Page #1
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरूः ३१
शासनसम्राजामिह समुदाये मेरुपर्वतौपम्ये । कल्पतरुनन्दनवन-सत्कोऽयं नन्दतात् सुचिरम् ॥
वि.सं. २०७० उत्तरायणम्
सङ्कलनम् : कीर्तित्रयी
Page #2
--------------------------------------------------------------------------
________________
नन्दनवनकल्पतरुः ३१
सङ्कलनम् : कीर्तित्रयी ॥
प्रकाशनम् : श्रीजैनग्रन्थप्रकाशनसमितिः, खंभात ॥
वि.सं. २०७०, ई.सं. २०१३
मूल्यम् : रू. १००/
जालपुटसङ्केत:
प्राप्तिस्थानम् : श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मंदिर
१२, भगतबाग, शेठ आणंदजी कल्याणजीनी पेढी समीप, पालडी, अमदावाद - 380007 दूरभाष: 079-26622465, 09408637714
सम्पर्कसूत्रम् : "विजयशीलचन्द्रसूरिः"
C/o. Atul H. Kapadia A-9, Jagruti Flats, Behind Mahavir Tower, Paldi, Ahmedabad-380007 दूरभाष: 079-26574981 M.9979852135
email:
sheelchandrasuri_darshan@yahoo.com
मुद्रणम् : 'क्रिष्ना ग्राफिक्स'
नारणपुरा जूना गाम, अमदावाद-३८००१३ दूरभाष : 079 - 27494393
Page #3
--------------------------------------------------------------------------
________________
| वाचकानां प्रतिभावः
उपा. विश्रुतयशविजयः
नन्दनवनकल्पतरोः ३०तमी शाखा प्राप्ता पठिता च। नीरोगिताया रहस्यं लोकानां बाह्याभ्यन्तरलाभरूपं पत्रमपि च बाह्यसुखं गौणीकृत्याऽऽत्महिते प्रवर्तनीयमिति दर्शयति । वैविध्यमयी व्यसनवीथिकाऽपि परदेशीयपदार्थेषु रागमल्पीकर्तुं सूचयति।
भोजराजसरस्वतीत्वेन प्रसिद्धा प्रतिमा, भवतां चिन्तनं पठित्वा, अम्बिकायाः प्रतिभाति । भवतां मौलिकविचारधारा स्तुत्या ।
*
*
*
मान्यवरेषु प्रणतिततिं विज्ञाप्य निवेदयामि यत् - नन्दनवनकल्पतरुणा न केवलमहमपि च संपूर्णसंस्कृतलोकः कृतज्ञोऽस्ति ।
चतुर्दिक्षु कीर्तिं वितन्वन् कीर्तित्रयीसम्पादितस्य नन्दनवनकल्पतरोः त्रिंशत्तमोङ्को हस्तलग्नो मनोहरति ८+८८ क्राउन-पुटैः, ११ काव्यानि कथा-व्यङ्ग्यकथा-ललितकथाद्यखिलकथाविभागम् अनुवादसाहित्यं ग्रन्थसमीक्षां प्राकृतकथाश्च क्रोडीकृत्य । मुनिश्रीयशोविजय-हर्षदेवमाधव-नागराजराव-रामकिशोरमिश्रवासुदेवपाठकानां काव्यानि कलानाथशास्त्रिणः ललितकथा मुनिरत्नकीर्तिविजयस्य कथा: मुनिकल्याणकीर्तिविजयस्य विचाराः सहृदयसंवादभाजः सन्तश्चेतोहरन्ति इति पुनर्वक्तव्यं नास्ति । उत्तमकर्गजे मुद्रितं स्फुरन्मुखपुटं सर्वानाकर्षति इति विशेषः ।
डॉ. नारायणदाशः सम्पादकः कथासरित् ।
