Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ मयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / " मूढनइ सुअं कालियं तु न णया समोअरंति इह। अपुहत्ते समोआरो नत्थि पुहत्ते समोआरो॥" [आवश्यके गा० 762 ] त्ति। यद्यप्याचार्यविनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनमैदंयुगीनानामप्यविरुद्धमेव / तदुक्तं" णत्थि नएहिं विहूणं सुत्तं अत्थो अ जिणमए किंचि / . आसज्जउ सोआरं गए णयविसारओ बूया // " [विशेषावश्यके गा० 2277 ] इति / तथापि निखिलपर्षदनुपकारित्वेन बहूनामपरिणामातिपरिणामजनकत्वेन चोक्तरीत्या सूत्रे सूक्ष्मनयोपन्यासो न क्रियत इत्यविरोधः // 79 // तेनादौ निश्चयोग्राहो नग्नानामपहस्तितः। रसायनीकृतविषप्रायो सो न जगद्धितः // 8 // .. . नयामृत-तेनेति / तेन-सूत्रोक्तरीत्युलङ्घनस्य कृतान्तकोपावहत्वेन, आदौ निश्चयोद्बाहोनिश्चयनयोपन्यासो, नग्नानां-दिगम्बराणामपहस्तितो-निराकृतः, न-यतोऽसौ निश्चयनयोपन्यासो निखिलनयैकवाक्यतापादकतात्पर्यार्थौषधेन रसायनीकृतविषप्रायस्तदवबोधवतः कस्यचिदेव हितो न तु जगद्धितो, जगद्धितश्व नयो व्यवहार एवेत्यादौ तदुपन्यासेन निश्चयमुपन्यस्तवतां दिगम्बराणामप्राप्तकालत्वादयो बहवो दोषाः // 80 // श्रुते। तद्धितः बहुशिष्यहितः। सर्वनयविवेचनाधिकारः, अस्यैव स्पष्टीकरण- बहुत्वेनेत्यादि / ममूढनये विज्ञातनयके, अनेन नयेन इदं सूत्रं प्रवृत्तमनेन च नयेनेदं सूत्रं प्रवृत्तमित्येवं विज्ञातनयके इति यावत् / उक्कार्थेऽपि परमर्षिवचनसंवादमाह- तदुक्तमिति / मूढनइअं० इति - " मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्ति इह / अपृथक्त्वे समवतारो नास्ति, पृथक्त्वे समवतारः / इति संस्कृतम् / ऐदंयुगीनानामपीत्यपिकारेणान्युगीनानां विनेयानां विशिष्टबुद्धिमपेक्ष्याखिलनयव्युत्पादनं हितमित्यत्र किमु वक्तव्यमित्यर्थस्याम्नेडनम् / उक्तार्थे परमर्षिवचनसंवादमाह-तकमिति / णस्थि० इति- " नास्ति नयैर्हि विहीनं सूत्रमर्थश्च जिनमते किञ्चित् ? आसाद्य तु श्रोतारं नयान् नयविशारदो यात् // " इति संस्कृतम् / तथापि उक्तदिशा सर्वनयव्युत्पादनस्याविरुद्धत्वेऽपि / अन्यत् स्पष्टम् // 9 // दिगम्बराणां प्रथमतो निश्चयनयोपन्यासस्यायुक्तत्वावेदकमशीतितमपद्यं विवृणोति-तेनेतीति / तेनेत्यस्य विवरणंसूत्रोक्तरीत्यलजनस्य कृतान्तकोपावहत्वेनेति- कृतान्तः- सिद्धान्तः, सिद्धान्तविरुद्धत्वेनेति तदर्थः, सिद्धान्तस्य यमवाचककृतान्तशब्देनोपन्यासात् यं प्रति यमः कुपितः स नश्यत्येव एवं सिद्धान्तविरुद्धो निश्चयनयस्यादावुपन्यासोऽपि भग्न एव, ना, रक्षितुं प्रमाणं प्रभवतीत्यर्थः / आदी व्यवहारनयोपन्यासात् पूर्वमेव / निश्चयोद्वाह इति मूलस्य विवरणं-निश्वयनयोपन्यास इति / नग्नानामित्यस्य विवरण-दिगम्बराणामिति / अपहस्तित इत्यस्य विवरणंनिराकृत इति / अत्र हेतुप्ररूपकमुत्तरार्द्धमित्यावेदनाय यत इति। “न- यतो" इत्यस्य स्थाने “यतो" इति पाठः समुचितः / असाविति मूलस्य विवरण-निश्चयनयोपन्यास इति / उक्तटीकानुसारात् “प्रायो सो" इत्यस्य स्थाने पद्ये "प्रायोऽसौ" इति पाठः सम्यग् / विषस्य रसायनीकरणं कस्यचिदौषधस्य संयोजनया भवति, तदत्र किमौषधमित्याकालानिवृत्तये टीकायां पूरितं- निखिलनयैकवाक्यतापादकतात्पर्यार्थोषधेनेति / तदवबोधवतः निखिलनयकवाक्यतापादकतात्पर्यार्थावबोधवतः / यः खलु निश्चयनयावलम्बनेनावेदितस्योपदेशस्याभिप्रेतार्थमवगच्छति स एव निखिलनयानां परस्परमविरोधमवगन्तुं प्रभुरिति तस्य निश्चयनयोपन्यासो रसायनीकृतविषतुल्यत्वाद्धितो न तु निश्चयनयावलम्ब्युपदेशाभिप्रेतार्थमजानतां नयानामेकवाक्यत्वाभावमेवावगच्छता जनानां निश्चयनयोपन्यासो हित इत्याहन.तु जगद्धित इति, एवं च जगद्धितश्व व्यवहार एव व्यवहारनयावलम्ब्युपदेश एव जगतां सर्वेषां तात्पर्यार्था

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282