Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________ 250 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / न चैवमनेकार्थनामानुशासनस्यापि निक्षेपत्वप्रसङ्गः, तत्त्वत इष्टत्वाद्, व्यवहारतस्तु सिद्धान्त-तदुपजीव्यन्यतरतादृशवचनमेव निक्षेप उच्यते, न तु " लोकाद्" [सिद्धहेम० अ० 1, पा० 1, सू० 3] इति सूत्रेणोपनीमानमपीत्यदोषः, तत्र शब्दनयः, भावो-भावनिक्षेप एवेष्टः, परैः-( अर्थनयैः, निखिलाः. अशेषा नामादयश्चत्वारोऽपि, इष्टाः, तथा चोक्तम्- ) " सम्वणिक्खेवे " [ ]त्ति / योऽयं नामनिक्षेपः स निक्षेपलक्षणाकान्तो न स्यात् , तस्य नामघटत्वलक्षणैकशक्यतावच्छेदकावच्छिन्न एव घटपदस्यैकशक्तिप्रतिपादकत्वात् , एवं घटशब्दस्य स्थापनाघटे शक्तिरित्येवंरूपस्य स्थापनानिक्षेपस्याप्ये कधर्मावछिन्न एव शक्तिप्रतिपादकत्वान्निरुक्कलक्षणाकान्तत्वाभावानिक्षेपत्वं न स्यात् , एवं द्रव्यनिक्षेपभावनिक्षेपयोरपि प्रत्येकं निरुक्तलक्षणाव्याप्तिः, तथा घटशब्दस्य नामघटे स्थापनाघटे द्रव्यघटे. भावघटे च शक्तिरित्येवस्वरूपं वचनं न नामनिक्षेपाये कैकरूपमथापि निरुक्तलक्षणाक्रान्तमिति पञ्चमोऽयं भेदो निक्षेपस्यापतेदिति चेत् ? मैवम्- घटपदस्य नामघटे शक्तिरिति वचनरूपस्य नामनिक्षेपस्यानेकशक्तिप्रतिपादकत्वस्य सद्भावात् , घटरूपात्मकस्य यद् घकारोत्तराकारोत्तरटकारोत्तरात्वरूपानुपूर्व्यवच्छिन्नं घटेति नाम तदपि नामघटस्तत्र नामघटत्वं निरूकानुपूर्वीरू, यस्य कस्यचित् पुंसो घट इति नाम क्रियते सोऽपि नामघटस्तत्र नामघटत्वं तत्पुरुषात्मावच्छेदकबालावस्थाद्याकलितानेकशरीरवृत्तिसामान्यमेव, एवं यस्य कस्यापि वस्तुनो घटेति नाम कृतं स्यात् तद्वस्तुनो नामघटत्वं तत्तदवस्थाभेदभिन्न तत्तद्वस्तुगत सामान्यमेवेति तद्रूपशक्यतावच्छेदकभेदेनैकस्व घटशब्दस्यानेकशक्तिप्रतिपादकत्वं घटपदस्य नामघटे शक्तिरिति वचनस्य समस्तीति निक्षेपसामान्यलक्षणं तत्र समन्वयमहत्येव, एवं घटपदस्य स्थापनाघटे शक्तिरिति वचनको स्थापनानिपेऽपि निरुक्तनिक्षेपसामान्य लक्षणसमन्वयश्चेत्थं - स्थापना द्विविधासद्भूतस्थापनाऽसद्भूतस्थापना च, तत्र मात्तिकसौवर्णाद्यात्मकस्य घटस्य यः पृथुबुनाद्याकारः स्वगतो यश्चान्यागतोऽपि तत्सुसदृश आकारः स सद्भूतस्थापना, यश्चान्यादृशोऽपि 'अयं घटः' इत्येवं स्थाप्यते सोऽसद्भूतस्थापना, तदुभयत्र नैकं सामान्य किन्तु भिन्नमेव स्थापनाघटत्वम्, तदवच्छिन्ने स्थापनाघटे घटपदस्य शक्तिप्रतिपादकं स्थापनाघटो घटपदशक्य इति वचनमपि स्थापनानिक्षेपो निक्षेपसामान्यलक्षणाकलित एव, द्रव्यघटोऽपि यन्मृदादिकमनुभूतघटपर्यायमनुभविष्यद्घटपर्यायं