Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्रीकल्पसूत्रे ॥ ३९८ ॥
B
Judom
युक्ते इत्यर्थः, तथा-मणि- गण - किरण - द्रीकृता- न्धकारे - मणयः - वैदूर्यादयस्तेषां यो गणः रमूहस्तस्य यः किरणः तेन दूरीकृतः = नाशितोऽन्धकारो यस्मिंस्तस्मिन् तथा पञ्चवर्ण - रत्न - शोभिते - श्वेतादिवर्णपञ्चकयुक्तरत्नविराजिते, तथा - दह्यमान - धूप - धूम - पटलाम्बुद - कान्ते - दद्यमानः - वह्नौ प्रज्वल्यमानो यो धूपः तदुत्पन्ना ये धूमास्तेषां पटलेन= समूहेन अम्बुदकान्ते= मेघवत्सुन्दरे, तथा - चित्ररक्त - मणि - रोचिः सुविद्युद्-भ्राजिते चित्राः = विलक्षणा ये रक्ताः= रक्तवर्णा मणयस्तेषां यद् रोचिः प्रकाशः तद्रूपा या सुविद्युत्-शोभना विद्युत् तया भ्राजिते = शोभिते, तथा-मृदु- मृदननिनादे मृदुः = कोमलः - श्रवणरमणीयो मृदङ्गस्य निनादो=ध्वनिर्यस्मिंस्तस्मिन, तथा - मेघजाल-भ्रम- नर्तितमयूरेमेघजालस्य = मेघसमूहस्याभावेऽपि गम्भीरमृदङ्गादिध्वनिश्रवणेन तद्भ्रमेण नर्तिताः नटिताः मयूरा यस्मिन् तस्मिन्, तथा - चन्द्रकान्तमणि - निर्झर - नीरे - चन्द्रकान्ताख्यमणिविशेषस्य चन्द्रोदयप्रभावेण यो निर्झरःस्रोतः, तद्रूपं नीरं= जलं यत्र तस्मिन्, तथा - शिल्पकलाकमनीये - शिल्पकलाभिः = स्वस्तिकसर्वतोभद्रनन्द्यावर्त्त्यादिरूपाभिः भवन शिल्पकलाभिः कमनीये = सुन्दरे, अतएव - अतिरमणीये = सुन्दरतरे, तथा - स्वक - शोभा - विडम्बित - सुरवर - विमाने
वहाँ के अंधकार को दूर कर दिया था । श्वत आदि पाँच रंगों के रत्नों से सुशोभित था । अग्नि में जलाये जानेवाले धूप से घूम का जो पटल-समूह उत्पन्न होता था, उससे वह मेघ के समान सुन्दर जान पड़ता था । विलक्षण लाल वर्णकी किरणों के प्रकाश रूपी सुन्दर विद्युत् से शोभायमान था । उसमें श्रुतिसुखद मृदंग की ध्वनि होती रहती थी । अत एव मेघपटल के अभाव में भी मृदंग की गंभीर ध्वनि को सुनकर मयूरों को मेघों का भ्रम हो जाता था और वे नाचने लगते थे। चन्द्रमा का उदय होने पर चन्द्रकान्त मणियों से जो जलस्रोत उत्पन्न होता था, तद्रप जल उस भवन में विद्यमान था । स्वस्तिक, सर्वतोभद्र, नन्द्यावर्त्त आदि भवन -कलाओं से वह सुन्दर था, अत एव सुन्दरतर था। अपनी शोभा से
શ્વેત આદિ પાંચ રંગોના રત્ના વડે તે સુશોભિત હતુ. અગ્નિમાં સળગાવતા ધૂપમાંથી ધૂમાડાના જે પટલ-સમૂહ ઉત્પન્ન થતા હતા તેના વડે તે મેઘ જેવું સુંદર લાગતું હતુ', વિલક્ષણ લાલ રંગના પ્રકાશરૂપી સુદર વિજળીથી તે શેોભાયમાન હતુ. તેમાં શ્રુતિ-સુખદ (કાનેને સુખ ઉપળવનાર) મૃદંગનો અવાજ થયા કરતા હતા. તેથી મેઘપટલ ન હોવા છતા પણ મૃદંગના ગભીર અવાજ સાભળીને મયૂરાને મેઘને ભ્રમ થઇ જતા હતા, અને તેઓ નાચવા લાગતાં હતાં. ચન્દ્રમાના ઉદય થતા ચન્દ્રકાન્તમણિયા વડે જે જળસ્રોત ઉત્પન્ન થતાં હતાં તે જળ તે ભવનમાં હાજર હતું, સ્વસ્તિક, સર્વાંતાભદ્ર, નન્દાવત્ત આદિ ભવન-કલાએ વડે તે સુંદર હતું, તેમ જ વધારે
શ્રી કલ્પ સૂત્ર : ૦૧
कल्प
मञ्जरी
टीका
राजभवन
वर्णनम्.
॥ ३९८ ॥