Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 322 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नवोपदेशः / तदभावादेव संशयाभावाइन्वय-व्यतिरेकाभ्यां तस्यैव तद्धेतुत्वात् / किञ्च, सत्यपि निश्चयेऽप्रामाण्यसंशयेन संशयदर्शनादप्रामाण्यसंशयानास्कन्दितत्वेन प्रतिबन्धकत्वं वाच्यं, तद् वरं दोषविशेषानास्कन्दितत्वेनैव तथात्वं युक्तम्, अनुगतत्वालाघवाच / अत एव स्वतः प्रामाण्यनिश्चयेऽप्यनभ्यासादिदोषविशेषात् काशीस्थस्याद्रमरिचप्रत्यक्षेऽपि वा संभावनादोषविशेषात् संशयः, त[व]दिहापि वेदान्तवाक्यादधीताजातेऽपि ब्रह्मनिश्चयेऽसंभावनादिदोषविशेषात् संशयोत्पत्तौ तदविरोधितैव तस्यापाततेति / एककोटिकानिम्बयरुपैवाऽऽपाततेति तु न युक्तम् , अदृष्टकल्पनापत्तेः, तदयमापार टकल्पनापत्तः, तदयमापातज्ञानवानिह जन्मनि जन्मान्तरे योगित्वलक्षणप्रतिबन्धकत्वमपि निरुक्तनिश्चयस्य नेत्यागतमेवेत्याशयः / घटवद् भूतलमिति निश्चयसत्त्वेऽपि तत्राप्रामाण्यसंशये इदं ज्ञानमप्रमा नवेत्येवंरूपे, इदं ज्ञानं प्रमा नवेत्येवं रूपे वा सति भूतले घटो नवेति संशयस्य दर्शनादप्रामाण्यसंशयानास्कन्दितनिरुकनिश्चयत्वेन संशयं प्रति प्रतिबन्धकत्वं कल्पनीयम् , तदपेक्षया लाघवाद् दोषविशेषानास्कन्दितनिरुकनिश्चयत्वेनैव संशयं प्रति प्रतिबन्धकत्वमाश्रयणीयम् , यत्र निश्चयेनाप्रामाण्यसंशयस्तत्रापि दोषविशेषे सति संशयस्योदयेन दोषविशेषानास्कन्दितत्वनिवेशस्यवश्याकत्वेन तस्यानुगतत्वात् , अप्रामाण्यसंशयोऽपि दोषविशेषादेंव तत्रापि दोषविशेषसद्भावस्यावश्यम्भावेन तस्यानुगतत्वं स्वीकरणीयमेवेत्साह-किश्चेति / अप्रामाण्यसंशयानास्कन्दितत्वेनेतियद्यपि यत्र निश्चयत्वेन प्रतिबन्धकत्वं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य ज्ञानत्वेनैवोत्तेजकत्वम् , यत्र तु ज्ञानत्वेन प्रतिबन्धकत्वं कारणत्वं वा तत्राप्रामाण्यज्ञानस्य निश्चयत्वेनैवोत्तेजकत्वमिति नियमात् प्रकृते निश्चयत्वेन प्रतिबन्धकत्वस्याश्रितस्वादप्रामाण्यज्ञानस्य ज्ञानत्वेनैवोत्तेजकत्वमित्यप्रामाण्यज्ञानानास्कन्दितत्वेनेत्येव वक्तुमुचितम् , तथापि निश्चयेऽप्रामाण्यनिश्चयो यत्र निश्चयो वस्तुतो विपर्ययात्मकस्तत्र प्रमात्मकोऽपि सम्भवति, प्रमायां च गुणस्यैव कारणत्वं न दोषस्येति न, तत्र दोषसद्भाव इत्यप्रामाण्यज्ञानस्थले दोषसद्भावस्तदैव स्याद् यद्यप्रामाण्यज्ञान संशयरूपं भवेदित्याशयेनाप्रामाण्यसंशयानास्कन्दितत्वेनेत्युक्तमिति बोध्यम् / तथात्वं प्रतिबन्धकत्वम् / तथाप्रतिबन्धकत्वस्य युक्तत्वे हेतुद्वयमुपदर्शयति-अनुगतत्वा. लाघवाञ्चेति-अनुगतत्वं