Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ mamarnamaAnmmmm नग्रामलसरहिणी-तरविणीतरणिभ्यां समलतो मयोपदेशः / इसि गाथाभ्यां सारश्यसम्बन्धमात्रेणार्हत्प्रतिमाया अईत:( इव ) द्रव्यलिजिनो भावसाधो स्तटस्थेन स्मृते हत्थापकतयाऽध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन बन्दनीयत्वं यदाक्षिप्तं पूर्वपक्षकृता, तत्राचार्यैरेकनोत्कटदोषवस्नोपस्थिते समानसंविसंवेद्यतालभ्यगुणवत्सादृश्यधीस्तद्गतदोषानुमितिरूपतया गुणवद. पकर्षन्यञ्जकत्वेन तनिदानरूपत्वेन बलवदनिष्टानुबन्धावहा, अन्यत्र चोक्तकारणाभावान्न तथात्वमिति वैषम्यमुद्भावयित्वा समाधानं कृतम्--- "सन्ता तिस्थयरगुणा तित्थयरे तेसिमं तु अझप्पं / ण य सावमा किरिया इयरेसु धुवा समणुना // 1 // " [आवश्यके गा० 1144 ] इति गाथया, अस्यार्थ:- सन्तो-विद्यमानाः शोभना वा, तीर्थकरत्वेन प्रतीयमानस्य गुणाः, निर्जरा बिपुलाम् // 1 // लिङ्गं जिनप्रज्ञप्तमेव नमतो निर्जरा विपुला / यद्यपि गुणविप्रहीनं वन्दते अध्यात्मशुद्धथै // 2 // " इति संस्कृतम् / गाथाभ्यामित्यस्य पूर्वपक्षकृता वन्दनीयत्वं यदाक्षिप्तमित्यनेनान्वयः / सादृश्यसम्बन्धमात्रेण भावेन सह स्थापनायाः सादृश्यलक्षणसम्बन्धमात्रेण / हत्प्रतिमाया अर्हत इव अर्हत्प्रतिमातो यथाऽर्हतः स्मृतेरुदयस्तथा। द्रव्यलिकिन इति- भावसाधुना समं द्रव्यलिङ्गिनः पार्श्वस्थादेरपि सादृश्यलक्षणसम्बन्धोऽस्ति, तन्मात्रेण द्रव्यलिङ्गिस्वरूपस्थापनातो भावसाधोः स्मृतेः सम्भवेन भावसाधुविषयकस्मृत्युत्थापकत्वेन द्रव्यलिशिलक्ष गस्थापनाया अध्यात्मशुद्धिप्रभवनिर्जराङ्गत्वेन तटस्थेन पुरुषेण वन्दनीयत्वं स्यादिति पूर्वपक्षकृता यदाक्षिप्तमित्यर्थः। तत्र उक्ताक्षेपे / आचारि. त्यस्य इति वैषम्यमुद्राव्य समाधानं कृतमित्यनेनान्वयः / वैषम्यमेव दर्शयति - एकत्रेति- पार्श्वस्थादिभावसाधुस्थाप्यस्थापनभावस्थले इत्यर्थः / उत्कटदोषवश्वेनोपस्थिते इति - द्रव्यलिङ्गिनः पार्श्वस्थादेर्दर्शने सति तद्वतदोषोऽपि दर्शनपथमुपैतीति उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादावित्यर्थः, समानसंविसंवेद्यतालभ्यगुणवत्लादृश्यधीस्तगतदोषानुमितिरूपतयेति. अनेन सदृशः स इति ज्ञाने सति तेन सदृशोऽयमिति ज्ञायत एवेति पार्श्वस्थगतभावसाधुसादृश्य-भावसाधुगतपार्श्वस्थसादृश्ययोः समानसंविसंवेद्यत्वमिति समानसंविद्यतया लभ्या आत्मलाभमुपगता