Page #4
--------------------------------------------------------------------------
________________
वाचकानां प्रतिभावः
सहचिन्तनम्
संस्कृता कीर्तित्रयी,
नमो गुरुभ्यः ।
सादरं प्रणतयः ।
नन्दनवनकल्पतरोः त्रिंशी शाखा सम्प्राप्ता ।
स्वागतपूर्वकं प्रार्थ्यन्ते धन्यवादाः ।
अत्र प्रास्ताविके कृतः निर्देशः, भारतीय संस्कृत्याः चिरन्तनत्वस्य कारणान्वेषणार्थं ददाति सङ्केतम् । मूलतः अस्माकं संस्कृतिः नित्यनूत्ना, अत एव सनातनी च ।
अपरं च, मनसः एव शिक्षणं केन्द्रीभूतमस्ति अस्मद्देशे । सर्वासां प्रवृत्तीनां केन्द्रीभूतं मनः । एकतो बन्धार्थम्, अन्यतश्च मोक्षार्थमपि साहाय्यकं मन एव । सत्यमिदमुररीकृत्य, महान्तः सर्वे साधवः, मनसः प्रवृत्तिमेवाऽवलोकयन्ति । सर्वे ते, जागृततयैवं कुर्वन्ति, एवं कर्तुमन्यान्प्रेरयन्ति च । फलतः, भारतस्य भारतीयताऽस्खलिता । जाते आक्रमणेऽपि न नाशस्तस्याः ।
साम्प्रते समये, प्रचारमाध्यमानां विकृतिः, नग्नत्वम्, अर्थलोलुपत्वम्, च तथा प्रभावकं जातमस्ति, यथा मनोविकृति: प्रबला भवेत् । मनसि प्रदूषिते विकृतिमापन्ने वा सति, चौर्यम्, अत्याचार, अनाचार, अनियन्त्रितस्य कामस्याऽऽक्रमणं, व्यभिचारः, इत्यादिकं सम्भवति ।
प्रभावकैः सुज्ञैराचार्यैः प्रयत्नः करणीयः एतेषां माध्यमानां नियन्त्रणार्थं शुद्ध्यर्थं च । यदि व्यापके माध्यमे, शुद्धिः संस्कारमत्त्वं च स्यात् तर्हि जनसाधारणेऽपि शनैः शनैः विकाराभावो भविष्यति ।
किन्तु
.को नाम प्रवृत्तः स्यात्तदर्थं, यदाऽर्थोपार्जनेऽन्धत्वं, स्वार्थ- पटुत्वं, प्रतिष्ठा - परकत्वं च प्रबलम् ? देव एव जितेन्द्रिय: सहायको भवेत् समेषां शुद्ध्यर्थं, संस्कृति - संस्काररक्षणार्थं च । साधवः सिद्धिमन्तश्चोदारमनसा शुभम् । नम्रत्वेनाऽऽदिशन्त्येव, तेनाऽस्त्याशा समुज्ज्वला ॥
अस्तु,
डॉ० वासुदेव: पाठकः 'वागर्थः '
अमदावादः
Page #5
--------------------------------------------------------------------------
________________
| वाचकानां प्रतिभाव:
मान्याः सम्पादकवर्याः,
सादरं प्रणामाः । २९तम्यां शाखायां सम्पादकीये सम्यक् चिन्त्यते । रोगाणां मुख्या स्थितिः मनस्येव विद्यते । मानसिकदोषाणामपशमने रोगाणां शान्तिः सरलतया भवति । हिन्दीमहाकाव्ये श्रीरामचरितमानसेऽन्तिमे काण्डे मानसरोगाणां विवरणं विराजते । 'बम्लहरीगीते', 'धारास्थवाग्देवीमूर्तिमधिकृत्य' इति लेखे च प्रा. अभिराजराजेन्द्रमिश्रस्य चिन्तनमभिनन्दनीयमस्ति । वस्तुतः सर्वत्र भारतीया संस्कृतिः समुपेक्ष्यते । प्रसङ्गेऽस्मिन् श्रीश्रीरामशर्मादीनां लेखा मन्तव्याः सन्ति । 