Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी तरङ्गिणीतरणिभ्यां समलतो न्योपदेश / 15 प्रतिष्ठाविधिवैयर्थ्यप्रसङ्गात्, ततः प्रतिष्ठादिविधिजनितः प्रतिभागतोऽतिशयविशेषः कश्चित् स्थापनानिक्षेपो निरच्यतामित्याकाङ्क्षायां " सन्ता तिस्थयरगुणा" इत्यादिगाथायामेव व्याख्यानान्तरं सूचितं, पक्षानन्तरं परिष्कुर्वन्नाह. यद्वा प्रतिष्ठाविधिना, स्वात्मन्येव परात्मनः / स्थापना स्यात् समापत्तिबिम्बे सा चोपचारतः // 102 // नयामृत-यद्वेति / यद्वा- पक्षान्तरे, प्रतिष्ठाविधिना प्रतिष्ठाकारयितुः स्वात्मन्येव परात्मनःपरमगुणवतत्रिभुवनभर्तुः, ध्यानतारतम्ये च तास्थ्यतदञ्जनत्वरूपा समापत्तिरेव स्थापना स्यात्, निश्च- . यतः सर्वक्रियाणां तत्फलानां चोद्देश्यसम्बन्धित्वेन व्यवह्रियमाणानामपि स्वात्मसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनात्, परात्मन इत्युपलक्षणं स्वभावस्य, आहत्य हि प्रतिष्ठया कारयितरि स्वभाव एव स्थाप्यते, परम्परया तु तन्मूलपरमात्मानुध्यानविषयवचनाद्यप्रवर्तकत्वसम्बन्धस्मारितः. तप्रवृत्तावपि एवंस्वरूपाशयेन पूजाविधिविंशिकावचने पूजाविधिविकल्पानां प्रवृत्तावपि, किन्तु प्रतिष्ठेति-प्रतिष्ठासामान्य न किञ्चित् करोतीत्यत्र पूजाविधिविकल्पानां तात्पर्याभावादित्यर्थः / अन्यथा पूजाविधिविकल्पानां प्रतिष्ठासामान्यस्याकिञ्चिकरत्वे तात्पर्याभ्युपगमे। प्रतिष्ठेति-सूत्रे यः प्रतिष्ठाविधिः- अनेन विधिना जिनप्रतिबिम्बं स्थापयेदित्याकारकस्तस्य वैययं स्यादित्यर्थः / उपसंहरति-तत इति- तस्मात् कारणादित्यर्थः। “प्रतिभागतो" इत्यस्य स्थाने "प्रतिमागतो" इति पाठो युक्तः तथा च प्रतिष्ठादिविधिना प्रतिमायां कश्चिदतिशयविशेष उपजायते, स एव च सफलत्वात स्थापनानिक्षेप इत्येवं निरुच्यताम्- कल्प्यतामित्याकाङ्क्षायां सत्यामित्यर्थः / “व्याख्यानान्तरं सूचितं. पक्षानस्तरं" इत्यस्य स्थाने "व्याख्यान्तरसूचितं, पक्षान्तरं" इति पाठो युक्तः, व्याख्यानान्तरं च " यद्वा तेषां गुणानामिदमध्यात्मम्" इत्यादिग्रन्थेनोपदर्शितं प्राक्, पक्षान्तरं प्रतिष्ठाविधिना प्रतिमायां किमपि न भवतीति पक्षाद् विभिन्नः पक्षः-प्रतिष्ठाविधिना प्रतिमायां स्थाप्यगुणाध्यारोपो भवतीत्येवंस्वरूपस्तम् / . विवृणोति- यद्वेतीति / यद्वेत्यस्य पक्षान्तरे इत्यर्थकथनम् / प्रतिष्ठाविधिना सूत्रोक्तप्रतिष्ठाविधिना, प्रतिष्ठाकारयितरिति पूरणम् / स्वात्मन्येव प्रतिष्ठाकारयितृपुरुषात्मन्येव / परात्मन इत्यस्य विवरण-परमगुणवतखिभुवनभरिति- एतच्च जिनबिम्बप्रतिष्ठामधिकृत्य। 'समापत्तिः स्थापना' इति मूले उक्तम् , तत्र समापत्तिः किंस्वरूपेत्यपेक्षायामाह-ध्यानतारतम्ये चेति-स्वात्मनि परमात्मनो ध्यानं समापत्तिः, ध्यानस्य च तरतमभावो, भवतीति ध्यान- तारतम्ये च सतीत्यर्थः, यदि ध्यानमेकरूपमेव स्यात् तदा तदात्मकसमापत्तेरनेकरूपतयोपवर्णनं न सङ्गतमतो ध्यानस्याप्य नेकरूपत्वमित्यावेदनाय 'ध्यानतारतम्ये च' इत्युक्तम् , तात्स्थ्य ति- प्रतिष्ठाकारयित्रात्मस्थितत्वं परमगुणवतत्रिभुवनभर्तुः * समापत्तिः स्थापना स्यादित्यर्थः / तदञ्जनत्वेति-प्रतिष्ठाकारयित्रात्मत्वेन परमात्मनो व्यापनत्वेत्यर्थः / ननु प्रतिष्ठाविधानं प्रतिबिम्बे क्रियते कथं तत्रत्या स्थापना स्वात्मनीत्यत आह-निश्चयत इति-निश्चयनयत इत्यर्थः / तत्फलानां सर्वक्रियाफलानाम्, उद्देश्यसम्बन्धित्वेनेति- या क्रिया यदुद्देश्येन क्रियते सा क्रिया तत्फलं च तत्सम्बन्धित्वेनैव व्यवलियत इति प्रतिष्ठाविधिना स्थापना प्रतिमामुद्दिश्यैव क्रियत इति स्थापनातत्फलयोरुद्देश्यप्रतिमासम्बन्धित्वेन व्यवहियमागयोरपि निश्चयनयतः स्थापनादिक्रियाकर्तृसम्बन्धित्वस्यैव भाष्यादौ व्यवस्थापनादिति स्वात्मनि परमात्मनस्तात्स्थ्यतदजनत्वरूपा समापत्तिरेव स्थापनेत्यर्थः / परमात्मन इति यदुक्तं तत् स्वभावस्याप्युपलक्षणम् , तेन प्रतिष्ठाविधिना प्रतिष्ठाकारपिता स्वभावः स्थाप्यते इत्याह- परमात्मन इत्युपलक्षणं स्वभावस्येति / अत्र हेतुमाह-माहत्य हीति। हि यता, आवस्य साक्षादेव, प्रतिष्ठया प्रतिष्ठाविधिना, कारयितरि प्रतिष्ठाकारयितरि, स्वभाव एव परमात्मनः स्वभाव .एव / गतु परमात्मनः स्वभावो यदि स्मृतिपथमुपगच्छेत् तदा तत्स्थापनं न्याय्यं स्यादित्यत आह-परम्परयारिवतिप्रतिष्ठामलं यत् परमात्मानुध्यानविषयवचनं तस्य यत् तीर्थकरे आद्यप्रवर्तकत्वं तद्पो यः प्रतिमया समं तीर्थकरस्वभावस्य

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282