Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 165
________________ 308 नयाभूततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नबोपदेशः / स्यापरोक्षत्वापत्तेः, मुखं त्वधिष्ठानपरोक्षमिन्द्रियसन्निकर्षात् , अत एवादशैं मुखमित्यपरोक्षभ्रमोत्पत्तेनानिर्वचनीयमुखान्तरोत्पत्तिः / न च मुखस्येन्द्रियसन्निकर्षाभावः, कतिपयावयवावच्छेदेन तत्सत्त्वात्, आसत्तेविंशदावभासप्रतिबन्धकस्वेऽपि तत्रादर्शसन्निधानस्योत्तेजकत्वेन दोषाभावात् / आदर्शादिनाऽमिहतचक्षुषो मुखाभिमुखविजातीयसंयोगात् तदपरोक्षत्वमित्यपि कश्चित् / ननु किमित्येवं वर्ण्यते मुखमधिष्ठानमिति ? आदर्श एवाधिष्ठानमस्तु, तत्र च मुखाभावाज्ञानेन मुखोत्पत्तिस्तत्संसोत्पत्तिर्वास्तु, आदर्श मुखमिति प्रतीतेरेवमप्युपपत्तेः, मुखं यद्यपरोक्षं तर्हि तत्संसर्गस्य, यदि च नापरोक्षं तर्हि इतीदमंशे ज्ञानस्य प्रत्यक्षत्वेऽपि तथेदमः प्रत्यक्षवेऽपि च रजतांशे ज्ञानस्य प्रत्यक्षत्वं रजतस्य प्रत्यक्षत्वं च न स्यात्, रजताकारवृत्त्यवच्छिन्नचतन्य-रजतावच्छिन्न चैतन्ययोर्भेदात् , रजतस्य च प्रमातृसत्तातिरिक्तसत्ताकवादित्यर्थः / आदर्श मुखा. न्तरोत्पादानभ्युपगमेऽपि मुखं त्वषिष्ठानमिन्द्रियसनिकर्षादपरोक्षमिति तद्वतं कल्पितं भेदमात्रमादर्शस्थत्वं च कल्पितमपरोक्ष. मित्यादशैं मुखमित्यपरोक्षभ्रमोत्पादः सम्भवत्येवेत्साह- मुखं त्विति- "मुखं त्वधिष्ठानपरोक्षं". इत्यस्य स्थाने "मुखं त्वधिष्ठानमपरोक्षं" इति पाठो युक्तः। अत एव इन्द्रियसत्रिकर्षान्मुखस्यापरोक्षत्वादेव / मुखस्येन्द्रियासनिकृष्टस्वाशहां प्रतिक्षिपति-न चेति / तत्र हेतुमुपदर्शयति-कतिपयेति / तत्सत्वात् इन्द्रियसन्निकर्षसत्त्वात् / नम्वादर्शसनिधानस्थले स्वमुखस्येन्द्रियसनिकृष्टत्वेऽपि विशदप्रत्यक्षं न भवति ततोऽत्यन्तमिन्द्रियसन्निधानं विशदप्रत्यक्षप्रतिबन्धकमित्यादर्श सम्मुखस्थेऽप्यत्यन्तासत्तिीवास्थमुखे इन्द्रियस्य समस्त्येवेति न तस्य विशदप्रत्यक्षं किन्वादशस्थमुखान्तरस्यैवे. त्यादर्श मुखान्तरस्योत्पत्तिरवश्यमभ्युपेयेत्यत आह-आसत्तेरिति- अत्यन्तसन्निकर्षस्येत्यर्थः / अविशदप्रत्यक्षं मुखस्येन्द्रियात्यन्तसनिहितस्यादर्शसन्निधानकालेऽपि भवत्येवेत्यत उक्तम्-विशदेति / तत्र विशदावमासिप्रत्यक्षं प्रति अत्यन्ते. न्द्रियासत्तिः प्रतिबन्धिकेत्येवं प्रतिबध्यप्रतिबन्धकभावे / उत्तेजकत्वेनेति- उत्तेजकत्वं प्रतिबन्धकताकारणतान्यतरावच्छेदकीभूताभावप्रतियोगित्वम् , प्रकृते विशदावमासिप्रत्यक्षं प्रति आदर्शसन्निधानामावविशिष्टेन्द्रियात्यन्तासत्तेः