Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 109
________________ 252 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलईतो नयोपदेशः / केन द्रव्यग्रहे द्रव्यार्थिकस्यान्तर्ग/त्वप्रसक्तः, एकस्मिन् द्रव्यपक्षे पर्यायार्थिकनयमतेऽपि द्रव्यं सामायिकमित्यस्याविरोधप्रसङ्गाञ्चैतन्मतस्य भाष्यकृतैव निरस्तत्वाचेति चेत् ? अत्रेदं पर्यालोचयामः-अविशुद्धानां नैगमभेदानां नामायभ्युपगमप्रवणत्वेऽपि विशुद्धनगमभेदस्य द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न तत्र भावनिक्षेपानुपपत्तिः, न चैवमस्य पर्यायार्थिकत्वापत्तिः, इतराविशेषणत्वरूपप्राधान्येन पर्यायानभ्युपगमात् , शब्दादीनां पर्यायार्थिकानां तु नैगमवदविशुद्धयभावान्न नामाद्यभ्युपगन्तृत्वमिति, नन्वेतदपि पर्यालोचनं न पर्यालोचनान्तरसहम् , स्वविषयविशुद्धिकृतापर्यायविषयताशालित्वस्य खविषयविशुद्धिकृतापर्यायाविषयत्वविनिर्मोकस्य वा भावनिक्षेपसहत्वस्य सङ्घहर्जुसूत्रयोरव्यापकत्वात् तज्जातीयेऽविशुद्ध्यभावेनोपसर्जनीकृतपर्यायविषयतया तच्छोधनस्य दुःसाध्यस्वात् , ईदृशस्य भावविषयत्वस्य सर्वानुगतत्वेन " सेसा इच्छंति सबणिक्खेवे" [ ] इत्यस्य व्याघातापातादिति चेत् ? न-भावार्थानवबोधात्, ‘अन्त्यनैगमेनेतरविशेषणतया पर्यायो विषयी क्रियते' इत्यस्य ह्ययमर्थः-पाश्चात्यनयात् विशेषोपयोगेन विशेषमनुभवताऽन्त्यनैगमेन सह भेदाभ्युपगमः कथं सङ्गच्छेतेति पर्यायार्थिकमतेऽपि गुणप्रतिपन्नमात्मद्रव्यं सामायिकं स्यादेवेति पर्यायार्थिकमते गुणः सामायिक नात्मद्रव्यमिति न सङ्गतं स्यादित्याह - पर्यायाथिकनयमतेऽपीति / एतन्मतस्य अनन्तराभिहितमतस्य / अत्र उक्तप्रश्न इदम् अनन्तराभिधीयमानमेव समाधानम् , पर्यालोचयामः सम्यग्विचारयामः, इदं समाधानमपि नवं मयैव परिभावितमतः सम्यगभ्यसनीयं प्रन्थान्तरेऽनवाप्तेरित्यावेदयितुमुत्तमपुरुषादरः, अविशुद्धानामिति- पर्यायवियुतस्य द्रव्यस्याभावान्न शुद्धो नैगमस्तद्विषयकः, किन्तु अविशुद्धनैगमविशेषा एव केवलं द्रव्यमसदपि ग्रहीतुं प्रभविष्णव इत्यविशुद्धानां नैगमविशेषाणां कञ्चित् कालं स्थिरत्वेन द्रव्यात्मकानां नाम-स्थापना-द्रव्याणां पर्यायवियुतानामभ्युपगमे समर्थत्वेऽपि विशुद्धनगमविशेषस्य पर्यायाकलितद्रव्याभ्युपगन्तुर्द्रव्यविशेषणतया पर्यायाभ्युपगन्तृत्वान्न विशुद्ध नैगमभेदे भावनिक्षेपस्यानुपपत्तिरतो द्रव्यार्थिकनयस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वं सुसङ्गतमित्याशयः। नन्वेवं विशुद्धनैगमभेदस्य भावनिक्षेपा. भ्युपगन्तृत्वे पर्यायाभ्युपगन्तृत्वात् पर्यायार्थिकत्वमपि स्यादित्याशङ्य प्रतिक्षिपति-न चेति / एवं विशुद्धनैगमविशेषस्य भावनिक्षेपसहत्वाभ्युपगमे / अस्य विशुद्धनगमविशेषस्य / निषेधे हेतुमाह- इतरेति-प्राधान्येन. पर्यायविषयकत्वमेव पर्यायार्थिकत्वे तन्त्रम् , प्राधान्यं चेतरा विशेषणत्वम् , विशुद्धनैगमस्तु द्रव्यविशेषणतया पर्यायं गृह्णाति न तु द्रव्याविशेषणतयेतीतराविशेषणतालक्षणप्राधान्येन पर्यायविषकत्वस्य विशुद्धनैगमेऽभावान तस्य पर्यायार्थिकत्वापत्तिरित्यर्थः। शब्दादीनामितिशब्द-समभिरूढेवम्भूतानां पर्यायार्थिकनयानां नैगमवद् विशुद्धयविशुद्धिभेदाभावात् केवलस्य पर्यायस्य द्रव्याविशेषितस्यासतोऽपि समस्त्येव विषयत्वम् , तेषां तदेव विशुद्धत्वमिति नाम-स्थापना-द्रव्यात्मकद्रव्यविषयकत्वस्य तेषु सर्वथैवाभावान नामादिनिक्षेपाभ्युपगन्तृत्वं किन्तु केवलभावनिक्षेपभ्युपगन्तृत्वमेवेत्यर्थः / नैगमस्य भावनिक्षेपसहत्वमसहमानः पुनरपि शङ्कते-नन्विति / एतदपि विशुद्धनैगमविशेषस्य द्रव्यविशेषणतया पर्यायविषयकत्वेन भावनिक्षेपसहत्वस्य समर्थकमपि / पर्यालोवनमपि विचारणमपि / पर्यालो बनान्तरमेव दर्शयति-स्वविषयेति- अत्र स्वपदेन यस्मिन् नये भावनिक्षेपसहत्वमुपपादनीयं तस्य प्रहणम् / “विशुद्धिकृतापर्याय" इत्यस्य स्थाने " विशुद्धिकृतपर्याय" इति पाठः सम्यग् / निरुक्तभावनिक्षेपसहत्वस्य समहर्जुसूत्रयोरव्यापकत्वमेव व्यवस्थापयति-तजातीय इति- सहजातीये ऋजुसूत्रजातीये चेत्यर्थः / तच्छोधनस्य अविशुद्धिशोधनस्य / ईशस्य स्वविषयविशुद्धिकृतपर्यायविषयताशालित्वरूपस्य स्वविषयविशुद्धिप्रयुक्तपर्यायायाविषयत्वविनिर्मोकरूपत्वस्य वा / "सर्वानुगतत्वेन" इत्यस्य स्थाने " सर्वाननुगतत्वेन " इति पाठो युक्तः, सङ्घहर्जुसूत्रयोरव्यापकत्वात् सर्वाननुगतत्वम् , सेसा० इति- " शेषा इच्छन्ति सर्वनिक्षेपान्" इति संस्कृतम्। समाधत्ते-नेति / स्वोक्त्यभिप्रेतार्थमेवोपदर्शयति- अन्त्यनेगमेनेति / पाश्चात्यनयादिति- नैगमनयान्तरं सङ्कहनयः प्रवर्तत इति नैगमनयात् पाश्चात्यो नयः सङ्गहनयस्तस्मादित्यर्थः, अस्य विशेषम्' इत्यनेनान्वयः। विशेषो.

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282