Book Title: Nayopdesh Part 02 Tarangini Tarni
Author(s): Yashovijay Gani, Lavanyasuri
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 75
________________ मबामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / समभिव्याहृतबहुवचनान्तप्रदेशपदोपादान एव तथाबोधसम्भवात् , यदि च गृहशतेऽश्वा इतिवदत्र तात्पर्यविशेषेणोक्तबोधसम्भव इतीप्यते तथापि प्रत्येकवृत्तिबहुत्वेन- बहुवचनेन साङ्काक्षेति सोऽपि पक्षोऽसन् , नझुक्तबोधार्थ * गृहशतेऽश्वाः' इतिवद् 'गृहशतेऽश्वः' इति कश्चित् प्रयुक्ते, तद्वत् पञ्चानां प्रदेश इत्युपदर्शितदिशाऽपि न युक्तः प्रयोगः, इति निर्गलितार्थः / तृनीयस्तु. पक्षो न युक्तःउक्तातिरिक्तभेदासिद्धेः / तत ऋजुसूत्रनयः प्रदेशभजनीयतां ब्रूते- स्याद्धर्मास्तिकायस्य प्रदेशः स्यादधर्मास्तिकायस्येत्यादि विकल्पयतीत्यर्थः // 58 // भजनाया विकल्पत्वाद्, व्यवस्थैवमपैति तत् / धर्मे धर्मः प्रदेशो वा, धर्म इत्यादिनिर्णयः // 59 // पर्याप्तिसम्बन्धावच्छिन्नास्ताः पुनस्तत्तदश्वगतैकत्वावच्छेदेनाश्वेषु वर्तन्त इति तदवच्छेदकानि तत्तद्गहगततत्तदश्वगतान्येकत्वानि, तद्वन्तः शतत्वसङ्ख्यावन्तोऽश्वा भवन्तीति तद्विषयको बोधो निरुक्तवाक्यादुपपद्यते प्रत्येक गेहे प्रत्येकमश्वस्य वृत्तित्वमुपादायेति, एवं धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यत्र धर्मास्तिकायादिगतं यत् पञ्चत्वं पर्याप्तिसम्बन्धेन तदधिकरणे धर्मास्तिकायादौ पर्याप्तिसम्बन्धावच्छिन्नाः प्रदेशगता वृत्तिता निरूपकतासम्बन्धेन वर्तन्त इति ता धर्मास्तिकायादिगतपञ्चत्वव्यापिका भवन्ति, तदवच्छेदकीभूतपर्याप्तिसम्बन्धस्यावच्छेदकं च धर्मास्तिकायादिगतमेकत्वमिति भवन्ति ता धर्मास्तिकायादिपञ्चत्वव्यापिकाः, एकत्वावच्छिन्नपर्याप्तिसम्बन्धावच्छिन्नास्ताश्च तत्तत्प्रदेशगतैकत्वावच्छेदेन तत्तत् प्रदेशेषु वर्तन्त इति ताशवृत्त्यवच्छेदकानि यान्येकत्वानि तद्वन्तः प्रदेशा इति तद्विषयको बोध इति / स च धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यप्रभवतयाऽनन्तरमुपदर्शितो बोधश्च / न सम्भवति धर्मास्तिकायादीनां पञ्चानां प्रदेश इति वाक्यतो न सम्भवति / निषेधे हेतुमाह-पञ्चेति-निरुक्तवाक्ये यद् बहुवचनान्तं पञ्चपदं तत्समभिव्याहृतं यद् बहुवचनान्तं प्रदेशपदं 'प्रदेशाः' इत्येवंस्वरूपं तदुपादाने-एव धर्मास्तिकायादीनां पञ्चानां प्रदेशा इत्येवंरूपेणोचारणे सत्येव, एवकारेणैकवचनान्तप्रदेशपदोपादानस्य