Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 87
________________ 230 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / किमाविष्क्रियते अननुगतानां जातीनामित्र व्यक्तीनामप्यसौ सादृश्येनैवानुगमसंभवेन जात्युच्छेदापत्तिः, घटपदस्य नानार्थत्वे स्पष्ट एव लौकिकव्यवहारबाधश्च / घटत्वादिकमेकत्ववृत्त्येव मृत्त्वादिकमेव वा तथा, कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्त्वेन चक्रा. दि(लोह)वर्तुलादेश्च कथश्चिद्विजातीयव्यापारकत्वेन हेतुत्वमित्यादिनवीनकल्पना तु दोषादेकत्वाग्रहेऽपि घटत्वादिग्रहात् ,एकत्वस्यैकत्वात् ,प्रसिद्धरूपेण कार्यकारणभावोच्छेदे व्यवहारविलोपाश्चानुपपन्ना, इति नय वरमतिरिक्त जातिमस्वीकृत्यैव सौसादृश्येन व्यक्तीनामनुगमनम् , तत एव चानुगतप्रतीतिरिति सर्वत्र जातेरभ्युपगमने न किञ्चित् प्रयोजनमिति मार्दव-सौवर्णघटादिषु सौसादृश्येनानुगतप्रतीतिमभ्युपगच्छद्भिनैयायिकादिभिर्जातिमात्राय जलाअलिरेव वितीर्णा स्यात् , यथा च सौवर्ण-मार्दवादिघटेष्वेकस्य घटत्वसामान्यस्याभावे नानाथत्वं तथा गोत्वादिजात्यभावेऽपि गवादिपदानां नानार्थत्वमेवास्त्वित्यतोऽपि जात्युच्छेदापत्तिः स्वहस्तितैव स्यादित्यर्थः / 'व्यक्तीनामप्यसौ' इत्यस्य स्थाने " व्यक्तीनामपि सौ" इति पाठो युक्तः / घटपदस्यैकप्रवृत्तिनिमित्तकत्वलक्षणमेकार्थत्वमेव लौकिकैर्व्यवह्रियते, तस्य नानाप्रवृत्तिनिमित्तकत्व. लक्षणनानार्थत्वाभ्युपगमे तद्बाधोऽपीत्याह-लौकिकव्यवहारबाधश्चेति / घटत्वे मृत्त्वादिजातिसाङ्कर्यपरिहाराय स्वर्णघटादौ चक्रादीनां कुम्भकारादीनां चैककारणत्वोपपत्तये या नवीनानां कल्पना तामुपन्यस्य दूषयति-घटत्वादिकमेकत्ववृत्त्येवेतिमार्दव-सौवर्णादिघटगतैकत्ववृत्त्यैव घटत्वादिकम् , तस्य च मृत्त्वसुवर्णत्वादिना सामानाधिकरण्याभावान्न सायम् , घटादौ तस्य स्वाश्रयैकत्ववत्त्वसम्बन्धेनेव वृत्तित्वम् , तस्य तेनैव सम्बन्धेन घटोऽयं घटोऽयमित्यनुगतप्रतीतिनिबन्धनत्वमित्यनुगतप्रतीत्युपपत्तिः, उक्तपरम्परासम्बन्धेनैवैकत्ववृत्तेरपि घटत्वजातेर्घटपदप्रवृत्तिनिमित्तत्वमित्येकार्थत्वव्यवहारोपपत्तिश्चेत्यर्थः / वा अथवा / मृत्त्वादिकमेवेति-आदिपदात्, स्वर्णत्वादेः परिग्रहः, एवकारेण घटत्वादेरेकत्ववृत्तित्वस्य व्यवच्छेदः / तथा घटादिगतैकत्ववृत्तिः, एवमपि घटत्वस्य न मृत्वादिना सार्यम् , घटत्वं हि घटात्मकद्रव्ये वर्तते, मृत्त्वादिकं च न घटात्मकद्रव्ये किन्तु तद्तैकत्वे, एवं च तयोः सामानाधिकरण्याभावात् कुतः साङ्कर्यम्, एवमभ्युपगमे घटादिद्रव्ये मृत्वादिप्रतीतिः स्वाश्रयैकत्वसम्बन्धेन, घटोऽयं