Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 307 चैतन्याभासाङ्गीकारात्, एवमन्तःकरणादावपि चैतन्याभासोऽज्ञानगतचैतन्याभासः, अज्ञानगतचैतन्या. भासस्तु जीवशब्दप्रवृत्तिनिमित्तम् , तत्तादात्म्यापन्नचैतन्यस्य जीवत्वादिति / विवरणाचार्यास्तु मुखान्तरोत्पत्ति, नेच्छन्ति, किन्तु मुखे अधिष्ठानगतभेदमात्रस्य द्वित्वपर्यायस्यादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्ति तावतैव प्रतीत्युपपत्तेर्मुखान्तरकल्पने गौरवात् / न चैवं शुक्तावपि रजतापत्तिर्न स्यात् तादात्म्यमात्रोत्पत्त्यैवेदं रजतमिति धीनिर्वाहोपपत्तेरिति वाच्यम् , तथा सति रजतजालमन्यत्रापि चैतन्ये उपाधिमाहात्म्यात् प्रतिसन्धीयते- चैतन्यान्तरकल्पकत्वेन प्रतिसन्धीयते इत्येवं न्याययोजनाऽत्र कार्या / यथाऽज्ञाने चैतन्याभासस्तथाऽन्तःकरणादावपि चैतन्याभासः, अन्तःकरणादेरपि कल्पितस्याज्ञानपरिणामत्वादज्ञानत्वमित्यन्तःकरणादिगतचैतन्याभासोऽप्यज्ञानगतचैतन्याभास इत्यनेकजीववादेऽन्तःकरणगतचैतन्याभासतादात्म्यापन्नचैतन्यस्य जीवत्वेऽप्यज्ञानगतचैतन्याभासतादात्म्यापन्नचैतन्यं जीव इति वादो न व्याहन्यत इत्याशयेनाह-पवमन्त:करणादावपीति-आदिपदादज्ञानशकेरुपग्रहः / कथमज्ञानगतचैतन्याभासस्य जीवशन्दप्रवृत्तिनिमित्तत्वमित्यपेक्षायामाह-तसादात्म्यापन्नेति-अज्ञानगतचैतन्याभासतादात्म्यापन्नेत्यर्थः, यथा पशुशब्दस्य लोमवल्लालवति शक्तत्वे शक्यस्वरूपसन्निविष्टत्वाल्लोम. वत्त्वस्य पशुपदप्रतिनिमित्तत्वं तथा जीवपदशक्याज्ञानगतचैतन्याभासतादात्म्यापमचैतन्यस्वरूपसन्निविष्टत्वादशानगतचैतन्या. भासस्य जीवशब्दप्रवृत्तिनिमित्तत्वमिति / विवरणाचार्यमतमुपदर्शयति-विवरणाचार्यास्त्विति। यदि विवरणाचार्या आदर्श मुखान्तरोत्पत्तिं नेच्छन्ति तर्हि तत्स्थले किमिच्छन्तीति पृच्छति-किन्त्विति / उत्तरयति-मुख इति- "मुखे अधिष्ठानगतभेदमात्रस्य" इत्यस्य स्थाने "मुखे अधिष्ठाने भेदमात्रस्य" इति पाठः सम्यग, द्वित्वापरपर्यायस्य भेदमात्रस्य अनिर्वचनीयस्यादर्शस्थत्वस्य च मुखे अधिष्ठाने उत्पत्तिमिच्छन्तीत्यन्वय इच्छन्तीत्यस्यानुकर्षाद् बोध्यः / तावतैव मुखे अधिष्ठाने द्वित्वापरपर्यायभेदमात्रस्यानिर्वचनीयादर्शस्थत्वस्य चोत्पत्त्यैव / प्रतीत्युपपत्ते आदर्श मुखमिति प्रतीतेरुपपत्तेः / मुखान्तरोत्पत्तिमेव कुतो नेच्छन्तीत्यपेक्षायामाह-मुखान्तरकल्पने गौरवादिति-मुखान्तरकल्पनेऽपि तत्र प्रीवास्थमुखाद् भेद