Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 202
________________ . . नयामृततरङ्गिणी-तङ्गिणीतरीणभ्यो समलतो नयोपदेशः / तत्तदध्यासादेव, अधिष्ठानस्य स्थायित्वाऽबाधितत्वाभ्यामज्ञानस्य चानादेः सकलसृष्टिहेतोरङ्गीकाराद् न बौद्धमतप्रवेशः, तदेवमज्ञानातिरिक्तकारणाभावात् कथं श्रवणादिजन्यं तत्त्वज्ञानमिति; अत्रोच्यतेलोके अज्ञानातिरिक्तानात्मदृष्टिकारणाभावेऽपि वेदे याग-स्वर्गादौ कार्यकारणभाववादीनां वेदान्तिनां यथेष्टाचरणप्रसङ्गात् , तस्माद् घटादेरिव स्वर्ग-नरकादे ज्ञानमात्रजन्यत्वम्, अपि तु विहित-निषिद्धक्रियाजन्यत्वमपीति / दृष्टानुश्रविकस्थले अर्द्धजरतीयं प्रामाणिक नो चेत् ? अनात्मदृष्टिम[ष्टे ]रनवसानप्रसङ्गः / अधिष्ठानझाने तदवसानप्रसङ्ग इति चेत् ? न- तस्यैव हेतुत्वाभावात् / अज्ञानं तद्धेतुरिति चेत् ? न- ततो दृष्टकारणनिरपेक्षया तंदुत्पत्त्या शमाद्यनुष्ठानप्रसमात्, भ्रान्त्या शमायनुष्ठानमिति चेत् ? स्यादित्यत आह-अधिष्ठानस्येति- अधिष्ठानस्य शुद्धचैतन्यस्य सकलकालस्थायित्व-त्रिकालाबाधितत्वलक्षणपारमार्थिकसत्त्वाभ्यामङ्गीकारात् सकलसृष्टिहेतोरनादेरज्ञानस्य चाभ्युपगमाद् दृष्टिसृष्टिवादस्य बौद्धमतप्रवेशो नेत्यर्थः / प्रश्नकर्ता स्वाशङ्कामुपसंहरति-तदेवमिति-तत्- तस्मात् , एवम्- उक्तप्रकारेण / यद्यपि लोके घट-पटादिकमज्ञानात्मदृष्टिमात्रजन्यं तथापि वेदे स्वर्गादिकं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तं यागादि-तत्प्रभावादृष्टादिकमपि कारणम् , अन्यथा स्वर्गकामो ब्राह्मणहननादिकमपि कुर्वत्रज्ञानात्मदृष्टिरूपकारणबलात् स्वर्गादिकं प्राप्नुयादेवेति यथेष्टाचरणं प्रसज्येतेति वैदिकर विहितयागादिकमप्यदृष्टद्वारा कारणं नरकादिकं प्रति निषिद्धहननादिकमप्यदृष्टद्वारा कारणमवश्यमभ्युपगन्तव्यम् , तथा च वैदिकनिरुक्काज्ञाननिवृत्त्यात्मकमोक्षं प्रति अज्ञानात्मदृष्टिव्यतिरिक्तश्रवणादिकमपि कारणमिति भवत्येव निरुतमोक्षः श्रवणादिप्रभव इत्येवं दृष्टिसृष्टिवादे श्रवणादिपरिपाकजन्मना ज्ञानेनाज्ञानादिबाधो निर्वहत्येवेति समाधत्ते- अत्रोच्यत इति / दृष्टि. सृष्टिवादे घटादिकं प्रत्यज्ञानमिवात्मदृष्टिरपि कारणमतोऽनात्मदृष्टीत्यात्मदृष्टिभिन्नार्थमुक्तम् / “वादीनाम्" इत्यस्य स्थाने "वादिनाम्" इति पाठो युक्तः / वेदान्तिनामित्यस्यानन्तरं " विहित-निषिद्धकर्मादिकमपि कारणम् , अन्यथा" इति पाठो दृश्यः, तदर्यस्त्ववतरणेन स्पष्टीकृत एवेति / तस्मात् यथेष्टाचरणप्रसङ्गात् / घटादेरिवेति