Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 88
________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिम्यां समलङ्कतो नयोपदेशः। 231 विशेषेण तत्र तत्र व्यावृत्तिविशेषरूपसामान्याभ्युपगम विना न निर्वाह इति / प्रकृते कार्यकरणकालेव्यावृत्तिविशेषरूपप्रस्थकत्वसामान्याभावाभ्युपगमे न क्षतिरिति किमतिप्रपश्चितेन // 65 // प्रस्थकश्चर्जुसूत्रस्य, मानं मेयमिति द्वयं / न ज्ञ-कर्तृगताद् भावाच्छब्दानां सोऽतिरिच्यते // 66 // नयामृत०-प्रस्थकश्चेति-ऋजुसूत्रस्य मानं मेयं चेति द्वयमेव प्रस्थकस्वरूपम् , तन्मेयधान्ये च समवहित एवं प्रस्थकव्यवहाराद् एकतरविनाभावे तत्परिच्छेदासम्भवात् , किञ्च, मेयारूढः प्रस्थकत्वेन व्यपदेश्य इति सङ्गहनयमते मेयारूढः प्रस्थकारूढं मेयं वा तथेत्यत्र विनिगमकाभावादभयत्रैव प्रस्थकपदशासज्यवृत्तित्वं युक्तम् , कथं तर्हि प्रस्थकेन धान्यं मीयत इति प्रयोगः, एकत्रोभयवाचकपदेनैकस्यानुपस्थानादिति चेत् ? न- एतन्नयेन कथश्चित् प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन विवक्षाभेदात् करणरूपानुप्रवेशस्यापि सम्भवान्न तदनुपपत्तिरिति द्रष्टव्यम् / तस्मान्नैयायिकादिपरिकल्पितमतिरिक्तसामान्यं न सम्भवत्येव, कित्वनुगतप्रीतिकार्यकारणभावं घटादिशब्दकार्थत्वाद्यनुरोधेनातन्यावृत्तिविशेषरूपमेव घटत्वादिसामान्यमभ्युपगन्तव्यम् , मापन कार्याकरणकाले च प्रस्थकव्यक्तौ तादृशस्यापि प्रस्थकत्वसामान्यस्याभ्युपगमे न किश्चित्प्रयोजनमिति प्रस्थकत्वसामान्याभावाभ्युपगमोऽपि न दोषावह इत्युपसंहरति- इति नयविशेषेणेति / प्रकृते प्रस्थके / अन्यत् स्पष्टम् // 65 // प्रस्थके ऋजुसूत्रनयाभ्युगमविशेषस्य साम्प्रतसमभिरूडैवम्भूततत्रयात्मकशब्दनयाभ्युपगमविशेषस्य चोपदर्शकं षट्षष्टितमपद्यं विवृणोति-प्रस्थकश्चेतीति। केवलं मानं मेयं वा कथं न प्रस्थकस्वरूपमित्याकाङ्क्षायामाह- तन्मेयधान्ये इति- प्रस्थकमानमेयधान्य इत्यर्थः। 'समवहित एव' इत्येवकारेण मेयधान्यासमवहिते प्रस्थके प्रस्थकव्यवहारो न भवतीत्यर्थो ज्ञापितः। कथं मेयधान्यसमवहित एव प्रस्थकै प्रस्थकव्यवहारो भवन्नपि प्रामाणिकैरुपादेय इत्यपेक्षायामाहएकतरविनाभाव इति- मानमेययोरेकतरस्याभावे इत्यर्थः। तत्परिच्छेदासम्भवादिति- इदं प्रस्थकमितं धान्यं, प्रस्थकमितधान्यमापकश्चायं प्रस्थक इत्येवं निश्चयस्यासम्भवादित्यर्थः। मानं मेयं द्वयं प्रस्थकपदवाच्यमिति युक्त्यन्तरेण व्यवस्थापयति-किश्चति / 'मेयारूढः' इत्यत्र मेयमारूढं यं स मेयारूढ इति बहुव्रीहिः, प्रस्थक इति दृश्यम् , एवमग्रेऽपि / प्रस्थकारूढमित्यत्र प्रस्थके आरूढं प्रस्थकारूढमिति सप्तमीतत्पुरुषः। तथा प्रस्थकत्वेन व्यपदेश्यः / उभयत्रैष मान-मेयोभयस्मिन्नेव, एवकारेण मानमात्रे मेयमात्रे च प्रस्थकपदशकेर्व्यवच्छेदः / ननु प्रस्थकपदशर्मानमेयोभयस्मिन्नेव व्यासज्यवृत्तिवे प्रस्थकपादात् तदुभयस्यैवोपस्थितिर्न केवलस्य मानविशेषरूपस्य प्रस्थकस्योपस्थितिः, प्रस्थकपदजन्योपस्थितौ च मापनक्रियाकरणत्वेनैव प्रस्थकस्य भानमिति तस्य करणत्वबोधिका तृतीयाऽपि पृथक्कया करणत्वोपस्थापिका न युक्तेति केवलमापके प्रस्थके 'प्रस्थकेन धान्यं मीयते' इति वाक्ये प्रस्थकपदप्रयोगोऽनुपपन्न इत्याशङ्कतेकथं तहीति / "प्रयोगः, एकत्रोभय" इत्यस्य स्थाने 'प्रयोग एकत्र, उभय ' इति पाठो युक्तः, एकत्र प्रयोगः कथमित्यन्वयः, एकत्रेत्यस्य मानमात्रे प्रस्थके इत्यर्थः / कथं न प्रयोग इत्यपेक्षायामाह-उभयेति-मानमेयोभयवाचकप्रस्थकपदैनैकस्य मानमात्रस्यानुपस्थापनादित्यर्थः। समाधत्ते-नेति / एतन्नयन ऋजुसूत्रनयन, 'कथञ्चिद' इत्यस्य 'अव्यासज्यवृत्तित्वेन' इत्यनेनान्वयः, "प्रस्थकपदशक्यतावच्छेदकस्य व्यासज्यवृत्तित्वेन" इत्यस्य स्थाने "प्रस्थकपदशक्यतावच्छेदकस्याव्यासज्यवृत्तित्वेन” इति पाठो युक्तः, “करणरूपानुप्रवेशस्थापि" इत्यस्य स्थाने "करणरूपाननुप्रवेशस्यापि" इति पाठः सम्यक् , तथा च ऋजुसूत्रनयेन . प्रस्थकपदशक्यतावच्छेदकस्य प्रस्थकात्मकमापनकरण-धान्याद्यात्मकमेयगतद्वित्वस्य कथञ्चिदव्यासज्यवृत्तित्वेन प्रत्येकावच्छेदेन माने मेये च वृत्तित्वेन प्रस्थकपदेन मापनकरणत्वेनोपलक्षितस्य . प्रस्थकखरूपस्य विवक्षातः करणत्वमनुपादाय प्रस्थकपदजन्योपस्थितौ प्रस्थकखरूपमात्रमानलक्षणस्य करणरूपाननुप्रवेशस्यापि सम्भवात् प्रस्थकपदोत्तरतृतीयाविभक्त्यैव करणत्वस्योपस्थितिसम्भवेन 'प्रस्थकेन धान्यं 'मीयते' इति वाक्यात् प्रस्थकनिष्ठकरणतानिरूपकमापनक्रियाकर्म धान्यमिति बोधस्य सम्भवेन न 'प्रस्थ केन धान्य मीयते' इति वाक्ये तृतीयान्तप्रस्थकपदप्रयोगानुपपत्तिरित्येवं ज्ञातव्यमित्यर्थः।"

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282