आदर्शस्थत्वं च कल्पनीयमेव, मुखान्तरकल्पनं त्वधिकमिति मुखे द्वित्वस्यादर्शस्थत्वस्य च कल्पनापेक्षया गौरवं व्यक्कमेव / न चेत्यस्य वाच्यमित्यनेनान्वयः। एवं गौरवान्मुखान्तराकल्पने / शुकावपीति-शुक्काविदं रजतमिति भ्रमस्थले अन्यथाख्यातिवादिमिनैयायिकादिभिरन्यदेशस्थितस्य रजतस्य तादात्म्येन टङ्कशालास्थरजतगतरजतत्वस्य वा समवायेन शुको भ्रम उपेयते. वेदान्तिना तु शुक्तिरजतस्यैवानिर्वचनीयस्य शुक्त्यज्ञानतस्तदानीमेव चाकचक्यादिदोषसहकृताज्ञानतः शुकावुत्पन्नस्य रजतस्य ख्यातिरुपेयते. यदि चादर्श नानिर्वचनीयस्य मुखान्तरस्योत्पादः, आदर्श मुखमिति प्रतीतिरन्यथैवोपपाद्यते, तदा शुक्कावपि रजतोत्पत्ति भ्युपेया स्यात् , तत्रेदं रजतमिति धियः शुक्तौ रजततादात्म्योत्पत्त्या तदवगाहनत एव सम्भवाद् रजतान्तरकल्पने गौरवस्यात्रापि, जागरूकत्वादित्यर्थः / निषेधे हेतुमाह- तथा सतीति- शुक्तौ रजतस्योत्पादानभ्युपगमे सतीत्यर्थः। "रजतस्यापरोक्षत्वापत्तेः" इत्यस्य स्थाने " रजतस्यापरोक्षत्वानापत्तेः" इति पाठो युक्तः, रजतस्योपादाभ्युपगमे रजतं सनिकृष्टमिति रजताकारान्तःकरणवृत्त्यवच्छिन्नचेतन्यरूपप्रमाणचैतन्यस्य शुकिरजतावच्छिमचैतन्यरूप प्रमेयचैतन्यस्यान्तःकरणावच्छिन्नचैतन्यरूपप्रमातृचैतन्यस्य चेत्येवं चैतन्यत्रयाणामेकदेशस्थितोपाधीनामभेदेन प्रमेयचैतन्यस्य प्रमाणचेतन्याभेदलक्षणं ज्ञानगतप्रत्यक्षलक्षणं घटते, प्रमातृसत्तातिरिक्कसत्ताकत्वाभावलक्षणं विषयगतापरोक्षत्वमपि घटते. यतो वेदान्तमते स्वावच्छिन्नचैतन्यसत्तैव विषयस्य सत्ता, प्रत्यक्षस्थले च प्रमेयचैतन्य-प्रमातृचैतन्ययोरेकदेशस्थितोपाधिकत्वेनैक. त्वाद् भवति प्रमातृसत्तैव प्रमेयसत्तेति, रजतस्योत्पादानभ्युपगमे तु शुक्तिदेशे टकशालाद्यन्यदेशगतं रजतं नास्तीतीदमवच्छिन्नचैतन्यं न रजतावच्छिन्नं पुरोवर्तिन्याः शुकेरिदंशब्दप्रतिपाद्यायाः सन्निकृष्टत्वाद् रजतस्यासनिकृष्टत्वादिति रजताकारान्तःकरणत्तिन्तःकरणदेशगतैव न शुक्तिदेशगता नवा रजतदेशगतेति रजतावच्छिन्नचैतन्येदमवच्छिनचैतन्ययो दे शुक्तिदेशगतस्य प्रमातचैतन्यस्य शुक्त्यवच्छिन्नचैतन्येन सहामेदेऽपि रजतावच्छिन्नचैतन्येन सह नाभेदः, एवमिदमाकारवृत्त्यवच्छिन्नचैतन्यस्येदमवच्छिनचेतन्यरूपशुक्त्यवच्छिन्नचैतन्येन सहाभेदेऽपि रजताकारवृश्यवच्छिनचेतन्यस्य रजतावच्छिन्न चैतन्येन सह नाभेट

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282