घटोऽयमित्यनुगतप्रतीतिनियामकत्वं च घटत्वस्य समवायसम्बन्धेनैव, तेनैव सम्बधेन घटत्वस्य घटपदप्रवृत्तिनिमित्तत्वमपीति न घटपदस्य नानार्थत्वप्रसङ्गोऽपीति भावः। या मार्दवघटानुकूला 'कुम्भकारे कृतिः, या च सौवर्णादिघटानुकूला स्वर्णकारादिगता कृतिस्तत्र सर्वत्र वैजात्यविशेष उपेयते, तादृशवैजात्यविशेषाकलितकृतिमत्त्वेन कुम्भकार-स्वर्णकारादेरेकघटत्वावच्छिन्नं प्रत्येकमेव कारणत्वमुपेयत इति न व्यतिरेकव्यभिचारोऽपि, एवं चक्रादेशिव्यापारण मार्दवघटो जायते, लोहवर्तुलादेश्च यादृशव्यापारेण सौवर्णादिघटो जायते, तत्र सर्वत्र व्यापारे वैजात्यविशेष उपेयते, तादृशवैजात्यविशेषाकलितव्यापारवत्त्वेन चक्रादेलोहवर्तुलादेश्चैकघटत्वावच्छिन्नं प्रत्येकमेव कारणत्वमुपेयत इति नात्रापि व्यतिरेकव्यभिचार इति न नानाकारणत्वप्रसङ्ग इत्याह- कुम्भकार-स्वर्णकारादेरिति- कुम्भकार-स्वर्णकारादेर्विजातीयकृतिमत्त्वेन हेतुत्वमित्यन्वयः, हेतुत्वमित्यस्य घटत्वावच्छिन्नं प्रति हेतुत्वमित्यर्थः / ' इत्यादिनवीनकल्पना तु' इत्यस्य 'अनुपपन्ना' इत्यनेनान्वयः। अनुपपन्नत्वे हेतुमाह-दोषादेकत्वाग्रहेऽपीति-घटत्वादेर्मृत्वादेर्वा साङ्कर्यपरिहाराय घटादिगतकत्ववृत्तित्वं यत् परिकल्प्यते तन्न युक्तं धर्मिज्ञाने सत्येव तद्वतधर्मस्य ज्ञानमिति नियमेन घटादिगतकत्वज्ञाने सत्येव घटत्वादिज्ञानं यदि भवेत् तदा घटस्वादेरकत्ववृत्तित्वं सम्भाव्यतापि, न चैवम् , समूहगतत्वादिदोषाद् घटादावेकत्वस्याग्रहेऽपि घटत्वादेर्ग्रहादित्यर्थः / किञ्च व्यक्तीनामनेकत्वे सत्येवानुगतप्रतीत्यनुरोधेन तत्र जातिः परिकल्प्यते, अत एव नित्यत्वे सत्यनेकसमवेतत्वमिति जातिलक्षणं तत्र समनुगतं भवतीति, प्रकृते तु घटोऽयं घटोऽयमित्यनुगतप्रतीतिबलाद् यथा घटत्वादिकमेकं तथाऽयमेकोऽयमेक इत्यनुगतप्रतीतिबलादेकत्वमपि घटपटादिगतमेकमेव भवितुमर्हतीति न तत्रैकव्यक्तिकत्वाज्जातिकल्पना भद्रेत्याह-एकत्वस्यैकत्वादिति / यदपि कुम्भकार स्वर्णकारादिगतघटानुकूलकृतिगतं वैजात्य.' मुररीकृत्य विजातीयकृतिमत्त्वेन कुम्भकारस्वर्णकारादेरेकघटत्वावच्छिन्नं प्रति कारणत्वमेकं परिकल्पितम् , तथा चक्रादिव्यापार-लोहवर्तुलादिव्यापारगतवैजात्यविशेषपरिकल्पनापुरस्सरं विजातीयव्यापारवत्त्वेनैकधर्मेण चक्रादेलोहवर्तुलादेश्चैकघटत्वावच्छिन्न प्रत्येककारणत्वपरिकल्पनम् , तदुभयमपि न युक्तम् , कुम्भकारकत्वादिना घटत्वादिना प्रसिद्धरूपेण चक्रत्वादिना घटत्वादिना प्रसिद्धेन रूपेण कार्यकारणभावस्य व्यवह्रियमाणस्यैवं सत्युच्छेदे व्यवहारविलोपप्रसङ्गादित्याह-प्रसिद्धरूपेणेति /

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282