ्कास्वारस्याज्ज्ञानजन्यत्वस्य तत्रेष्टत्वेन तत्र ज्ञानजन्यत्वप्रसङ्गस्येष्टापादनरूपतयाऽदूषणत्वमिति पूर्व ज्ञानजन्यत्वेति स्थाने ज्ञानाजन्यत्वेति पाठ एव भवितुमर्हति, सतीति विकल्पे सत्त्वं सर्वदा सत्त्वमेव विवक्षितं द्वैतप्रसङ्गश्च पृथगेव दूषणमिति बोध्यम् / अत्र यजन्यं तदनिर्वचनीयमिति व्याप्तिबलादेवाज्ञाननिवृत्तेर्जन्यत्वलक्षणहेतुबलादनिर्वचनीयत्वं साध्यतेऽतस्तादृशव्याप्तौ प्राचीनवचनसंवादमाह-तदुक्तमिति-मायिकत्वम्अनिर्वचनीयत्वं तस्य समर्थक-साधकमिति मायिकत्वसमर्थकमित्यस्यार्थः / निरुक्तसमाधानाशङ्कां प्रतिक्षिपति-मैवमिति / मनिवर्चनीयस्येति- यदनिर्वचनीयं तज्ज्ञाननिर्वत्यमिति नियमेन " अज्ञाननिवृत्तिर्ज्ञाननिवा अनिर्वचनीयत्वाद्," इत्यनु. मानतोऽज्ञाननिवृत्तिनिवृत्तिसिद्धौ ‘अज्ञाननिवृत्तिर्ज्ञाननिवाऽनिर्वचनीयत्वाद्' इत्यनुमानात् तस्या अप्येवं निवृत्तिरेवं तस्या अपीत्येवं निवृत्तिपरम्परालक्षणानवस्थानप्रसङ्गादित्यर्थः / न च सत्येवाज्ञाननिवृत्तिः, तस्या असत्त्वाद्, अज्ञानतत्कार्यस्यानिर्वचनीयस्य विधावपि न तस्य सत्त्वं किन्तु ब्रह्मण एव सत्त्वमित्यद्वतस्य ममाभ्युपगतस्य सदद्वैतरूपत्वमेवेत्येवं सदद्वैतवादो न व्याहन्यते सद्वैताभावादिति यद्युच्यते, तदाऽद्वैतस्य सदद्वैतरूपत्वेन सङ्कोचो निष्प्रमाणको दूषणमेवेत्याहसदद्वैतव्याकोपमङ्गीकृत्येति- सदद्वैताव्याकोपमङ्गीकृत्येति पाठो युक्तः, सदद्वैतव्याकोपः सदद्वतव्याघातो मा भवत्वि. त्येवमङ्गीकृत्येत्यर्थः / तस्याः अज्ञाननिवृत्तेः / विधानेऽपि अनिर्वचनीयाज्ञान-तत्कार्ययोनिवृत्त्यभावाद् विधानेऽपि अनिर्वचनीयतया विध्यभ्युपगमेऽपि / विना प्रमाणमिति- एकमेवाद्वितीयं ब्रह्म नेह नानाऽस्ति किश्चनेत्याद्याः श्रुतयोऽद्वैत एव प्रमाणं न सदद्वैत इति प्रमाणमन्तरेणेत्यर्थः। अद्वैतसकोच इति-अद्वैतपदस्य सद्वैतपरत्वमित्यर्थः / यद्यत्र सोचे प्रमाणं स्यात् तदा प्रामाणिकसङ्कोचो न दूषणम् , यथा- पदार्थः पदार्थेनान्वेति न तु पदार्थकदेशेनेत्यत्र व्युत्पत्तौ सम्पन्नो ब्रीहिरित्यत्रैकवचनविमत्यात्मकपदार्थस्यैकत्वस्य व्रीहिपदार्थतावच्छेदके व्रीहित्वेऽन्वयस्य व्रीहावेकत्वान्वये तत्र सम्पत्तेर्बहुत्व

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282