Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 76
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / 219 नयामृत०-भजनाया इति / भजनाया विकल्परूपत्वादेवं सत्येकतरमादाय विनिगन्तुं शक्यत्वात् , व्यवस्था-यो यदीयः प्रदेशः स तदीय एवेतिलक्षणा, अपैति- अपगच्छति, धर्मास्तिकायादि. प्रदेशस्याधर्मास्तिकायादित्वेनापि भजनीयत्वप्रसङ्गात् / न च वस्तुनि सत्त्वा-ऽसत्त्वादिस्याद्वादभजना. वदत्रोपपत्तिः, तत्राप्येकान्तासम्बलिताऽनेकान्ताश्रयणे विकल्पमात्रस्य दुरित्वात् ; तद्वदेवात्र स्यात्. पदेनैकान्तसम्बलनमपि भविष्यतीति चेत् ? न- उद्देश्य विधेयविशेषपर्यवसानेन तस्य वक्ष्यमाण एव पर्यवसानात् , तत्-तस्मात् कारणात् , धर्मे-धर्मास्तिकाये, यः प्रदेशः स धर्मो-धर्मास्तिकाय इति सप्तमीतत्पुरुषेण, धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः कर्तव्यः / एकोनषष्टितम-षष्टितमपद्याभ्यां साम्प्रतनयाख्यस्य प्रथमस्य शब्दनयस्य वक्तव्यमावेदितम् , तत्र प्रथमपद्यं विवृणोतिभजनाया इतीति-'स्याद्धर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवंरूपाया ऋजुसूत्राभिमतभजनाया इत्यर्थः / 'विकल्पवाद' इति मूलमधृत्वैव विवृतम्-विकलारूपत्वादिति, 'एवम्' इत्यस्य विवरणम्- एवं सतीतिमजनाया विकल्परूपत्वे सतीत्यर्थः / एकतरमादायेति यथा यवैर्यजेत, ब्रीहिभिर्वा यजेत' इति विकल्पस्थले यवकरणकयागाद् यदेवादृष्टं तदेव ब्रीहिकरणकयागादपि, न तु यादृशफलजनक यवकरणकयागप्रभवमदृष्टं तद्विजातीयफलजनक ब्रीहिकरणकनागप्रभवमदृष्टम् , तथा प्रकृतेऽपि य एवं प्रदेशो धर्मास्तिकायस्य स एव प्रदेशोऽधर्मास्तिकायस्यैवमाकाशास्तिकायादेरपि प्रसज्येतेत्यर्थः / एवं च व्यवस्थाविलयः स्यादित्याह-व्यवस्थेति / किंस्वरूपा व्यवस्थेत्यपेक्षायामाह-यो यदीय इति-यः प्रदेशो धर्मास्तिकायसम्बन्धी स धर्मास्तिकायसम्बन्ध्येव नाधर्मास्तिकायादिसम्बन्धी, एवं यः प्रदेशोऽधर्मास्तिकायसम्बन्धी सोऽधर्मास्तिकायसम्बन्ध्येव न धर्मास्तिकायादिसम्बन्धीत्येवंस्वरूपा व्यवस्थेत्यर्थः / अपैतीत्यस्य विवरणम्भपगच्छतीति / तत्र हेतुमाह-धर्मास्तिकायादीति-धर्मास्तिकायप्रदेशोऽधर्मास्तिकायीय आकाशास्तिकायीय इत्येवं विकल्पनीयत्वप्रसमादित्यर्थः। ननु यथैकस्मिन्नेव वस्तुनि किश्चिदपेक्षया सत्वं किञ्चिदपेक्षयाऽसत्वमित्येवं सत्त्वाऽसत्त्वादिस्याद्वादभजना भवति तथैकस्मिन्नपि प्रदेशे धर्मास्तिकायीयत्वादिभजनोपपत्तिः स्यादित्याशङ्कय प्रतिक्षिपति-न चेति-अत्र प्रदेशगतधर्मास्तिकायीयत्वादिविमर्शे / उपपत्तिः प्रदेशभजनीयत्वोपपत्तिः। सत्त्वाऽसत्त्वाद्यनेकान्तोऽप्येकत्र