Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 141
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / श्वकयोगविधया कारणतायां तु वास्तवविषयताया एव निवेशान्न दोष इति वाच्यम् , सत्त्वशुद्धिविनायव प्रतिमावन्दनाद् निर्जरोत्पत्तेः "तह वि फलं अस्थि मणविसुद्धीए" इत्यनेन प्रतिपादनात्, किञ्च, गुणदोषो. भयवैकल्यमात्रेण प्रतिमायामहंध्यवसायस्य निर्जराङ्गत्वे (प्रतिष्ठिता)प्रतिष्ठितयोरविशेषापत्तेः, न च“सयं कारियाइ एसा जायइ ठवणाइ बहुफला केई। गुरुकारियाइ अन्ने विसिट्टविहिकारियाए य // 13 // ठंडिल्ले वि य एसा मणठवणाए पसस्थिगा चेव / आयासगोमयाइहिं एत्थमुवल्लेवणाइ हि // 14 // उवयारंगा इह सोवओगसाहारणाण इफला / किंचि विसेसेण तओ सव्वे ते विभइअव्व ति" // 15 // इति पूजाविधिविंशिकावचनपर्यायलोचनयेयमभिष्टप्रदेति वाच्यम् , तत्र प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव मानसप्रतिष्ठापुरस्कारेण प्रवृत्तानां पूजाविधिविकल्पानां विधिप्रतिष्ठितपूजाजन्यतावच्छेदकजातिव्याप्यजात्यवच्छेदेन मानसाऽभिप्रायशोधिताविधिप्रतिष्ठितपूजाजन्यतावच्छेदकजात्यवच्छेदेन च फलभेदाद्धेतुभेदोपयुक्त इत्यभिप्रायेण प्रवृत्तावपि प्रतिष्ठासामान्यस्याकिञ्चित्करत्वे तात्पर्याभावात् , अन्यथा आद्योऽवञ्चक उच्यते // तेषामेव प्रणामादिक्रियानियम इत्यलम्। क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः // फलाञ्चकयोगस्तु सद्भध एव नियोगतः। सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता // " षो० 8, विव० / वास्तवविषयताया एवेति-निर्जरां प्रति सावद्यकाभाववन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वम् , बन्धं प्रति तु सावधकर्मवन्निष्ठविशेष्यतात्मकविषयताशालिगुणसङ्कल्पत्वेन हेतुत्वमित्येवं वास्तवविषयताया एव कारणतावच्छेदककोटौ निवेशान प्रतिमावन्दनादावुभयाभावापत्तिलक्षणो दोषः, यतः प्रतिमार्या सावद्यकर्मणोऽभावेन सावद्यकर्मवनिष्ठविशेष्यताकगुणसङ्कल्पस्याभावेन न प्रतिमावन्दनतो बन्धोत्पत्तिः, सावधेकमणोऽभावादेव सावद्यकर्माभाववती भवति प्रतिमेति सावद्यकर्माभाववत्प्रतिमानिष्ठविशेष्यताकगुणसङ्कल्पलक्षणकारणबलात् प्रतिमावन्दनतो निर्जरोत्पत्तिरिति / निषेधे हेतुमाह-सत्त्वशुद्धिविधयैवेति / निर्जरोत्पत्तेरित्यस्य प्रतिपादनादित्यनेनान्वयः / तह वीति-“ कामं उभयाभावो तह वि फलं अत्थि मनविसुद्धीए। तीइ पुण मणविसुद्धीइ कारणं होत्ति पडिमा उ॥” इति सम्पूर्ण प्रागुपदर्शितम् / प्रतिमायां गुणदोषयोरसत्त्वेऽप्युक्तदिशा निर्जराङ्गत्वाभ्युपगमे दोषान्तरमुपदर्शयति-किश्चेति / प्रतिष्ठिताप्रतिष्ठितयोरिति- यस्यां जिनप्रतिमायां प्रतिष्ठाविधिना सूत्रोक्तेन जिनप्रतिष्ठा कृता सा प्रतिष्ठिता, यस्यामुक्तदिशा जिनप्रतिष्ठा न कृता साऽप्रतिष्ठिता तयोरित्यर्थः / अविशेषापत्तेरिति- प्रतिष्ठितायामप्रतिष्ठितायां च प्रतिमायां गुण-दोषौ न स्त एव, एवं यस्यामर्हदध्यवसायो भवति सा निर्जराङ्गं भवति, यस्यां चाहदध्यवसायो न भवति सा न निर्जराङ्गमिति विशेषः सन्नप्यन्यथैवोपपन्न इति प्रतिष्ठाविधिना तत्र जिनस्थापनस्य बह्वायाससाध्यस्यानर्थक्यापत्तेरित्याशयः / न चेत्यस्य वाच्यमित्यनेनान्वयः / सयं त्ति- " स्वयं कारितयैषषा जायते स्थापनया बहुफला केचित् / गुरुकारितया अन्ये विशिष्टविधिकारितया च // 1 // स्थण्डिलेऽपि चैषा मनःस्थापनया प्रशस्तिका चैव / आकाशगोमयादिभिरत्र उपलेपनादि हितम् // 2 // उपचाराजा इह सोपयोगसाधारणानामिष्टफला। किञ्चिद् विशेषेण ततः सर्वे ते विभजयितव्या इति // 3 // इति संस्कृतम् // इति एवंस्वरूपेत्यर्थः, अस्य पूजाविधिविंशिकावचनेऽन्वयः। इयं प्रतिमा / निषेधे हेतुमाह-तत्रेति-पूजाविधिः विंशिकावचने इत्यर्थः, अस्य प्रवृत्तानामित्यनेनान्वयः / प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेणेव प्रतिष्ठितत्वव्याप्यधर्मपुरस्कारेण प्रवृत्तानामिव, पूजाविधिविकल्पानामित्यस्य प्रवृत्तावपीत्यनेनान्वयः / विधिप्रतिष्ठितेति-विधिना सूत्रोक्तविधिना प्रतिष्ठितस्य जिनप्रतिबिम्बस्य या पूजा तन्निष्ठजनकतानिरूपितजन्यतावच्छेदिका या पूजाफलगता जातिस्तस्याप्या याऽवान्तरफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्य फलभेदादित्यनेनान्वयः / मानसेति-मानसाभिप्रायशोधितस्याविधिप्रतिष्ठितस्य जिनबिम्बस्य या पूजा तजन्यतावच्छेदिका याऽविधिप्रतिष्ठितजिनपूजाफलगता जातिस्तदवच्छेदेनेत्यर्थः, अस्यापि फलभेदादित्यनेन सम्बन्धः। “हेतुभेदोपयुक्तः" इत्यस्य स्थाचे " हेतुभेदोऽपि युक्तः" इति पाठ: सम्यक्, हेतुभेदमन्तरेण फलभेदो न सम्भवति, तत्तजात्यवच्छेदेन फलभेदस्तु दृश्यत इति तदन्यथाऽनुपपत्त्या कल्पनीयस्तत्तज्जात्यवच्छिन्नं प्रति विधिप्रतिष्ठितजिनबिम्बपूजाऽविधिप्रतिष्ठितजिनबिम्बपूजात्मकहेतुभेदोऽपि युक्त इत्यर्थः। इत्यभिप्रायेण

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282