Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 24 नयामृततरङ्गिणी-सरङ्गिणीतरणिभ्यां समलङ्कृतो नयोपदेशः / निब्धयोद्धाहः फलेपहिः " सुदपरिचिदाणुभूदा मञ्चस्स वि कामभोगबंधकधा / एगत्थस्सुवलंभो णवरि ण सुलभो विभत्तस्स // " [ समयप्राभृतम् ] इत्यादिवचनात् , अत एव बुधादिविकलेनेदं कस्यचिदेवादेयं प्रवचनपरमगुह्यमितीतरशालेभ्यो विशिष्यत इति चेत् ? तर्हि तादृशं समयप्राभृतादिकं हिङ्गुमरिचविक्रयकारिणां मुग्धवणिजामधीनं कुर्वद्भिर्भवद्भिः समीचीनं प्रवचनगुणमाघ्रातम् , कथं च पदार्थपरिज्ञानादिव्यवहारव्युत्पत्तो नैमिके द्रव्यसङ्ग्रहादावप्यादौ निश्चयोपन्यासेन सूचिमुखे मुशलप्रवेशनं व्यवसाय आयुष्मतो नोपहासकरः !, कथं वा लौकिकव्यवहारजनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारमुत्पादनस्यैवावसरप्राप्तत्वेन तमुल्लवय युक्तः, तस्य निर्मिते इत्यर्थः, अस्मच्छास्त्रे दिगम्बरशास्त्रे, आदी व्यवहारनयोपन्यासात् पूर्वमेव, निश्चयोहाहः निश्चयनयोपन्यासः, फलेग्रहिः परिणामे फलप्रदः / उक्तार्थे समयप्राभृतादिवचनं प्रमाणयति-सुद० इति- 'सुतपरिचिता. नुभूता मयस्यापि कामभोगबन्धकथा। एकार्थस्योपलम्भो नवरं न सुलभो विभक्तस्य // " इति संस्कृतम् / अत एव दिगम्बरशास्त्रस्यात्मशरीराभेदभ्रमोन्मूलनार्थ प्रवृत्तस्यादौ निश्चयोगाहस्य फलेप्रहित्वादेव, 'अत एवेदमितरशास्त्रेभ्यो विशिष्यते' इत्यन्वयः / “बुधादिविकलेनेदं" इत्यस्य स्थाने "बुद्ध्याद्यविकलस्येदं" इति पाठो भवितुमर्हति, यथाश्रुतं तु न सङ्गतिमङ्गति, इदं दिगम्बरशास्त्रम्, बुद्धयाद्यविकलस्य कस्यचिदेव प्रमातुरादेयमुपादेयम्, प्रवचनपरमगुह्यं जैनराधान्तगूढरहस्यावेदकम्, इति एतस्मात् कारणात्, इतरशास्त्रेभ्यः दिगम्बरशास्त्रभिन्नशास्त्रेभ्यो जैनराद्धान्तरहस्यानावेदकेभ्यः, विशिष्यते विशिष्टं भवति / उक्तदिगम्बराशङ्कां समाधत्ते-तीति। तादृशं प्रवचनपरम गुह्यम् , हिङ्गुमरीचविक्रयकारिणामित्यनन मुग्धा वणिजोऽत्यन्तं शास्त्ररहस्यानभिज्ञाः स्वाधीनानां शास्त्रदलानां हिङ्गु मरीचादिपरिवेष्टनकार्य एवोपयोगं करिष्यन्ति, हिङगुमरीचादिक्रयकारिणश्च मुग्धा व्यवहारिणो बालविष्ठाद्यशुचिप्रमार्जनादिकर्मण्येव तेषामुपयोगं करिष्यन्ति, न तु तदधीनस्य समयप्राभृतादेः प्रवचनपरमगुह्यावदकत्वेन प्रववनपरमगुह्यत्वं ग्रहीयन्तीत्यावदितं भवति / भवद्भिः दिगम्बरैः, दिगम्बरस्य