'छन्दश्छटाचमत्काराः' इति ललितकथायां परिहासमुखेनाऽपि वैदिकजनानामार्षप्रयोगाणां वा समालोचना न युज्यते । मुनिवर्याणां लेखाः कथाश्च लोकहितभावनया जनान् सत्कर्मणि प्रवर्तयन्ति । एष रचनात्मकः प्रयासोऽभिनन्द्योऽस्ति । 'चौर्यम्' इति कथायाम् - 'मालति ! दुःखिनी मा भव । प्रसन्नमनसा शान्त्या च विचारय । यावत् सर्वैः सर्वाणि वस्तूनि नाऽवाप्येरन् तावन्न चौर्यं निवारयितुं शक्यम् । चौर्यं न रुचिकरं किन्तु चौर्य मनुजस्य पराधीनताऽस्ति' इति कथनं समीचीनमस्ति, किन्तु साम्प्रतं धनधान्योपेता विविधवैभवविलासयुता उच्चतरपदासीना नेतारश्च चौर्यकर्मणि सततं संलग्ना: समाज राष्ट्रं च सर्वथा विनाशयन्ति । प्रतिदिवसं वार्तापत्रिकासु धनचौर्यस्य नूतना नूतना घटनाः प्रकाशिता भवन्ति । नैतिकताया एतादृशं पतनं सर्वैश्चिन्तनीयमस्ति । मन्ये, शिक्षासंस्थासु नैतिकशिक्षाया धार्मिकशिक्षायाश्च नितरामपेक्षा विद्यते । सञ्चारसाधनैरपि समाजे ये चरित्रवन्तः सद्गुणोपेता जनाः सन्ति, तेषां कार्याणि सावहितं प्राकाश्यं नेतव्यानि । जयतु संस्कृतं संस्कृतिश्च ।
डॉ. रूपनारायणपाण्डेयः
प्रयागः
Page #6
--------------------------------------------------------------------------
________________
प्रास्ताविकम्
जनाः बहुधा पृच्छन्ति - 'किमर्थं भवन्तः संस्कृतभाषया लिखन्ती'ति । 'अस्मिन् युगे को वा संस्कृतं पठति ? शते द्वित्रा अथवा सहस्रेऽपि द्वित्रा जना एव प्रायशः संस्कृतं जानन्ति, कदाचिच्च तावन्तोऽपि न लभ्यन्ते । तत् किमर्थं संस्कृतलेखनं ? किमिति चैतावान् परिश्रम आयासश्च ? यदि प्रादेशिकभाषया लिखितं स्यात् तर्हि प्रभूता जनास्तत् पठेयुभवतो विचारांश्चाऽङ्गीकुर्युरिति महान् लाभः' ।
'तथा, एतादृशीषु पत्रिकासु प्रकाशिता कथा लेखा वार्तादयश्च प्रायशोऽन्यैः पत्रिका-दूरदर्शनजालपुटादिमाध्यमैर्जनैः प्रायो ज्ञातचरा एव भवन्ति । ततश्च तत्सर्वमेव भवतां संस्कृतपत्रिकासु पुनः प्रकाश्यते । तदस्य न कोऽपि व्यक्तो लाभो दृष्टिगोचरो भवति, प्रत्युत समयस्य शक्तेश्च दुरुपयोग एव भवतीति लक्ष्यते । एवंस्थिते किमस्ति संस्कृतभाषीयपत्रिकाणां प्रयोजनम् ?' ।
एतस्य एतादृशानामन्येषामपि विचाराणां प्रत्युत्तररूपेण, सुधर्माख्यसंस्कृतदिनपत्रिकायाः सम्पादकेन तत्पत्रिकायां 'पत्रिकायाः प्रयोजनं किम् ?' इति लेखे केचन विचाराः प्रस्तुताः सन्ति, ते चाऽत्राऽप्युपयोगिन एवेति ततः समुद्धृताः सन्ति -
