Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 180
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणियां समलहतो नयोपदेशः। 323 वानुष्ठितकर्मभिर्विशुद्धान्तःकरणो नित्यानित्यविवेकादिकं लभते / ननु कथं कर्मणां तत्तत्फलसाधनानामन्त:करणशोधकत्वमिति चेद् ? ज्ञानाज्ञानकृतानां सर्वपापानां पुरुषेषु सत्त्वात् तत्क्षयस्य सदाभीप्सितत्वाद् दुःखवत् पापस्यापि द्वेष्यतया तन्निवृत्तेः काम्यत्वादहरहःकर्त्तव्यत्वेनावगतप्रत्ययानां नित्यानां तेनैव फलवत्त्वाद् धर्मेण पापमपनुदति / " योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये "[भगवद्गीता, रिति / एतावता "कश्चित् खलु पुरुषधुरन्धरो नित्याध्ययनविधिनाऽधीतवेदान्तः सानाध्ययनबला वेदान्तवाक्यानामापाततोऽर्थ. मधिगच्छति " इति यदुक्तं तदुपपादितम्, तदनन्तरवक्तव्यमुपदर्शयति-तदयमिति / तत् तस्मात्, अयं पुरुषः धुरन्धरः / ननु यत् कर्म यत्फलसाधनतया. वेदविहितं तेन कर्मणानुष्ठितेन तदेव फलमुपजायत इत्यन्तःकरणविशोधकत्वं नानुष्ठितकर्मणामिति 'अनुष्ठितकर्मभिर्विशुद्धान्तःकरण' इति यदुकं तत् कथं सकतमिति. शङ्कते-नन्विति / यद्यपि काम्यकर्मणां तत्तत्फलसाधनत्वेन विहितानां प्रतिनियततत्तत्फलसाधनत्वेऽपि नित्यानां कर्मणां प्रतिनियतफलसाधनतयाऽविहितानां यद् यदभीप्सितं कर्तुस्तत्साधनत्वं यद् यद् द्विष्टं तनिवर्तकत्वं स्वीकरणीयम् , नित्यकर्मणां निष्फलले प्रेक्षावतां तत्र फलमपश्यतां प्रवृत्तेरेवानुपपत्तेः, प्रतिनियतफलसाधनत्वेनाविहितानामिदमेव फलमिदं नेति विनिगमनविरहात् कल्पयितुमशक्यमतः पुरुषेषु सतां ज्ञानाज्ञानकृताना सर्वपापानां निवृत्तरिष्टत्वाद् दुःखवद् दुःखसाधनपापस्यापि द्वेषविषयत्वेन तनिवृत्तेरिष्टत्वात् तज्जनकत्वेन फलवत्त्वस्यापि नित्यकर्मणां संभवाद् धर्मेण नित्यकर्मणा पापापनोदनतो विशुद्धान्तःकरणो भवेदेव कर्तेति समाधत्ते-शानामानकृतानामिति / तत्क्षयस्य ज्ञानाज्ञान कृतसर्वपापक्षयस्य / सदाऽभीप्सितत्वात् सर्वदेवेष्टत्वात् , ननु कथमभीप्सितत्वं सर्वपापनिवृत्तेरित्यपेक्षायामाह- दुःखवदिति- दुःखस्य यथा साक्षादनिष्टत्वादेव द्वेषविषयत्वं तथेत्यर्थः। द्वेष्यतया अनिष्टसाधनत्वेन द्वेषविषयतया / तन्निवृत्तेः ज्ञानाज्ञानकृतसर्वपापनिवृत्तेः / काम्यत्वात् कामना इच्छा तद्विषयत्वात् / अहरहः कर्तव्यत्वेनावगतप्रत्ययानामिति-सन्ध्यावन्दनादीनामुपनयनादारभ्यामरणं प्रतिदिनकर्तव्यत्वं यत् तदेव नित्यत्वमिति अहरहः कर्तव्यत्वेनेत्यस्य नित्यत्वेनेत्यर्थः, अवगतप्रत्ययानाम्- अवगतः- निश्चितः प्रत्ययो विश्वासो येषु