व्यवच्छेदः / तथाबोधसम्भवात् प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येक प्रदेशानां वृत्तित्वमाश्रित्य दर्शितो यो बोधस्तस्योपपत्तेः। ननु गृहशतेऽश्वाः' इत्यत्र गृहपदं न बहुवचनान्तं तथापि प्रत्येक गृहशत. वृत्तित्वं प्रत्येकमश्वेषूररीकृत्य गेहेषु शतमश्वाः' इति वाक्यप्रभवोपपदर्शितबोधसमानाकारो बोधस्तात्पर्यबलाद् यथा भवति तथा तात्पर्यविशेषबलादत्रापि निरुक्तबोधः स्यादित्यत आह-यदि चेति / अत्र धर्मास्तिकायादीनां पञ्चानां प्रदेश इति. वाक्ये / तथापि 'गृहशतेऽश्वाः' इत्यत्र 'गेहेषु शतमश्वाः' इति वाक्यप्रभवबोधसमानाकारबोधस्य तात्पर्यविशेषबलात् सम्भवेऽपि / 'प्रत्येकवृत्तिबहुत्वेन" इत्यस्य स्थाने 'प्रत्येकवृत्तिबहुत्वेन ' इति पाठो युक्तः / प्रत्येकवृत्तिः प्रत्येकं धर्मास्तिकायादिपञ्चसु प्रत्येकं या प्रदेशस्य वृत्तिः सा / 'बहुत्वेन' इत्यस्य मूलस्य विवरणम् - बहुवचनेनेति, प्रदेशपदोत्तरबहुवचनेनेत्यर्थः / साङ्काक्षेति स्थाने साकालेति पाठो युक्तः, धर्मास्तिकायानां पञ्चानामित्यस्य प्रदेशा इति बहुवचनान्तप्रदेशपदसमभिव्याहाररूपाकाङ्क्षायां सत्यामेव निरुतप्रत्येकवृत्तित्वान्वयबोधः, न हि निराकासावाक्यात् तात्पर्यविशेषसहकारेणाप्यन्वयबोधः सम्भवतीत्याशयः / इति एतस्मात् कारणात् / सोऽपि पक्षः गृहशतेऽश्वाः' इति वत् तात्पर्यविशेषेण धर्मास्तिकायादीनां पञ्चानां प्रदेश इत्यपि प्रत्येकवृत्तिवान्वयबोधं जनयतीति पक्षोऽपि / असन् अयुक्तः, सोऽप्यसदिति पद्यघटकस्थाने 'सोऽप्यसन्' इति पाठः सम्यक् / उक्तपक्षस्यायुक्तत्वमुपपादयति-नहीति- अस्य 'प्रयुङ्के' इत्यनेनान्वयः / उक्तबोधार्थ प्रत्येकमश्वानां प्रत्येकं गृहेऽन्वयबोधार्थम् / तद्वदिति- यथा 'गृहशतेऽश्वः' इति न प्रयोगस्तथेत्यर्थः / तृतीयस्तु पक्ष इति-पञ्चविधत्वं पञ्चप्रकारत्वमित्यत्र प्रकारो भेद इति तृतीयविकल्पस्त्वित्यर्थः / उकातिरिकेति- सङ्ख्या-बुद्धिबिशेषविषयत्वाभ्यामतिरिक्तस्य भेदस्यासिद्धरित्यर्थः / ततः धर्मास्तिकायादीनां पञ्चविधः प्रदेश इति व्यवहारनयाभिमतस्यायुक्तत्वात् / 'प्रदेशभजनीयतां ब्रूते' इति मूलस्यार्थमुपदर्शयति-स्याद्धर्मास्ति यति / 'स्यादधर्मास्तिकायस्य' इत्यनन्तरमपि 'प्रदेशः' इत्यनुवर्तते, इत्यादि' इत्यादिपदात् स्यादाकाशास्तिकायस्य प्रदेशः, स्यात् पुद्लास्तिकायस्य प्रदेशः, स्याज्जीवास्तिकायस्य प्रदेश इत्येतत्रितयस्य परिग्रहः // 50 //

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282