Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो भयोपदेशः। 281 तीर्थकरे-अर्हतीति, इयं च प्रतिमा, तेषां- नमस्कुर्वताम् , इदमध्यात्म-समापत्त्यादिफलकानुभूयमान. तीर्थकरगुणस्मृत्यालम्बनम् , यद्वा तेषां-गुणानाम्, इदम् , अध्यात्मम् , अध्यारोपविषयः, तटस्थेन स्मृती योग(ग्य )जीवानुसमापत्त्यसिद्धेः / न च तासु प्रतिमासु सावद्या-सपापा क्रिया, इतरेषु- पार्श्वस्थादिषु ध्रुवा, सेति योज्यते, ततः समनुज्ञा सावधक्रियायुक्तपार्श्वस्थादिप्रणमनात् ध्रुवेति योगः, 'एवं सति प्रतिमायामुभयक्रियाभावप्रसञ्जितोभयफलाभावस्तदालम्बनकस्थाप्यगुणसङ्कल्परूपमनःशुद्धेबलवत्तयैव निराक्रिय. माणः पार्श्वस्थादिवन्दनेऽपि मनःशुद्धेर्बलवत्तयैव दोषाभावं गुणोदयं च साधयितुं कथं न प्रगल्भते ?' इत्याशङ्काशेषः / उभयविकल एवाकारमात्रतुल्ये कतिपयगुणान्विते वा उत्कृष्टगुणाध्यारोपशुभसङ्कल्प. तीर्थकरगुणा इत्यस्य तीर्थकरत्वेन प्रतीयमानस्य गुणा इति विवरणम् / तीर्थकरे इत्यस्य विवरणम्- अर्हतीति / इयं च प्रतिमेति प्रक्रान्तत्वाल्लभ्यते, तेषामित्यस्य विवरणं- नमस्कुर्वतामिति / इदमध्यात्ममित्यस्य विवरणं-समा. पश्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनमिति- खात्मन्येव परात्मनः स्थापना-अहमेव परात्मैवं खरूपो बोधः, तदादिफलिका याऽनुभूयमानतीर्थकरगुणस्य स्मृतिस्तस्या आलम्बनमियं प्रतिमेत्यर्थः, तीर्थकरप्रतिमां नमस्कुर्वतां तटस्थानां समापत्त्यादिफलकानुभूयमानतीर्थकरगुणस्मृत्यालम्बनं नमस्कृतिक्रियाकर्मीभूताऽहत्प्रतिमा भवति, यतोऽहत्प्रतिमादर्शनेन सिद्धान्तोतिजन्यशाब्दानुभवविषयस्य तीर्थकरगुणस्य स्मृतिरुपजायते, तया च भूयो भूयोऽभ्यस्यमानया समापत्त्यादि. फलं नमस्कुर्वतामवश्यमेव भवतीति / तेषामिदं त्वध्यात्ममित्यस्य व्याख्यानान्तरमुपदर्शयति- यद्वेति / तेषामित्यस्य विवरणं-गुणानामिति / अध्यात्ममित्यस्य विवरणम् - अध्यारोपविषय इति- भावजिनगतगुणा जिनप्रतिमायामारोप्यन्ते, इयं प्रतिमा तीर्थकरगणवतीत्यारोपाकारः। पूर्वोपदर्शितोऽर्थः कथं नेत्यपेक्षायामाह- तटस्थेनेति-स्थाप्य जिनप्रतिमां नमस्कुर्वता पुरुषेणेत्यर्थः, स्मृतौ अनुभूयमानतीर्थकरगुणस्मृतौ, “योग(ग्य )जीवानुसमापत्त्यसिद्धः" इत्यस्य स्थाने " योगजजीवात्मसमापत्त्यसिद्धेः" इति पाठो युक्तः, योगजा योगाभ्यासजनिता या योगिनो जीवस्य परात्मना