वस्तुन्येकान्तः, तस्य चानेकान्तत्वं नयापेक्षयकान्तत्वं प्रमाणापेक्षयाऽनेकान्तत्वमिति कृत्वा, सर्वथाऽनेकान्तस्यानेकान्तस्यानेकान्तत्वे सत्त्वादेरपि सर्वथैव वस्तुनि सत्त्वासत्त्वापत्या सत्वादिसंवलिताऽसत्त्वादिलक्षणानकान्ततैव स्यान त्वमुकापेक्षया सत्त्वमेवामुकापेक्षया चासत्त्वमेवेत्येवमेकान्ततापीति यस्य यदपेक्षया सत्त्वं तस्य तदपेक्षयाऽसत्त्वादिकमपीत्येवं विकल्पनीयत्वमेव स्यात् , न तु यस्य यदपेक्षया सत्त्वं तस्य तदपेक्षया सत्त्वमेव, तस्य यदपेक्षयाऽसत्वं तस्य तदपेक्षयाऽसत्त्वमेवेत्येवमवधारणात्मकैकान्तानुप्रवेशेन याऽनेकान्तव्यवस्था सा भज्येत, अतः सत्त्वासत्त्वादिस्याद्वादभजनाऽप्येकान्तसंवलिनाऽनेकान्तरूपतायामेवोपपन्ना नान्यथा, एवं चेकान्तासंवलितानेकान्तस्य सत्त्वादावप्यभावान्न तदृष्टान्तेन प्रदेशभजनीयत्वोपपत्तिरिति निषेध हेतुमुपदर्शयति:तत्रापीति-सत्त्वासत्वादिस्याद्वादभजनायामपीत्यर्थः / ननु यथा सत्त्वासत्त्वादिस्याद्वादे एकान्तसंवलनं तथा. प्रकृतेऽपि भविष्यतीति प्रदेशभजनीयत्वोपपत्त्या व्यवस्था स्यादित्याशङ्कते-तद्वदेवेति-सत्त्वासत्त्वादिस्याद्वादभजनायामेकास्तसंवलिता नेकान्ताश्रयणवदेवेत्यर्थः / अत्र प्रदेशभजनीयत्वे। स्यात्पदेनेति-स्याद्धर्मास्तिकायस्य प्रदेशः' इत्यादिवाक्यघटकस्यात् पदेनेत्यर्थः / य एव प्रदेश उद्देश्यः स एव धर्मास्तिकायसम्बन्धित्वादु धर्मास्तिकायात्मकत्वाद वा धर्मास्तिकाय इत्येवं विधेयः एवं य एवं प्रदेश उद्देश्यः स एवाधर्मास्तिकायसम्बन्धित्वादधर्मास्तिकायात्मकत्वाद् वा विधेय इत्येवं स्यात्पदमनुशास्तीत्यः स्मन्मतपर्यवसानमेवेति शब्दनयवादी समाधत्ते-नेति / उद्देश्यविधेयविशेषपर्यवसानेन 'स्याधर्मास्तिकायस्य प्रदेश: इत्यत्र य उद्देश्यो यश्च विधेयस्तस्मादन्य उद्देश्योऽन्यश्च विधेयः स्यादधर्मस्तिकायस्य प्रदेशः' इत्यांदावित्येवमुद्देश्यविधेय. विशेषपर्यवसानेनेत्यर्थः / तस्य 'स्याधर्मास्तिकायस्य प्रदेशः, स्यादधर्मास्तिकायस्य प्रदेशः' इत्येवं प्रदेशभजनीयत्वस्य / पक्ष्यमाण पव धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेशो धर्मास्तिकाय इत्येवमनन्तरमभिधीयमान एव / तदिति * मूलस्य विवरणम्-तस्मात् कारणादिति-प्रदेशभजनीयत्वे व्यवस्थापगमप्रसङ्गलक्षणकारणादित्यर्थः / ततः कोऽत्र निर्णयः स्यादित्यपेक्षायामाह-धर्म इति, अस्य विवरणम्-धर्मास्तिकाये इति-धर्मास्तिकाये प्रदेशो धर्मास्तिकाय इति सप्तमीतत्पुरुषेण निर्णयः कर्तव्यः, वा अथवा-धर्मास्तिकायश्चासौ प्रदेशो धर्मास्तिकायप्रदेश इति कर्मधारयेण निर्णयः

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282