जन्येति यावत् या गुण. वत्सादृश्यधीगुणवतो भावसाधोव्यलिङ्गिनि सादृश्यधीः, सादृश्यं च तद्भिन्नत्वे सति तद्तभूयोधर्मवत्त्वम् , तत्र भिन्नत्वं वैधर्म्यरूपम्, प्रकृते उत्कटदोषवत्त्वेनोपस्थिते गुणवतो वैधर्म्यमुत्कटदोषवत्त्वमेवेत्यनुमितिरूपा गुणवत्सादृश्यधीः पार्श्वस्थगत. दोषानुमितिरूपाऽपि स्यादित्येवं तदतदोषानुमितिरूपतयेत्येवमर्थो नात्रादरणीयः, यत उत्कटदोषवत्त्वेनोपस्थिते पार्श्वस्थादौ दोषवत्वं प्रत्यक्षसिद्धमेवेति * नहि करिणि दृष्टे चीत्कारेण तमनुमिनुते * इति न्यायेन तस्यानुमितिविधेयत्वं न सम्भवति, किन्तु सादृश्यप्रतियोग्यनुयोगिनोर्मध्ये एकस्योत्कटदोषवत्त्वेनोपस्थितौ तदन्यस्य गणवतोऽपि तेन समं सादृश्यज्ञानमनुमितिरूपं तन्तदोषस्यापि तदन्यस्मिन्ननुमितिरूपं भवतीत्युत्कटदोषवत्वेनोपस्थिते पार्श्वस्थादौ सति तस्य गुणवति भावसाधौ या सादृश्यधीः सा पार्श्वस्थनिष्ठबहुधर्मावगाहिनी सती पार्श्वस्थनिष्ठबहुधर्मान्तर्गततद्गतदोषस्यापि भावसाधाववगाहिनीत्येवं भावसाधौ पार्श्वस्थगतस्य दोषस्यानुमितिरूपतयेत्यर्थ एवात्राश्रयणीयः, तथा च भावसाधुगतदोषानुमितिरूपतया. गणवदपकर्ष व्यजकत्वेन गुणवतोभावसाचोर्दोषवत्ताप्रयुक्तापकर्षस्य व्यजकत्वेन, तन्निदानरूपत्वेन, बलवदनिष्टमनुबनातीति बलवदनिष्ठानुबन्धाबहा, गुणवति भावसाधौ उस्कटदोषवतो द्रव्यलिङ्गिनः सादृश्यधीरतस्तत्स्थापनायाः सूत्रबोधितबलवदनिष्टाननुबन्धीष्टसाधनताकतन्तगणस्मृतिजनकसंस्कारोद्बोधकाभिप्रायाकारान्यतरवत्त्वलक्षणं तत्स्थापनात्वं न सम्भवतीत्यर्थः / अन्यत्र चेति-.. भावजिन-जिनप्रतिमयोः स्थाप्यस्थापनभावस्थले चेत्यर्थः, उक्तकारणाभावात उक्तदिशा गुणवदपकर्षव्यजकत्वेन तनि. दानरूपत्वलक्षणकारणाभावात् , म सथात्वं न भावजिने जिनप्रतिमासादृश्यधियो बलवदनिष्टानुबन्धावहत्वम्, इति एवं खरूपं, वैषम्यं भावसाधुव्यलिजिस्थाप्यस्थापकभाव-भावजिनजिनप्रतिमास्थाप्यस्थापनयोलक्षण्यम् , उद्भावयित्वा उपदर्य, समाधामम् उक्ताक्षेपप्रतिविधानम् , कृतं 'सन्तो तित्थयरगुणा' इत्यादिगाथयेति सम्बन्धः। सन्ता० इति-"सन्तसीर्थकरगणास्तीर्थकरे तेषामिदन्त्वध्यात्मम् / न च सावद्या तासु क्रिया इतरेषु ध्रुवा समनुज्ञा // 1 // " इति संस्कृतम् / अस्यार्थः अस्य गाथावचनस्यार्थोऽयमुपदय॑ते / सन्स इत्यस्य विद्यमामा इति वा अथवा शोभना इति विवरणम् /

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282