प्रतिबन्धकत्वेन तादृश. प्रतिबन्धकतावच्छेदकीभूताभावप्रतियोगित्वेनादर्शसन्निधानस्योत्तेजकत्वमिति आदर्शसन्निधानकाले निरुक्तप्रतिबन्धकस्यासत्त्वेनन्द्रियात्यन्तसनिहितस्यापि मुखस्य विशदावभासिप्रत्यक्षसम्भवादित्यर्थः / चक्षुषो मूलावयवसंयोगनिबन्धनसंयोगस्यात्यन्ता. सत्तिरूपस्य बलेन मुखस्य न प्रत्यक्षं, किन्त्वप्रावयवसंयोगनिबन्धनसंयोगेनैव, यथाऽप्रदेशस्थितघटादीनां प्रत्यक्षं तथैव मुखस्यापि प्रत्यक्षं, चक्षुरादर्शदेशं गत्वाऽऽदर्शनाभिहतं मुखसम्मुखं भूत्वा स्वापावयवावच्छिन्नं सम्मुखेन संयुज्यते, तादृशविजातीयेन्द्रियसंयोगेन मुखस्य प्रत्यक्षमिति कस्यचिन्मतमुपदर्शयति- आदर्शादिनेति / तदपरोक्षत्वं मुखस्यापरोक्षत्वम् , ननु मुखेऽधिष्ठाने भेदस्यादर्शस्थत्वस्य चानिर्वचनीयस्योत्पत्तिः किमिति परिकल्प्यते ? आदर्शस्यैवाधिष्ठानत्वमुररीकृत्य तत्र मुखान्तरोत्पत्तिस्तस्कल्पने गौरवे वा मुखत्य संसर्गोत्पत्तिरेवास्तु, ततोऽप्यादर्श मुखमिति प्रतीतिरुपपद्यत एव, तत्र यदि मुखाभावज्ञानं स्यात् तदा मुखोत्पत्तिस्तसंसर्गोत्पत्तिा न भवेन चैवमिति मुखाभावाशानमेव तत्र मुखस्य तत्संसर्गस्य वा कारणमित्याशङ्कते-नन्विति- मुखमधिष्ठानमित्येवं किमिति वर्ण्यत इत्यन्वयः / तत्र च आदर्श च / तत्संसर्गेतिमुखसंसर्गेत्यर्थः। एवमपि आदर्श मुखोत्पत्तेर्मुखसंसर्गोत्पत्तेर्वा भावेनापि / मुखोत्पत्तिमुखसंसर्गोत्पत्त्योर्यद् विकल्पनं तत्र हेतुमुपदर्शयति-मुखमिति- प्रीवास्थमुखमेवादर्श मुखमिति प्रत्यक्षात्मकप्रतीतौ भासते, मुखेन समं मूलावयवावच्छिन्नचक्षुःसंयोगो विद्यते, तस्याप्यादर्शसन्निधानतो मुखप्रत्यक्षं प्रति कारणस्वमित्यन्यथैव मुखप्रत्यक्षस्य विशदस्योपपत्त्या न तदर्थ मुखोत्पत्तिरादर्श आवश्यकीत्याशयेनोक्तम्- मुखं यद्यपरोक्षमिति / अपरोक्षमपि मुखं प्रीवास्थमेव न त्वादस्थिमतोऽपरोक्षस्यापि मुखस्य संसर्गोत्पत्तिरादर्श आवश्यकी, यद्बलादादर्शाधिकरणकत्वेन मुखस्यादर्शे मुखमिति प्रतीतावभासनमित्याशयेनाह- तर्हि तत्संसर्गस्येति- अस्य स्वीकर्तव्यत्वादित्यनेनान्वयः, तथा च मुखस्य प्रत्यक्षत्वेऽपि आदर्श व्यावहारिकस्य मुखसंसर्गस्याभावात् प्रातीतिकमुखसंसर्ग एव आदर्शऽवभासत इति प्रातीतिकमुखसंसर्गस्योत्पत्तेः प्रत्यक्षस्वानुरोधेन स्वीकर्तव्यत्वादित्यर्थः / यदि च नापरोक्षमिति- अग्रावयवावच्छिन्नचक्षुःसंयोगस्यैव विशदप्रत्यक्षं प्रति कारणत्वमिति मुखे व्यावहारिके अग्रावच्छिन्नचक्षुस्संयोगस्थाभावात् तदपरोक्षं न भवति यदीत्यर्थः। तहीति- आदर्श

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282