Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 116
________________ नयामततरङ्गिणी-तरङ्गिणीतरसिम्यां समलखो बयोपदेशः / 259 श्रयमेतदर्थः-यद् वस्तुन:-जीवादेः, नाम-यथा गोपालदारकस्येन्द्र इति, स्थितमन्यार्थ इविपरमार्थत त्रिदशाधिपेऽवस्थानात् , तदर्थनिरपेक्षमिति-इन्द्रार्थनिरपेक्षम् , 'इदि परमैश्वर्ये' इति धात्वर्थस्य गोपालकेऽभावात् , तथा पर्याय:-शक-पुरन्दरादिभिः, नाभिधीयते इति पवम्भूतं नाम, इह नाम-नामवतोरभेदोपचाराद् गोपालकवस्त्येव नामोच्यते, तथान्यार्थेऽवर्तमानमपि किश्चिद् यादच्छिकं-डित्थडवित्थाविवचनम्, चशब्दादित्वरं यावद्रव्यमावि च बाह्यम् , यत् तु " णाम [ आवकहियं ]' इति सूत्रे प्रोक्तं तत् प्रतिनियतजनपदसंज्ञामाश्रित्यैवेति ध्येयम् / ननु -- गङ्गायां घोषः' इत्यत्र गङ्गापदेन गडावीरमभिधीयते, तत्र किं नामनिक्षेपस्य प्रवृत्तिरुत निक्षेपान्तरस्य ? नायः-जाह्नव्यादिपर्यायाभिधेयत्वेन तत्र . नामनिक्षेपाप्रवृत्तेः, नापि द्वितीयः,-प्रसिद्धनिक्षेपान्तराविषये तत्राप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रसगादिति चेत् ? न-" जत्थ य जं जाणिज्जा, णिरकेवं णिरिकवे गिरवसेसं" [अनुयोगद्वारे गा० 1] नामेति। गोपालदारकस्येन्द्रेति यन्नाम तत् कथमन्यार्थे स्थितमित्यपेक्षायामाह-परमार्थत इति / इन्द्रार्थनिर. पेक्षमिति - इन्द्रशब्दस्य निरुक्तिलभ्यो योऽर्थस्तदनपेक्षमिति तदर्थः। कथमिन्द्र शब्दार्थनिरपेक्षमित्याकाङ्खायामाह- इदीतिइदिधातुः परमैश्वर्यरूपार्थे वर्तत इति परमैश्वर्यरूपस्य धात्वर्थस्य गोपालदारकेऽभावाद् भवति गोपालदारके इन्द्रेति नाम तदर्थनिरपेक्षमित्यर्थः / “गोपालकेऽभावात्" इत्यस्य स्थाने ' गोपालदारकेऽभावात्" इति पाठो युक्तः। पर्यायानभिधेयं चेत्यस्यार्थ कथयति-पर्यायैरिति- इन्द्रशब्दसमानार्थकैरित्यर्थः, येन शब्देन सह यस्य शब्दस्यैकप्रवृत्ति. निमित्तकत्वं स शब्दस्तस्य शब्दस्य पर्याय इति इन्द्राब्दस्य यदेव प्रवृत्तिनिमित्तं तदेव शकादिशब्दस्य प्रवृत्तिनिमित्तमिति भवन्ति इन्द्रशब्दस्य शकादिशब्दाः पर्यायाः / निगमयति- एवम्भूतं नामेति / एवम्भूतं गोपालदारकवस्तु तत् कथं नाम ? गोपालदारकस्यार्थरूपत्वान्नाम्नश्च शब्दात्मकत्वादिसत आह-इहेति- प्रकृते इत्यर्थः / विरुद्धधर्माकान्तयोर्नाम-नामवतोः परमार्थतोऽभेदासम्भवादाह- अभेदोपचारादिति / 'गोपालकवस्त्येव" इत्यस्य स्थाने " गोपालदारकवस्त्वेव" इति पाठो युक्तः / तथा