वा तत् सर्वमपि द्रव्यघट इति व्यपदिश्यते, न च तत्सर्वानुगतमेकं द्रव्यघटत्वं किन्तु विभिन्नमेवेति द्रव्यघटो घटपदवाच्य इति वचनखरू द्रव्यनिक्षेपोऽपि नानाद्रव्यघटत्वधर्मावच्छिन्ने एकस्य घटशब्दस्यानेकशक्तिप्रतिपादकत्वाद् भवति निक्षेपसामान्यलक्षणालिङ्गितः, भावघटोऽप्यागमतो घटोपयोगलक्षगः, नोआगमतश्च पृथुबुनोदराद्याकारवान् घट इति तदुभयसाधारणमपि भावघटत्वं नैकं किन्तु विभिन्नमिति नानाभावघटत्वधर्मावच्छिन्ने घटपदस्यानेकशक्तिप्रतिपादक भावघटो घटपदशक्य इति वचनमतस्तदात्मकस्य भावनिक्षेपस्यापि निरुक्तनिक्षेपसामान्यलक्षणाकान्तत्वम् , यदपि घटपदस्य नामघटे स्थापनाघटे द्रव्यघटे भावघटे च शक्तिरिति वचनं तदपि नै कम् , किन्तु घटपदस्य नामघटे शक्तिरित्याद्यनेकवचनसमुदायरूपमिति न नामनिक्षेपादितो भिद्यते इति न पञ्चमनिक्षेपप्रसङ्ग इति बोध्यम् / अनेकार्थनामानुशासनेएकपदस्याने कशक्तिप्रतिपादके निरुक्तनिक्षेपसामान्यलक्षणस्य तिव्याप्तिमाशयेष्टापत्त्या परिहरति-न चेति / तस्वतः परमार्थतः। इष्टत्वात् अनेकार्थनामानुशासनस्यापि निक्षेपत्वस्येष्ठत्वात् तदापादनं न दोषायेत्यर्थः। जैनसिद्धान्तातिरिक्तसिद्धान्ते निक्षेपव्यवहारो नास्त्येव, किन्तु जैनसिद्धान्ते तदभिज्ञगुम्फितग्रन्थे च निक्षेपव्यवहारः समुपलभ्यते, सच नाम-स्थापना-द्रव्य-भावेष्वेव वचनार्थतया पुरस्कृतेष्विति न नानार्थनामानुशासनस्य लक्ष्यतत्याशयेनाह-व्यवहारतस्त्विति / सिद्धान्तेति-जैनसिद्धान्त-जैनसिद्धान्तोपजीव्यन्यतरात्मकं यच्छक्यतावच्छेदकभेदेनैकस्य शब्दस्यानेकशक्तिप्रदर्शकं वचनं तदेव निक्षेप: सिद्धान्ताभिज्ञैः कथ्यत इत्यर्थः। न विति- "लोकात्" इति सिद्धहेमचन्द्रशब्दानुशासनसूत्रेणोपनीयमानं-प्राप्यमाणमनेक र्थानुशासनमपि नैव निक्षेपः, तस्य सिद्धान्ततदुपजीव्यन्यतरानात्मकत्वादित्युक्त. लक्षणाभावान्न तस्य निक्षेपत्वप्रसङ्ग इत्यर्थः / 'उपनीमान" इत्यस्य स्थाने " उपनीयमान" इति पाठो युक्तः / तत्र निक्षेपे। शब्दनयैः साम्प्रत- समभिरूढवम्भूताख्यैत्रिभिः शब्दनयैः / निखिलनिक्षेपाभ्युपगमकेऽर्थनयेऽपि भावनिक्षेपोऽभ्युपगत इति शब्दनयैर्भाव इष्ट इति न विशेषप्रतिपत्तिकरमत उक्तम् - भावनिक्षेप एवेति / उक्तार्थे संवादमाहतथा चोक्तमिति / "सव्वनिक्खेवे" अस्य स्थाने “भावं चिय सद्दनया सेसा इच्छेति सम्वनिक्खेवे" इति पाठो युक्तः, "भावमेवं शब्दनयाः शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम् / द्रव्यार्थिकानां नेगम-सङ्ग्रह-व्यवहार -

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282