Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 134
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। 277 उपचरितविभागाभावेन तत्स्थलीयसङ्ग्रहादेतत्स्थलीयसङ्ग्रहस्य विशेषात्, पाश्चात्योपरितनयोर्विकासका सङ्कोचकविशेषणवत्त्व एव मध्यवर्तिनयस्य पाश्चात्यार्थसकोचरूपसनहपरत्वनियमाचेति दिक् // 98 // ननु सादृश्यसम्बन्धस्य स्थापनानिक्षेपनियामकत्वे असद्भावस्थापनोच्छेदप्रसङ्गः, अभिप्रायसम्बन्ध. स्यापि तन्नियामकत्वे च नाम्न्यपि तस्य सुवचत्वादतिप्रसङ्गस्तदवस्थ एवेत्याशङ्कायामाह. अतिप्रसङ्गो नैवं चाभिप्राया-ऽऽकारयोगतः / . यत् श्रुतोक्तमनुलवय, स्थापना नाम चान्यतः // 99 // नयामृत०-अतिप्रसङ्ग इति / एवम्- उक्तासङ्करप्रकारेण चातिप्रसङ्गो न भवति, यत् श्रुतो. नैगमात् समहस्य विशेषस्तथा, अनापि निक्षेपविषयेऽपि, चतुर्निक्षेपस्वीकर्तुः नाम-स्थापना-द्रव्य-भावभेदेन निक्षेपचतुष्टयाभ्युपगन्तुः, ततः नैगमनयात, तत्रयस्वीकारेणैव नाम-द्रव्य-भावात्मकनिक्षेपत्रयस्वीकारेणैव, विशेषः भेदः / समाधत्ते-मैवमिति / देशवदिति- देश-देशिनोरभेदाद् देशिनः सकाशाद् देशस्य पृथक्तयाऽऽश्रयणमुपचारादेव, उपचारश्च सङ्ग्रहनये नेष्ट इति न सङ्ग्रहनये देशस्य प्रदेश इति यथा तथेत्यर्थः / स्थापनाथा उपचरितविभागाभावेनेतिदेशिनः सकाशाद् देशस्योपचरितविभाग इति उपचारानभ्युपगन्त्रा सङ्ग्रहेण स नेष्यते, नाम्नः सकाशात् स्थापनाया यो बिभागः सोऽनुपचरित' इति सङ्ग्रहेण स उपयत इत्युपचरितविभागाभावेनेत्यर्थः / तत्स्थलीयसङ्ग्रहात् प्रदेशाभ्युपगम स्पलीयसमहात् / एतत्स्थलीयसङ्ग्रहस्य निक्षेपाभ्युपगमस्थलीयसप्राहस्य / "पाश्चात्योपरितमयोः" इत्यस्य स्थाने "पाश्चात्योपरितननययोः" इति पाठो युक्तः, पाश्चात्यो नयो व्यवहारनयः, उपरितननयो नैगमनयः, तमोः, विकासक-सोचकविशेषणवत्त्वे एव पाश्चात्यनयस्य विकासकविशेषणवत्त्वम् , उपचरितनयस्य सङ्कोचकविशेषणवत्त्वमित्येवं विकासकसङ्कोचकविशेषणवत्त्वे सत्येव, अर्थाद् येन विशेषणेन पाश्चात्यो नयोऽन्योऽन्यविभकरूपेणार्थप्राहकः, येन च विशेषणेनोपरितननयोऽविमक्तरूपेणार्थग्राहकः, एको नयोऽर्थविकासं विदधाति, अपरो नमोऽर्थसतोचमाधत्ते इति / मध्यवर्तिनयस्य नैगम-व्यवहारमध्यवर्तिनो नयस्य / पाश्चात्येति-पाश्चात्यो यो व्यवहारनयस्तस्य यो विकसितोऽर्थ स्तस्य सङ्कोचरूपसङ्ग्रहपरत्वस्य नियमाचेत्यर्थः, प्रकृते तु नैगमोऽपि निक्षेपचतुष्टयमभ्युपैति व्यवहारोऽपि निक्षेप. चतुष्टयं खीकरोति, न च तयोर्विकास सङ्कोचकविशेषमवत्त्वमिति न सन्मध्यवर्तिन एतत्स्थलीयसमहस्य पाश्चात्यार्थसङ्कोचरूपसमहपरत्वमिति नैगम-व्यवहारयोरिव समहस्यापि प्रकृते निक्षेपचतुष्टयाभ्युपगन्तृत्वमेवेत्यर्थः // 9 // नवनवतितमपद्यमवतारयति-नन्विति / सादृश्यसम्बन्धस्य भावेन सह सादृश्यलक्षणसम्बन्धस्य / असद्भाषेतिभावाकारसदृशाकारो न यस्याः स्थापनायाः सा असद्भावस्थापना तस्याम्, भावेन सह सादृश्यलक्षणसम्बन्धाभावात् स्थापनानिक्षेपत्वं न स्यादित्यर्थः / भभिप्रायसम्बन्धस्यापीत्यपिना सादृश्यसम्बन्धस्य सङ्ग्रहः / तन्नियामकत्वे स्थापनानिक्षेपनियामकत्वे / भावोऽयमित्यभिप्रायो यत्र सोऽभिप्रायलक्षणसम्बन्धेन भावसम्बद्ध इति कृत्वा तस्य स्थापना. निक्षेपत्वं यद्यनुमतं तदा नाम्न्यपि कस्यचिद् भावोऽयमित्यभिप्रायः सम्भवत्येवेत्यभिप्रायसम्बन्धेन नाम्नोऽपि मावसम्बद्ध. त्वात् तस्यापि स्थापनानिक्षेपत्वं प्रसज्यत इत्याह-नाम्न्यपीति / तस्य अभिप्रायसम्बन्धस्य / यो दोषः पूर्वमभिहित. स्तस्यैवोत्तरत्र सद्भावे तादवस्थ्योतिर्घटते, अन तु पूर्वमतिप्रसङ्गदोषो नामिहित एवेति कपमतिप्रसङ्गस्तदवस्थ इत्युक्तिः समतेति चेत् ? व्यवहारमुल्लङ्घय यदि यथाकथश्चित् सामान्यधर्मपुरस्कारेणैकस्यान्यनिक्षेपेऽन्तर्भावः समहाभिमतो भवेत् तहि अप्राधान्यादिना नामनिक्षेपस्यापि द्रव्यनिक्षेपत्वं स्यादित्यतिप्रसङ्गदोषः पूर्व प्रसादभिहितोऽत्राप्यतिप्रसङ्ग एवावेद्यते इत्यतिप्रसङ्गत्वेन समानतामालम्ब्य तादवस्थ्योक्तिरिति बोध्यम्। विवृणोति-अतिप्रसन इतीति। एषमित्यस्य विवरणम्-उकासकरप्रकारेणेति-वाचकत्वेन भावसम्बन्धस्य नामत्वं परिणामित्व-सादृश्यादीतरसम्बन्धनिमित्तकलक्षणाविषयत्वं वा नामत्वम् , परिणामित्वसम्बन्धेन भावसम्बद्धस्य द्रव्यत्वम् , अभिप्रायविशेषसम्बन्धेन सादृश्यसम्बन्धेन बा भावसम्बद्धस्य स्थापनात्वमित्यसङ्करप्रकारेणेत्यर्थः / कथमतिप्रसङ्गो न भवति ? नाम्नोऽप्यभिप्रायसम्बन्धेन भावसम्बद्धत्वेन

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282