एवम् / अन्याथै यत्रार्थे इदानीन्तनपुरुषैः सङ्केतितं तद्भिन्नेऽर्थे / अवर्तमानमपि वाच्यवाचकभावसम्बन्धेन वृत्तिविकलमपि, आधुनिकसङ्केतविषयीभूतार्थभिन्नार्थावाचकमपीति यावत् / किश्चित् परिमितम् , यारच्छिकं स्वेच्छयैव केनापि पुरुषेणाभिनवव्यवहारप्रवृत्तये काष्ठमयहस्त्यादिवस्तुनि वाचकतया परिभावितम् , एतादृशं किमित्यपेक्षायामाह-डित्थडवित्थादिवचन मिति / चशब्दात 'यादृच्छिकं च' इति चकारात्। इत्वरं यत्किधिकालस्थायि, यावाव्यभाविच यावत्कालमभिधेयमवतिष्ठते तावत्कालमनुवर्तमानम्, सत् नाम, ग्राह्यं ज्ञातव्यम् / ननु नामाऽभिधेयस्य विनाशेऽपि यावलोकानां व्यवहारः प्रवर्तते तावत्कालावस्थायित्वाद् यावत्कृथिक सूत्रे भणितं तत् कथमित्यत आह-यत्त्विति / णाम जावकहियं नाम यावत्कथिकम् / तत् नाम्नो यावत्कथिकत्वकथनम्, प्रतिनियता या जनपदसंज्ञा-अमुकदेशविशेषस्यामुकनाम तामवलम्ब्य नाम्नो यावत्कथिकत्वकथनं सूत्रे इत्यर्थः / शङ्का-समाधानाभ्यां नामनिक्षेपस्य विशेषाऽवगति शिष्याणामाधातुं परस्य शङ्कामुत्थापयति-नन्वित्यादिना / 'अभिधीयते' इत्यस्य 'प्रतिपाद्यते' इत्यर्थः, तेन गापदेन गङ्गातीरस्य शक्त्या प्रतिपादनाभावेऽपि न क्षतिः। नाद्य इति-नामनिक्षेपस्य प्रवृत्तिरिति पक्षो न सम्भवतीत्यर्थः / निषेधे हेतुमाह-जाह्नव्यादीति- गङ्गातीरे घोष इत्यवगतये यथा गङ्गायां घोष इति वाक्यं प्रवर्तते तथा जालव्यां घोष इति भागीरथ्यां घोष इत्यादिवाक्यान्यपि प्रवर्वयितुं शक्यन्त एवेति जाहव्यादियों गङ्गापदस्य पर्यायस्तदभिधेयत्वेन- तत्प्रतिपाद्यत्वेन तत्र गङ्गातीरे नामनिक्षेपप्रात्त्यसम्भवात्- नामनिक्षेपलक्षणसन्निविष्टस्य पर्यायानभिधेयत्वस्य तत्राभावादित्यर्थः / तत्र निक्षेपान्तरप्रवृत्तिरिति द्वितीयविकल्पं प्रतिक्षिपति-नापि द्वितीय इति / निषेधे हेतमाह-प्रसिद्धति-प्रसिद्धस्य निक्षेपान्तरस्य नामनिक्षेपभिन्नस्य स्थापना-द्रव्य-भावनिक्षेपत्रयस्याविषये तत्र गमा'तीरेऽप्रसिद्धस्य- प्रसिद्धनामनिक्षेपादिचतुष्टयभिन्नस्य निक्षेपस्य कल्पने तदियत्तायाः-निक्षेपाश्चत्वार एवेत्येवं निक्षेपेयत्तायाः क्षतिप्रसङ्गादित्यर्थः / उक्काशङ्कायां प्रतिविधानमाह-नेति / जत्थति- " यत्र यं जानीयानिक्षेपं निक्षेपेनिरवशेषम्" इति संस्कृतम् / त्यनेन इत्यादिगाथावचनेन / यथापरिक्षानं परिज्ञानमनतिक्रम्य / निक्षेपान्तरकल्पनायाः प्रसिद्धनिक्षेप

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282