Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ ર૪૮ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलहतो नयोपदेशः / निश्चयव्युत्पादनस्य न क्रमविरुद्धता ?; न च व्यापकनिश्चयाभिधानोत्तरं व्यवहाराभिधानमेवात्र क्रमः, द्वयोरपि नयत्वेन भूमिक्रमानुरोधेनैवात्र क्रमाश्रयणात् , अन्यथा ह्यव्युत्पादितव्यवहारो दुष्प्राप्यव्युत्पत्तिकनिश्चयश्च शिष्यः फलसन्देहदोलाधिरोपणेन संसार एव भ्रामितः स्यात्, तदुक्तमन्यैरपि " अज्ञस्याद्धं प्रबुद्धस्य सर्व ब्रह्मेति यो वदेत् / / महानरकजालेषु स तेन विनिपातितः // 1 // " [ महोपनिषद् 5, 105 ] इति। न च निश्चयाधिकारी प्रबुद्ध एव (न किं )त्वर्द्धप्रबुद्ध इति वाच्यम् , आपातनिश्चयश्रद्धाजनिते क्रियाऽऽलस्यवतोऽर्द्धप्रबुद्धत्वेऽपि संशयादित्यभिप्रायवानाह ये सीदन्ति क्रियाभ्यासे ज्ञानमात्राभिमानिनः। .. निश्चयान्निश्चयं ते न जानन्तीति श्रुते श्रुतम् // 82 // नयामृत०-य इति / ये ज्ञानमात्राभिमानिन:- ज्ञानमेवास्माकं सर्वा सामग्री सम्पादयिष्यतीति स्वेच्छाकल्पितसन्तोषवन्तः, क्रियाभ्यासे सीदन्ति ते निश्चयान्निश्चयं न जानन्ति, किन्तु शब्दाभिला क्षणस्थित्युपगमोप्येकक्षणस्थित्युपगमः, एकक्षणस्थित्युपगमस्तु खत एकक्षणस्थित्युपगम इत्येवं निश्चयनयस्य व्याप. कत्वात् प्रथमतोऽभिधानं ततो व्यवहारनयस्याभिधानमित्येव क्रमः, तद्विरुद्धता च नास्त्येव दिगम्बरस्य प्रथमतो निश्चयाभिधाने इत्याशय प्रतिक्षिपति-न चेति। निषेधे हेतुमाह-द्वयोरपीति-निश्चयनय-व्यवहारनययोरपीत्यर्थः / भूमिक्रमानुरोधेनैव प्रथमतो ह्यनतिप्रयोजनो व्यवहारनयव्युत्पत्तिपात्रं भवितुमर्हति, ततो निश्चयनयव्युत्पादनयोग्यो भव: तीति प्रथमतो व्यवहारनयव्युत्पत्त्याधानयोग्यत्वाद् व्यवहारनयभूमिस्ततो व्युत्पादितव्यवहारोऽसौ निश्चयव्युत्पत्त्याधानयोग्यत्वान्निश्चयनयभूमिरित्येवं भूमिक्रमानुरोधेन / अन्यथा भूमिकमानाश्रयणे / हि यतः। अव्युत्पादितव्यवहारः अविज्ञातव्यवहारनयमार्गः, अस्य 'शिष्यः' इत्यनेन सम्बन्धः / यावन्न व्यवहारनये व्युत्पन्नस्तावनिश्चयनयव्युत्पत्तिको न भवितुमर्हतीति दुष्प्राप्यव्युत्पत्तिकनिश्चयश्चेति- दुष्प्राप्या प्राप्तुमशक्या व्युत्पत्तिर्यस्य स * दुष्प्राप्यव्युत्पत्तिकः, दुष्प्राप्यव्युत्पत्तिको निश्चयो यस्य स दुष्प्राप्यव्युत्पत्तिकनिश्चयः, येन पुंसा निश्चयनयस्य व्युत्पत्तिः प्राप्तुं न शक्यते स इत्यर्थः, तथा च व्यवहारमार्गानभिज्ञो निश्चयनयमार्गानभिज्ञश्च शिष्यो निश्चयनयोपन्यासेन एतदुपन्यस्तफलं मयि भविध्यति नवा निश्चयनयोपदिष्टकर्मण इदं फलं नवेत्येवं फलसन्देहलक्षणा या दोला तस्यामधिरोपणन संसार एव भ्रामितः स्यात्, पुनर्जननं पुनमरणं पुनर्जन्मेत्येवं पुनः पुनः संसार्येव स्यान्न मुक्तिमासादयेदित्यर्थः / यो यदुपदेशायोग्यः स तदुपदेशतोऽनर्थमेवासादयति न तदुपदिष्टं फलमित्यत्र परवचनसंवादमाह-तदुक्तमन्यैरपीति। अक्षस्येति- विशेषतो विज्ञानरहितस्येत्यर्थः, तेन सर्वथा ज्ञानरहितत्वस्य जीवमात्रेऽसंभवेऽपि न क्षतिः / 'सर्व ब्रह्म' इत्येत् प्रतिपाद्यं यथाश्रुतमपि यो न जानाति तस्योक्तवाक्येन श्रुतमात्रेण नेष्टं नवाऽनिष्टमुपजायते तथाविधरागद्वेषराहिल्यादत कमई प्रबद्धस्येति- शक्त्योक्तवाक्यप्रतिपाद्यं ज्ञातुं समर्थः, तदभिप्रेतार्थ नावधारयितुं प्रभुः, एतादृशोऽर्द्धप्रबुद्धो दर्शितवाक्येन सर्वस्य वस्तुनो ब्रह्मैकरूपत्वमवगत्यागम्यागमनाऽभक्ष्यभक्षणादिकं यथेष्टमनुतिष्ठेद्, अतस्तदुपदेशतः स महानरकेष्वेव पतितः स्यात् / स अशोऽर्द्ध प्रबुद्धः, तेन सर्व ब्रह्मेत्युपदेशक / न चेत्यस्य वाच्यमित्यनेनान्वयः / “जनिते क्रिया" इत्यस्य स्थाने "जनितक्रिया" इति पाठो युक्तः // विवृणोति-ये इतीति / ज्ञानमात्राभिमानिन इति मूलस्य विवरण-शानमेवास्माकं सर्वो सामग्री सम्पाद. यिष्यतीति स्वेच्छाकल्पितसन्तोषवन्त इति / क्रियाभ्यासे सीदन्ति ज्ञानमात्रेणैव सम्भूतसामग्रीकेणानायासमेव मुक्तिफलं भविष्यत्यस्माकमतः कष्टकफलिका संयमाराधनादिका क्रिया नाचरितव्येति तदाचरणे क्लिश्यन्तः कियां नाचरन्त्येव, ते ज्ञानमात्राभिमानिनः, निश्चयात् वस्तुतः परमार्थत इति यावत्, निश्चयं निश्चयनयरहस्यम् / तत् किं प्रकारान्तरेण निश्चयं ते जानन्ति येन निश्चयादिति विशेषणमुपात्तमिति पृच्छति-किन्विति / उत्तरयति-शब्दा.

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282