Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 139
________________ 282 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नबोपदेशः / anna रूपतामास्कन्दन निर्जराहेतुः, अन्यत्र विसावशुभसङ्कल्परूपत्वेन निरवद्यकाभाववद्विशेष्यकत्वस्य गौरवेणातन्त्रत्वात् , सावद्यकर्मवद्विशेष्यकतयैव विपर्यासलक्षणसमन्वयेन वा अनन्तक्लेशावह ' इत्यमि. प्रायेणाचार्यैस्तत्रैव निराकृतः, तथाहि"जह सावजा किरिया णस्थि य पडिमासु एवमियरावि / तयभावे णस्थि फलं अह होइ अहेउगं होइ" // कामं उभयाभावो तहवि फलं अस्थि मणविसुद्धीए / तीइ पुण मणविसुद्धीइ कारणं होन्ति पडिमा उ / जइवि य पडिमा उ जहा मुणिगुणसंकप्पकारणं लिंग। उभयमवि अस्थि लिंगेण य पडिमासूभयं अत्थि // णियमा जिणेसु उ गुणा पडिमाओदिस्स जे मणे कुणइ। अगुणे उ वियाणतोकं नमइ मणे गुणं काउं॥ जह वेडंबगलिंग जाणतस्स णमओ हवह दोसो। गिद्धंसमिय णाऊण वंदमाणे धुवं दोसो" // _ [आवश्यके गा० 1145-46, 47, 48, 49. ] इति // 101 // नन्वेवं स्थापनास्थले सावधकर्माभाववद्विशेष्यगुणसङ्कल्पत्वेन भावस्य निर्जराहेतुत्वमित्यागतम् , स्थाने " उत्कृष्टगुणाध्यारोपः शुभ" इति पाठो युक्तः, भावजिनगतो य उत्कृष्टगुणस्तस्य जिनप्रतिबिम्बे य आरोपः स शुभसङ्कल्परूपता-शुभसङ्कल्पात्मकताम्, आस्कन्दन् प्राप्नुवन् , निर्जराहेतुः कर्मक्षपणकारणं भवतीति शेषः / अन्यत्र तु द्रव्यलिङ्गे पार्श्वस्थादौ पुनः। असौ उत्कृष्टगुणाध्यारोपः। अशुभसङ्कल्परूपत्वेन अशुभसङ्कल्पात्मकत्वेन, इदमनन्तक्लेशावहत्वे हेतुः, तथा च द्रव्यलिङ्गिनि पार्श्वस्थादौ उत्कृष्टगुणाध्यारोपोऽशुभसङ्कल्पात्मकत्वेनानन्तक्लेशावह इत्यर्थः, वा अथवा, पार्श्वस्थादावुत्कृष्टगुणाध्यारोपो विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहः / ननु पार्श्वस्थादावुत्कृष्ट गुणाध्यारोपो यदि विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहस्तर्हि जिनप्रतिमायां द्वयोरपि निरवद्यक्रिया-सावधक्रिययोरभावे प्रति तत्रोत्कृष्टगुणाध्यारोपोऽपि निरवद्यकर्माभाववजिनप्रतिमाविशेष्यकत्वाद् विपर्यासलक्षणसमनुगत इति सोऽप्यनन्तक्लेशावहः स्यादित्यत आह-निरवद्यकर्माभाववद्विशेष्यकत्वस्येति, गौरवेण सावद्यकर्मवद्विशेष्यकत्वापेक्षया गुरुभूतत्वेन, अतन्त्रत्वात् विपर्यासत्वेऽप्रयोजकत्वात् , तथा च पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य निरवद्यकर्माभाववद्विशेष्यकत्वेन यदि विपर्यासत्वं स्वीक्रियेत तदा निरवद्यकर्माभाववद्विशेष्यकत्वेन जिनप्रतिमायामप्युत्कृष्टगणाध्यारोपो विपर्यासः स्यात् ; यदा तु निरवद्यकर्माभाववद्विशेष्यकत्वप्रयुक्त विपर्यासत्वं पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य नेष्यते कुतस्तद्बलाजिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य विपर्यासत्वं प्रसज्यत इति, तर्हि किं प्रयुक्तं पार्श्वस्थादावुत्कृष्टगुणाध्यारोपो विपर्यास इत्यपेक्षायामाह- सावद्यकर्मवद्विशेष्यकतयैवेति- सावद्यकर्मवान् पार्श्वस्थादिस्तद्विशेष्यकतयैवेत्यर्थः, जिनप्रतिमा च न सावद्यकर्मवती, अतस्तत्रोस्कृष्टगुणाध्यारोपस्य सावद्यकर्मवद्विशेष्यकत्वाभावान विपर्यासलक्षणसमन्वय इति न तेनानन्तक्लेशावहत्वं जिनप्रतिमायामुत्कृष्टगुणाध्यारोपस्य किन्तु सावद्यकर्मवद्विशेष्यकत्वेन पार्श्वस्थादावुत्कृष्टगुणाध्यारोपस्य विपर्यासलक्षणसमन्वयेनानन्तक्लेशावहत्वमित्याशयः / इत्यभिप्रायेण उपदर्शितस्वरूपाभिप्रायेण / आचार्यः सूरिभिः / तत्रैव वन्दनकनियुक्तावेव / निराकृतः अपहस्तितः पूर्वोपदर्शिताशङ्काशेषः / निरुक्ताशङ्काशेषनिराकृत्युपदर्शकं वन्दनकनियुक्तिगतगाथाकदम्बकमुपदर्शयति-तथाही. ति / जहा इति- " यथा सावद्या क्रिया नास्ति च प्रतिमासु एवमितराऽपि। तदभावे नास्ति फलम् अथ भवति अहे. तुकं भवति // काममुभयाभावस्तथापि फलमस्ति मनोविशुद्धया / तस्याः पुनर्मनोविशुद्धः कारणं भवन्ति प्रतिमास्तु // यद्यपि च प्रतिमास्तु यथा मुनिगुणसङ्कल्पकारणं लिङ्गम् / उभयमप्यस्ति लिङ्गे न च प्रतिमासूभयमस्ति // नियमाजिनेषु तु गुणाः प्रतिमा उद्दिश्य यो मनसि करोति / अगुणे तु विजानन् कं नमति मनसि गुणं कृत्वा // यथा विडम्बकलिङ्गं जानतो नमतो भवति दोषः / निध्वंसमिति ज्ञात्वा वन्दमाने ध्रुवं दोषः // 5 // इति संस्कृतम् // 1.1 // व्यधिकशततमपद्यमवतारयति-नन्वेवमिति / एवम् उक्तप्रकारेण / 'द्विशेष्य' इत्यस्य स्थाने 'द्विशेष्यक' इति पाठो युक्तः। भावस्य सङ्कल्पविशेषरूपस्य। तच्च उत्तप्रकारेण निर्जराहेतुत्वं च / अयुक्तत्वे हेतुमाह-लाघवेनेति- सावद्यकर्माभाववद्विशेष्यकत्वापेक्षया लाघवेनेत्यर्थः / तद्धेतुत्वौचित्यात् गुणसंकल्पस्य निर्जराहेतुत्वौचित्यात् / ननु विपर्यासलक्षणं सावद्यकर्म

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282