साधोः समयप्राभृतादिशास्त्रदलान्यपि स्वस्य सर्वथा निर्ग्रन्थत्वरक्षणाय परित्याज्यान्येवातस्तेषां मुग्धवणिगधीनत्वमावश्यकमेवेति / आघ्रातमित्यनेनान्याधीनस्य शास्त्रस्य सम्यगवलोकनं साभ्यास न भवत्यत आपाततो निरीक्षणमेव न ततः प्रवचनगुह्यस्य सम्यगवसितिरित्यावेदितम् / कथं चेत्यस्य 'नोपहासकरः' इत्यनेनान्वयः / पदार्थति- अस्य पदस्यायमर्थ इत्येवं यत् पदार्थपरिज्ञानम् , आदिपदात् तजन्यं यद् विहितक्रियाद्याचरणं निषिद्धक्रियाद्यनाचरणं तत्प्रभृतेः परिग्रहः, तदात्मिका या व्यवहारव्युत्पत्तिः व्यवहारोपयोगिनी व्युत्पत्तिस्तत्र / "नैमिके" इति स्थाने " नैयमिके" इति पाठो युक्तः, नियमकारके इति तदर्थः। द्रव्यसबाहादी द्रव्य• सङ्ग्रहादिग्रन्थेऽपि / आदी प्रथमतः / निश्चयोपन्यासेन निश्चयनयोपन्यासेन। "सूचिमुखे" इत्यस्य स्थाने 'सूची. मुखे' इति पाठो युक्तः, फाटितवस्त्रखण्डादेर्योजनादिकर्मनिपुणाऽयोनिष्पन्ना सूची, तस्या मुखं- सूत्रप्रवेशनार्थ छिद्रम् , तदतिसक्ष्मं भवति, तत्रातिसूक्ष्ममेव सूत्रं प्रयत्नेन प्रविशति, तत्रातिस्थूलस्य मुशलस्य प्रवेशनं न सम्भवति, यदि कस्यचिदतिमूढमतेः सूचीमुखे मुशलप्रवेशनव्यवसायो भवेत् स निष्फलत्वात् तस्योपहासकर एव भवति, तथा प्रथमतो निश्चयनयोपन्यासेनायुष्मत:-चिरंजीविनो दिगम्बरस्य, परोपकाराध्यवसाय उपहासकरः कथं नेत्यर्थः। "मुशलप्रवेशनं व्यवसाय" इत्यस्य स्थाने "मुशलप्रवेशनव्यवसाय" इति "मुशलप्रवेशने व्यवसाय" इति वा पाठो युक्तः / 'मायुष्मतः' इत्युपादानेन मूर्खश्चिरं जीवतीति वचनात् तथा व्यवसायकतुर्दिगम्बरस्य मूर्खत्वं ध्वनितम् / कथं बेत्यस्य न क्रमविरुद्धतेत्यनेनान्वयः / “व्यवहारमुत्पादनस्यैवा" इत्यस्य स्थाने “व्यवहारव्युत्पादनस्यैवा" इति पाठो युतः। तमुल्लल्य अवसरप्राप्तं लोकोत्तरव्यवहारव्युत्पादनमतिक्रम्य, प्रथमं लौकिकव्यवहारव्युत्पादनं ततस्तबनितभ्रममुन्मूलयितुं लोकोत्तरव्यवहारव्युत्पादनं तदनन्तरं निश्चयनयव्युत्पादनमित्येवं यः क्रमस्तद्विरुद्धता प्रथमतो निश्चयनयव्युत्पादने दिगम्बरस्य स्यादेवेत्यर्थः / नन्वनेकक्षणस्याप्यभ्युपगन्ता व्यवहारः, तत्रैकक्षणस्थित्यभ्युपगन्तृत्वं समस्येव, जयेकक्षणस्थितिमन्तरेणानेकक्षणस्थितिः सम्भवति, एकक्षणस्थितिस्स्वनेकक्षणस्थितिमन्तरेणापि सम्भवति, तथा चानेक

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282