सहकतालक्षणा समापत्तिस्तस्या असिद्धः, अतः प्रथमं व्याख्यानमुपेक्ष्येदं व्याख्यानमादृतमित्याशयः / उत्तरार्द्ध विवृणोति-न चेति- अस्य क्रिययाऽन्वयः / सावधेत्यस्य विवरणं- सपापेति / इतरेचित्यस्य फलितार्थकथनं-पार्श्वस्थादिष्विति / ध्रुवा केत्यपेक्षायामाह-धुवा सेति योज्यते इति / ततः योजनातः / समनुज्ञा सपापक्रियानुमतिः, अस्य ध्रुवेत्यनेन .योगमुल्लिखति- सावधेति-सावंद्यक्रियायुक्तपार्श्वस्थादीनां प्रणाम कृते सति तद्गता सावद्यक्रियाप्यभिनन्दिता भवतीति सावद्यक्रियानुमतिस्तत्प्रणामकर्तुः, सा च सावधक्रियाफलिका ध्रुवेति द्रव्यलिङ्गिखरूपा भावसाधुस्थापना बलवदनिष्टानुबन्धावहेत्याशयः / एवं च सतीति- “एवं च सति' 'इत्याशवाशेषः, आचार्यस्तत्रैव निराकृतः' इत्येवमन्वयोऽत्र बोध्यः। एवं सति ___तीर्थकरप्रतिमासु सावद्या क्रिया नास्ति पार्श्वस्थादिषु सावद्या क्रिया विद्यते इति व्यवस्थितौ सत्याम् / प्रतिमायामिति प्रतिमायां सावद्या क्रिया नास्ति निरवद्याऽपि क्रिया नास्तीत्येवमुभयविधक्रियाऽभावतः प्रसजितो यः शुभफलस्याशुभफलस्य ... चाभाव इत्येवमुभयफलाभावः, अस्य 'निराक्रियमाणः' इत्यनेनान्वयः, तथा च स तदालम्बनकः-तीर्थकरप्रतिमालम्बनको यः स्थाप्यगुणसंकल्प:- स्थाप्यस्य तीर्थकरस्य ये गुणास्तेषामारोपलक्षण: संकल्पस्तद्रूपा तदात्मिका या मनःशुद्धिस्तस्या बलवत्तयैवअतिप्राबल्येनैव निराक्रियमाणः- प्रतिमालम्बनकस्थाप्यगुणसङ्कल्परूपमनश्शुद्धितः शुभफलस्यावश्यम्भावादशुभफलस्याभावेऽपि शुभफलस्य सद्भावेन फलद्वयाभावो न सम्भवतीत्येवं निराक्रियमाणः, अस्य 'प्रगल्भते' इत्यनेनान्वयः / पार्श्वस्थादिबन्दनेऽपीत्यपि नातीर्थकरप्रतिमावन्दनस्याटेंडनम् / दोषाभावमिति- पार्श्वस्थादेः सपापक्रियत्वेऽपि तदन्दनकर्तुमनश्शुद्धिबलवत्तरेत्यतो दोषो न भवतीति दोषाभावमित्यर्थः, अस्य ' साधयितुम् ' इत्यत्रान्वयः, 'गुणोदयं च' इत्यत्रापि 'मनःशुद्धबलवत्तयैव' इत्यस्यान्वयः। इत्याशङ्काशेषः एवंस्वरूपोऽवशिष्ट आशङ्काभागः, अस्य 'निराकृतः' इत्यनेनान्वयः / उभयविकले एव सावधक्रियानिरवद्यक्रियोभयरहिते एव जिनप्रतिबिम्बे, आकारमात्रतुल्ये भावजिनेन सममाकारमात्रेण सहशे, वा अथवा, कतिपयगुणान्विते भावजिनगता ये कतिपये गुणास्तरन्विते युक्ते, " उत्कृष्टगुणाध्यारोपशुभ" इत्यस्य

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282