'पत्रिकाया मुख्यं प्रयोजनं संस्कृतभाषाया व्युत्पत्तिः । पूर्वं ज्ञाता बहवः शब्दा इदानीं स्मर्यन्ते । वाक्यरचना कथं कर्तव्या - इति ज्ञायते । स्वयं संस्कृतेन लिखितुं वक्तुं च प्रेरणा प्राप्यते । सरलया भाषया रचितान् लेखान् पठित्वा प्राप्तपाठकौशलास्ततो रामायणादीनि काव्यानि पठितुमुत्सहन्ते इत्यस्माकमाशा । संस्कृतज्ञानस्य फलं तदेव । महात्मभिः प्रणीताः शतशो ग्रन्थाः सन्ति । तेषां पठनेन मानवजीवनं सार्थकं भवति ।"
"अपि च, देवभाषायाः सौन्दर्यं रामणीयकं वैचित्र्यं च ज्ञातुं शक्तिः सम्पादनीया । तत्र पत्रिका किञ्चित् साहाय्यं करोति । सुलभानि पदान्यपि प्रयुज्यन्ते । देशभाषासु यानि पदानि प्रयुक्तानि तेषामपि संस्कृतरूपं दृश्यते । विदुषां लेखनेषु पद्येषु च विशिष्टानि पदानि द्रष्टुं शक्यन्ते । व्यावहारिका विषया अपि पत्रिकायां विवियन्ते ।" (२६/९/२०१२, सुधर्मा)
एतैविचारैः स्पष्टतया निरूपितमस्ति संस्कृतभाषया लेखनस्य पत्रिकाप्रकाशनस्य च प्रयोजनमिति पुनर्वक्तव्यं नास्ति । अस्माकं सर्वोऽपि पुरातनो ज्ञाननिधिः प्रायशः संस्कृत-प्राकृतभाषाभ्यामेव विरचितो वर्तते । तमवगाहितुं भाषाप्रावीण्यं प्राप्तव्यमेव । तदर्थं च पत्रिका भृशमुपयोगिन्यः स्युरित्येतत् तथ्यं मनसिकृत्यैवैष सर्वोऽपि परिश्रमोऽस्ति । स सार्थकः सफलश्च भवेदित्येवमाशास्महे।
शारदी पूर्णिमा, वि.सं. २०६९ साभ्रमतीजैनसङ्घः
कीर्तित्रयी
Page #7
--------------------------------------------------------------------------
________________
अनुक्रमः
कृतिः चतुर्विंशतिजिनस्तुतिः । कदम्बगिरीश-श्रीमहावीरस्वामिस्तुतिः श्रीमहावीराष्टकम् अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् आचार्यप्रवरश्रीहरिभद्रसूरीश्वराणां स्तवनाष्टकम् आचार्यवर्यश्रीविजयामृतसूरीश्वराणां स्तवनाष्टकम् श्रीनेमिसौभाग्यमहाकाव्यम् (प्रथमः सर्गः) गलज्जलिका स्वप्नो मया न दृष्टः घनाक्षरीसप्तकम् सुभाषितानि परार्थचिन्तको भवेत् हाइकु-काव्यानि काव्यद्वयम् सुदर्शनम् वर्धमान आदर्शः कथयति कलिका
कर्ता पं. श्रीशान्तिसुन्दरगणी स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः स्व. प्रवर्तकमुनिश्रीयशोविजयः स्व. प्रवर्तकमुनिश्रीयशोविजयः आ. विजयहेमचन्द्रसूरिः आ. विजयहेमचन्द्रसूरिः आ. विजयहेमचन्द्रसूरिः प्रा. अभिराजराजेन्द्रमिश्रः प्रा. अभिराजराजेन्द्रमिश्रः डॉ. वासुदेव वि. पाठकः प्रा. कमलेशकुमारः छ. चोकसी डॉ. कौशलतिवारिः डॉ. नारायणदाशः डॉ. वासुदेव वि. पाठकः डॉ. वासुदेव वि. पाठकः डॉ. वासुदेव वि. पाठकः