यत्र न प्रामाण्यज्ञानं यत्र चाप्रामाण्यज्ञानमुभयत्रापि दोषस्य सद्भावानिश्चयस्य न संशयविरोधित्वमित्यतः, लाघवं तु तदभाववति तत्प्रकारकत्वलक्षणाप्रामाण्यज्ञानापेक्षया दोषविशेषस्य शरीरकृतं सुव्यक्तमेव / अत एवं दोषविशेषसमवहितनियुक्तनिश्चयाभावस्य न संशयकारणत्वं किन्तु दोषविशेषस्यैव संशयकारणत्वमित्यस्मादेव कारणाद् अप्रामाण्यसंशयानास्कन्दितत्वस्य न प्रतिबन्धकतावच्छेदकतया निवेशः किन्तु दोषविशेषानास्कन्दितस्यैव तथा निवेश इत्यस्मादेव हेतोः / स्वतः प्रामाण्यनिश्चयेऽपीति- परतः प्रामाण्यनिश्चयाभ्युपगमे प्रामाण्यनिश्चायकप्रमाणस्याप्यनिश्चितप्रामाण्यस्य न प्रामाण्यनिश्चयात्मकत्वमिति तस्यापि प्रामाण्यनिश्चयः, एवं तत्प्रामाण्यनिश्चायकप्रमाणस्यापि परतः प्रामाण्यनिश्चय इत्येवमनवस्थानाद्मीमांसक-वेदान्त्यादिमते ज्ञानस्य स्वत एव प्रामाण्यनिश्चयेऽपीत्यर्थः / यदा च तद्विषयकज्ञानस्य निश्चितप्रामाण्यस्य तद्विषयनिश्चायकत्वे सत्यपि तस्मिन् विषये संशयो भवति तदा संशयोऽनभ्यासादिदोषविशेषादेव भवतीत्याह-अनभ्यासादिदोषविशेषादिति- अस्य संशय इत्यनेनान्वयः / एवं कश्चित् प्रमाता कश्चनामरीचमामानं पुरुष प्रामान्तरे दृष्टवान् , स एव प्रमाता काशी गतस्तत्रापि आर्द्रमरीचं पश्यति, तत्प्रत्यक्षं तस्य स्वतो निश्चितप्रामाण्यकमेव तथापि कथमत्राईमरीचो भवितुमर्हति तदयमार्दमरीचो न सम्भावनापथमृच्छतीत्येवमसम्भावनादोषविशेषादयमाईमरीचोऽन्यो वेति योऽयं संशयः सोऽप्यसम्भावनादोषविशेषादेवेत्याह- काशीस्थस्येति। "वा संभावना" इत्यस्य स्थाने "वाऽसंभावनादि" इति पाठो युक्तः / यथाऽन्यत्र निश्चितप्रामाण्यकनिश्चयात्मकज्ञानविषयेऽपि दोषविशेषात् संशयो भवति तथाऽधीतवेदान्तवाक्यजन्यनिश्चितप्रामाण्यकनिश्चयात्मकविषयेऽपि ब्रह्मणि असंभावनादिदोषविशेषात् संशयः स्यादेवेति अधीतवेदान्तवाक्यजन्यब्रह्मनिश्चयस्य संशयाविरोधितालक्षणापातता सुव्यवस्थितेत्याह- तद्वदिहापीति / तदविरोधितव संशयाविरोधितैव / तस्य वेदान्तवाक्यजन्यब्रह्मनिश्चयस्य / एककोटिकानिश्चयरूपत्वमेवापातत्वम्, तचैककोटिकनिश्चयरूपे ब्रह्मनिश्चये न संभवतीत्याशङ्का प्रतिक्षिपति- एककोटिकेति / “रूपैवा" इत्यस्य स्थाने "रूपतवा" इति पाठो युक्तः / तदभावाप्रकारकतत्प्रकारकज्ञानत्वमेव निश्चयत्वम्. तच सर्वत्रैककोटिके निर्विवादमेवेति * यदेककोटिक तनिश्चयरूपमेव दृष्टं नानिश्चयरूपमित्येककोटिकानिश्चयकल्पनाऽदृष्टकल्पनैवेत्ययुक्तत्वे हेतुत्वमुपदर्शयति-महष्टकल्पनापत्ते

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282