ते अवगतप्रत्ययास्तेषाम् , यद्यपि अवगतशब्दस्य समासानिविष्टाहरहः कर्तव्यत्वेनेतिपदार्थान्वितस्वार्थकत्वेनासमर्थतया समासासम्भवाशङ्का समुपजायते, तथापि प्रतियोगिपदाद्यतिरिक्तसमासानिविष्टपदार्थान्वितस्वार्थकत्वे सत्येवासामर्थ्य भवति नान्यथा, अत एव चैत्रस्य गुरुकुलमित्यत्र गुरुपदस्थ समासानिविष्टचैत्रस्येतिपदान्वितस्वार्थकत्वेऽपि नासामर्थ्यम, तदुक्तम्- " प्रतियोगिपदादन्यद् यदन्यत् कारकादपि / वृत्तिशब्दैकदेशार्थे न तस्यान्वय इष्यते // 1 // " [ ] इति, प्रकृते अहरहः कर्तव्यत्वे नेति कारकतया तदर्थान्वितस्वार्थकत्वेऽप्यवगतपदस्य नासामर्थ्यमिति, वस्तुतः 'अवगतप्रत्ययानाम्' इत्यस्य स्थाने 'अविगीतप्रत्ययानाम्' इति, पाठो युक्तः, अविगीत:-केनापि वादिना विगानं-निन्दा, तां न इतः-प्राप्तः, प्रत्ययो-ज्ञानं येषां तेऽविगीतप्रत्ययाः सर्ववादिनिश्चितप्रत्यया इति यावत् , तेषामिति तदर्थः, तत्र समासान्तनिविष्टप्रत्ययपदस्यैव समासानिविष्टपदार्थान्वितस्वार्थकत्वमिति न समासानुपपत्तिः / तेनैव सर्व पापक्षयेनैव / फलवत्वादित्यस्यानन्तरं कल्पलताया-" स्वर्गादेनियतानुपस्थितिकत्वात् प्रत्यवायमागमावस्य बासाध्यत्वात" इत्यप्यस्ति पाठः, तत्सङ्गमनं यथा- ननु " विश्वजिता यजेत् " इत्यत्र विश्वजिद्यागस्य न किश्चित फलं भ्रूयते, अथापि सर्वाभिलषितत्वेन स्वर्ग एव फलं कल्प्यते, एवं नित्यकर्मणामपि सर्वाभिलषितत्वेन स्वर्ग एव फळ कल्प्यताम् , अथवा नित्ये कर्मण्यकृते प्रत्यवायो भवति, कृते च तस्मिन् प्रत्यवायो न भवतीति नित्यकर्मसत्त्वे प्रत्यवायप्रागभावसत्त्वं नित्यकर्माभावे प्रत्यवायप्रागभावाभाव इत्यन्वयव्यतिरेकाभ्यां प्रत्यवायप्रागभाव एव नित्यकर्मणां फलमस्तोत्यत आहस्वर्गादनियतानपस्थितिकत्वादिति- स्वर्गादनियतोपस्थितिकत्वाभावादित्यर्थः, यद्यपि स्वर्गादिकं सर्वाभिलषितत्वेन कदाचित् कदाचिदुपस्थितिविषयोऽपि भवति न तु सर्वदोषस्थितिविषयोऽर्थाद् यदा. यदा सन्ध्यावन्दनादिकं करोति पुरुषस्तदा तदा नियमेन तत्फलत्वेन न स्वर्गादिकमुपस्थितं भवति; अत एवानुपस्थितिकवादित्यनुक्त्वा नियतानुपस्थितिकत्वादित्युक्तम्, पापक्षयस्तु सर्वदोपस्थित एव भवति, अत एवानन्तरमेवाभिहित-तत्क्षयस्य सर्वदाऽभीप्सितत्वादिति, एवं च यथाऽयं नियमःउपस्थितानुपस्थितयोर्मध्ये उपस्थितस्यैव प्रहणमिति, तथा नियतोपस्थित-नियतानुपस्थितयोर्मध्ये नियतोपस्थितस्यैव प्रहपमित्यपि नियम इति भणुरपि विशेषोऽध्यवसायकरः' [...] इति न्यायानित्यकर्मणां पापक्षय एव फलं

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282