आस्वादः
मुनिकल्याणकीर्तिविजयः प्रा. एच्.वि. नागराजराव् मुनिधर्मकीर्तिविजयः
शून्यता
भगवान् जिनसेनाचार्यः पत्रम् अनुवादः
सिद्धार्थः (प्रथमो विभागः) मर्म गभीरम्
मुनिकल्याणकीर्तिविजयः मुनिकल्याणकीर्तिविजयः
Page #8
--------------------------------------------------------------------------
________________
रङ्गमञ्चः
विरञ्चिवञ्चनम्
प्रा. अभिराजराजेन्द्रमिश्रः
७७
कथा
क्षमा
अध्यात्मगोष्ठी अमरदत्त-मित्रानन्दम् विरलानि संस्कारमूल्यानि सन्तोषो धनम् मार्गद्वयम्
जय जगदीश ! हरे ! मर्म-नर्म
पत्रचर्चा - १
पत्रचर्चा - २ प्राकृतविभागः
पाइयविन्नाणकहा
मुनिधर्मकीर्तिविजयः मुनिधर्मकीर्तिविजयः मुनिकल्याणकीर्तिविजयः मुनिः अक्षयरत्नविजयः सा. संवेगरसाश्रीः सा. मैत्रीयशाश्रीः डॉ. नारायणदाशः कीर्तित्रयी प्रा. किशोरचन्द्र पाठकः प्रा. कमलेशकुमारः चोक्सी
१०४
१०६
१०७
आ. विजयकस्तूरसूरिः
१०८
आर्थिकं सौजन्यम् सा. श्रीदक्षयशाश्रीशिष्या - सा. श्रीधृतियशाश्री - सा. श्रीदीप्रयशाश्रीप्रेरणया हीराबेन-पोपटलाल आराधनाभवनस्य (कीर्ति सोसायटी, साबरमती) श्राविकावर्गेण नन्दनवनकल्पतरोः ३१तम शाखायाः प्रकाशने
आर्थिकसहयोगः प्रदत्तोऽस्ति ।
Page #9
--------------------------------------------------------------------------
________________
चतुर्विंशतिजिनस्तुतिः।
पं. श्रीशान्तिसुन्दरगणिवर्याः*
स मङ्गलान्यातनुतां सुमङ्गला-पतिः सतामिन्द्रनरेन्द्रसेवितः । यदंसपीठे चिकुरावली बभौ, सुमेरुशृङ्गे किल कल्पमण्डली ॥१॥ अनन्तकालादपि भाववैरिणो, जनान् नतो वीक्ष्य दयार्द्रमानसः । इभं समारुह्य किलाङ्कदम्भतो, जघान यः स्तादजितः स वः श्रिये ॥२॥ ऋभुप्रभुभक्तिभरेण भूरिणा, भजन पदौ यस्य विभाविभासुरौ । बभार खद्योततुलां दिवाऽप्यहो, स शंभवो वो भवताद् विभूतये ॥३॥ जनुर्महे यस्य सुमेरुभूभृतः, प्रमोदभाजः शुचिमज्जनाम्बुभिः । सुराः स्फुरन्तः पुलका इवाऽऽबभुः, शिवश्रिये स्तादभिनन्दनः स वः ॥४॥ नमरेन्द्रामरराजशेखर-स्फुरन्मणिश्रेणिमरीचिवीचिभिः । अहर्निशं क्षालितपादयामलः, शुभां मतिं श्रीसुमतिस्तनोतु वः ॥५॥ प्रवालशोणच्छविकायकान्तिभि-र्दिशो दशाऽपि प्रतिपूरयन् बुधैः । अलक्षि साक्षादिव यः सरागतां, बहिः क्षिपन् श्रीधरभूः स शर्मणे ॥६॥ विजित्य पञ्चेन्द्रियगोचरोरगान, स्वसेवकीभावमचीकरत्तराम् । य उच्चचञ्चत्फणपञ्चकच्छलात्, सुपार्श्वनेता स शिवडूरोऽस्तु वः ॥