व्यतिरेकिदृष्टान्तः, घटादेर्यथाऽज्ञानमात्रजन्यत्वं न तथा स्वर्ग-नरकादेरज्ञानमात्रजन्यत्वमिति तदर्थः / यदि स्वर्ग-नरकादे ज्ञानमात्रजन्यत्वं तयज्ञानव्यतिरिक्तकिंजन्यत्वमित्यपेक्षायामाह-अपि विति / ननु लोके घट-पटादिकं प्रति अज्ञानात्मदृष्टिद्वयमेव कारणं वेदे स्वर्गनरकादिकं प्रति विहित-निषिद्धकर्मादिकमपि कारणमित्यर्द्धजरतीयमप्रामाणिक किमित्युपेयमित्यत आह- दृष्टा-ऽऽनुश्रविकस्थल इति- दृष्टघटपटादिकस्थले आनुश्रविकस्यर्गादिस्थले चेत्यर्थः, अध्यापकपरम्परया श्रूयत एव न तु केनापि क्रियत इत्यनुश्रवोऽपौरुषेयो वेदस्तदीयं तत्प्रतिपादितमित्यानुश्रविकं स्वर्गादिकमिति बोध्यम् / अर्द्धजरतीयमिति- एका गौरर्द्धभागे युवती अर्धभागे वृद्धत्यर्द्धजरती यथा तथा प्रकृते एकत्र यादृशः कार्यकारणभावस्तदन्यादृशोऽन्यत्र कार्यकारणभाव इत्यभ्युपगमेऽर्द्धजरतीन्याय आयोजनीयः, उक्तयुक्त्या प्रामाणिक एवायमुपगमस्तथापि नोपेयते चेदित्यर्थः / “अनात्मइष्टिसृष्टः" इत्यस्य स्थाने " अज्ञानात्मदृष्टिसृष्टेः" इति पाठो युक्तः / यद्यदिच्छामात्रत उपेयते तत्तदुत्पत्तेरज्ञानात्मदृष्टितः सम्भवादज्ञानात्मदृष्टरवसानं न स्यादनवस्थाप्रसङ्ग इत्यर्थः। तदवसानमाशङ्कते-अधिष्ठानशाने इति- जगच्छुखचैतन्ये काल्पतमित्यधिष्ठानं शुद्धचैतन्यं तज्ज्ञाने, अज्ञानात्मदृष्टिसृष्टेरवसानमित्यर्थः। समाधत्ते-नेति। तस्यैव अधिष्ठानस्यैव, निरूपितत्वं षष्ठयर्थः, तथा च तत्त्वज्ञाननिरूपितहेतुत्वं न कस्यापीति अधिष्ठानसाक्षात्कार एव नोत्पद्यतेत्यर्थः / शहतेअज्ञानमिति-अधिष्ठानज्ञाने तदवसानमित्यस्याधिष्ठानज्ञानं नाज्ञानजन्यमिति तत्रावसानमिति नार्थः, किन्त्वधिष्ठानज्ञानमशानमात्रजन्यमेव, तदनन्तरमज्ञाननिवृत्त्या तज्जन्यं न किमपीति तदवसानमित्यर्थः, एवं चाधिष्ठानज्ञानमज्ञानमात्रजन्यमेवेति नाधिष्ठानज्ञाननिरूपितहेतुत्वाभाव इति शङ्कार्थः / समाधत्ते-नेति / ततः अज्ञानमात्रतः। तदुत्पत्त्या अधिष्ठानचैतन्यसाक्षात्कारोत्पत्त्या। शमादीति- अज्ञानमात्रत एव चैतन्यसाक्षात्कारोत्पत्तेः सम्भवेन तदर्थ शमाद्यनुष्ठानस्याकर्तव्यत्वं प्रसज्येतेत्यर्थः। चैतन्यसाक्षात्कारोत्पत्तितः प्राग भ्रान्तिः शमादिकमात्मसाक्षात्कारजनकमिति ज्ञानं समस्तीत्यतः शमाद्यनुष्ठानमिति शइते-भ्रान्त्येति / समाधत्ते-नेति- एकवारं तत्त्वमसीत्यादिमहावाक्यलक्षणवेदान्तश्रवणवतां ब्रह्मभिन्न

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282