७॥ अजीहिठच्चन्द्रमरीचिसञ्चयं, य आत्मभासां पटलैः प्रसृत्वरैः । सदा सदालोकपदप्रसादतः, शशाङ्लक्ष्मा स जिनो धिनोतु वः ॥८॥ अवेक्ष्य यस्याडभरुचः सुधोज्ज्वला-श्चिरं विचारं चतुरा इति श्रिताः । अनन्तविज्ञानविधोः परिस्फुटाः, प्रभाः किमेताः सुविधिः स वो मुदे ॥७॥ महीतले यं विहरन्तमन्वहं, नमोचरीकारिषुरंहिपा अपि । विहातुमेकेन्द्रियतामिवाऽऽत्मनो, ददातु वः शाश्वतशं स शीतलः ॥१०॥ विनम्रवृन्दारकमानवप्रभू-तमाङ्गसंलालितमालतीसजः । अबूभुषन् यत्पदपीठमुच्चकैः, स विष्णुसूनुर्जिनराट् शिवाय वः ॥११॥
* प्रायो वैक्रमीये १५तमे शतके अजमेरनगरात् पं. श्रीशान्तिसुन्दरगणिभिः देवकुलपाटकस्थितेभ्यः आचार्यश्रीदेवसुन्दरसूरिभ्यो लिखिते विज्ञप्तिपत्रे कृतेयं जिनचतुर्विशतिस्तुतिरत्यन्तं प्रासादिकत्वात् सरसत्वाच्चाऽत्र प्रकाशिताऽस्ति । (विज्ञप्तिपत्रमिदं आ.श्रीविजयशीलचन्द्रसूरिसम्पादितायाम् अनुसन्धान(६२)शोधपत्रिकायां प्रकाशितमस्ति ।)
Page #10
--------------------------------------------------------------------------
________________
निरस्तनिःशेषमलात्मकत्वतः किलाऽङ्गिनां भक्त्यनुरागसङ्क्रमैः । बभार यो विद्रुमकान्तिसोदरं, वपुः स जीयाद् वसुपूज्यनन्दनः ॥१२॥ समीहितं यत्र ददत्यनारतं, सुरद्रुवदानमृणध्वनिर्गतः । अनाथतां वाच्यमृते जगत्रये, स वो वितन्याद् विमलो मलोज्झितान् ॥१३॥ अनन्तनेता स शिवाय देहिना-मनन्तधर्मात्मकवस्तुदेशकः । वशीकृतानन्तचतुष्टयान्वितो, निरास योऽनन्तसुतोर्जितं क्षणात् ॥१४॥ य आदिशद्धर्ममधर्मभिच्चतु-विधं परब्रह्मवशत्वकार्मणम् । स कर्मनिर्मन्थकधर्मतीर्थकृद् विनिर्मिमीतां शिवशर्म देहिनाम् ॥१५॥ मृगोऽपि यत्पादयुगस्य सेवनं, वितन्तनद्धर्मवतां धुरि स्थितः । अवापिवान् श्रीभूतराजमण्डलं, स आचिरेयोद्भुतभूतयेऽस्तु वः ॥१६॥ य उद्गटाभोगवतीः सभूषणा, मुमोच षट्खण्डभुवो वधूरिव । स कुन्थुतीर्थाधिपतिः पवित्रये-ज्जगत्रयं त्रासितभावशात्रवः ॥१७॥ तृणाय मत्वा ननु चक्रवर्तिनः, श्रियं शिवश्रीपुरतो य आददे । महातपस्यां तदवाप्तये स वो, व्यपाकरोत्वारमरो जिनाधिपः ॥१८॥ अचीकर यो निजपादसेवनं, जवान्लूदेवासुरराजराजिभिः ।। तमप्यजैषीन्मदनं य आदरात्, स मल्लिनाथः प्रथयेत् सुखानि वः ॥१९॥ जडप्रियः क्षुद्रतया समाश्रितो-उप्युपक्रमं यस्य निषेव्य कूर्मकः । क्षमोऽभवन् क्ष्मामपि धर्तुमुच्चकैः, स सुव्रतोऽर्हन् व्रतसम्पदेऽस्तु वः ॥२०॥ अनीनमद् यो द्विषतो महीभुजो, भुजालवद् गर्भगतोऽपि हि प्रभुः । नमिर्जिनेन्द्रो जगतामुपद्रवान्, द्रुतं स विद्रावयताज्जितेन्द्रियः ॥२१॥ कुमारतां यः कलयन्नपि स्वयं, कुमारभावं निरमूलयत्ताम् । अरिष्टनेमिर्भगवान स देहिनां, पिनष्ट कष्टानि वरिष्ठचेष्टितः ॥२२॥ अलूलुठद् यः कमठं शठाशयं, स्मयाचलात् तुङ्गतरादपि क्षणात् । जिनोऽश्वसेनाङ्गभवो भवक्षयं, क्षमावतामातनुतांतरामयम् ॥२३॥ सुराङ्गनानां वदनेषु कुङ्कुमा-वलेपलीलां कलयन्त्य उच्चकैः ।। प्रभा जयन्तु त्रिशलाङ्गजन्मनो, द्विधाऽपि धर्मं प्रकटीचरीक्रतः ॥२४॥ विधाय येषां स्मरणं शरीरिणो, ययुः प्रयास्यन्त्यपि यान्ति निर्वृतिम् । जगन्ति नामाकृतिमुख्यभेदत-श्चतुर्विधास्तीर्थकृतः पुनन्तु ते ॥२५॥ अधिष्ठिता हंसवरं तनोति या, विलासमन्तःसविशुद्धमानसम् । सरस्वती सा परमेष्ठिसम्भवा, पराञ्चितं सच्चिनुतां सतां तताम् ॥२६॥
Page #11
--------------------------------------------------------------------------
________________
कदम्बगिरीश-श्रीमहावीरस्वामिस्तुतिः स्व. आ. श्रीविजयधर्मधुरन्धरसूरिः
(शिखरिणीवृत्तम) महावीरस्वामिन् ! क्रमकमलयुग्मे रमतु ते द्विरेफश्चेतो मे मधुमधुरिमालोलुपमनाः । ततः स्वादं स्वादं गुणगणपरागं गतगदं क्रमाल्लीनो भूयादचलकमलाङ्गे क्रमगते ॥१॥ अये मोह ! त्वं ते मनसि किमु जानासि ललनासहायो ? निःसङ्गं कलयसि भृशं मां प्रहरसि । इतो दूरं यायाः परिजनयुतः सत्वरमथो कदम्बश्रीवीरो हतविहतमारोऽन्ववति माम् ॥२॥ अहं भ्रामं भ्रामं निखिलभुवने भ्रामकमतभ्रमीभूतः कामं क्षणमपि विरामं न प्रगतः । कदम्बेशः प्राप्तस्त्रिभुवनसमाख्यातसुयशाः समीक्ष्य श्रीवीरं हतविततपापः समभवम् ॥३॥ कदम्बासंसर्गादशिवनिचयं प्राप्य हृदये मया सङ्गः कार्यो नहि परमतो निश्चितमिति । परं श्रावं श्रावं प्रभवति कदम्बादघहतिः श्रितस्त्वां कादम्बाउशिवहतिविलम्ब नहि कुरु ॥४॥
Page #12
--------------------------------------------------------------------------
________________
श्रीमहावीराष्टकम्
आचार्यश्रीविजयनेमिसूरिशिष्यः स्व. प्रवर्तकमुनिश्रीयशोविजयः
श्रीवीरं वैरमुक्तं प्रतिदिनमनघं मानवानां नवानां वाञ्छापूर्तिं वितन्वन्तमहकममहं सद्दयानां दयानाम् । पूरं शूरं शरीरस्थितरिपुदलने वास्तवानां स्तवानां स्तोमैः सोमैः समस्तैः शमदमनियमैः संस्तवीमि स्तवीमि ॥१॥ ये त्वां सन्मधुराक्षरैरहरहःस्तोष्ट्रयमानाः स्तवैराधिव्याधिरुपाधिराप्तभविनां दूरं प्रयाति क्षणात् । सझस्वर्गवदेव देव! भवति प्रज्ञावतां प्राणिनां दासन्त्येव सुरावराः सुरमणिस्तेषां च हस्ते स्थितः ॥२॥ घोरक्रोधतरक्षुकामशबरं दुष्कर्मपञ्चाननं मायाजाललताप्रतानगहनं मानोग्रमत्तद्विपम् । सम्फूत्कुर्वदमन्दलोभभुजगं रागोग्रशार्दूलकं संसारं विपिनं तदस्ति भविनां कस्त्वां विनावाऽऽश्रयः ॥३॥ विख्यातो धरणिप्रकाशकुशलोऽहं सर्वलोकप्रियः सूर्य! त्वं किमु शूरतां प्रथयसीत्येवं क्षमामण्डले । श्रीवीरस्य समस्तलोकविदितं कर्मक्षयाविष्कृतं किलाऽऽलोकयसे त्रिलोककलनाकौशल्यमानन्ददम् ॥४॥
Page #13
--------------------------------------------------------------------------
________________
संसञ्चिन्तितदानकौशलकलाकेलीधराणां वर ! त्वं किं कल्पतरो ! करोषि सततं दयू विनिःशकम् । विश्वेषां विकटप्रकोटिकलितक्रोधादराणां नृणां किं संपश्यसि नैव वीरचरणान संदर्शनात्कामदान ॥५॥ जन्तुत्राणकराय सर्वभविनामानन्ददानाय च ज्ञानानन्दमयाय नित्यमखिलध्येयाय गेयाय च । भव्यानां भवनाशनाय परमज्योतिःस्वरूपाय च श्रीवीराय जिनाय विश्वपतये नित्यं नमः स्तान्मम ॥६॥ गीर्यस्याऽस्खलितप्रचाररचना पीयूषवर्षायते संसाराम्बुधितारणे भगवतः पादोऽतिपोतायते । मानां भयभीमकूपपततां हस्तो वत्रायते सैष श्रीजिनकुञ्जरः परमसंशान्तिं विधत्तान्मम ॥७॥ चिन्तारत्नमतिप्रियं न भवति प्राज्यं न राज्यं तथा चक्रित्वं न मनोरमं मम तथा देवेन्द्रता नो प्रिया । नो रम्याणि भवन्ति मेतिहृदये हाणि वीरप्रभो ! किन्त्वेकं तव पादपद्मशरणं मे सर्वदा सुप्रियम् ॥८॥
इति श्रीसकलस्वपरसमयमानससरोवरवरराजहंसायमाननिःशेषान्तरङ्गवैरीभपञ्चाननायमानसकलभविभयदुस्तरापारवार्धिप्रवहणायमानश्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाणप्रवर्तकयशोविजयविरचितं
श्रीमहावीराष्टकं समाप्तम् ॥
Page #14
--------------------------------------------------------------------------
________________
अकारान्तचतुर्थ्यन्तपदैः श्रीमहावीराष्टकम् ॥
स्व. प्रवर्तकमुनिश्रीयशोविजयः
सविनीतलविभासकसूर्यदेव-चण्डप्रतापकलिताय जिनेश्वराय । देदीप्यमानशशिसौम्यमुखाम्बुजाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥१॥ श्रीनन्दिवर्द्धनकूपापरिपूरिताय, सिद्धार्थनन्दनवराय गुणाकराय । पापापहाय शिवसौख्यक राय शश्वत्, वीराय वीतमदनाय नमो नमोऽस्तु ॥२॥ मुक्त्यङ्गनानयनदूतमहाव्रताय, वीतप्रमादरिपुकाय दमाकराय । भारण्डपक्षिसदृशाय गतस्पृहाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥३॥ ऐश्वर्यभासितजगत्त्रयमण्डलाय, पारङ्गताय परमाय सुरेश्वराय । संशुद्धचेतनमयाय शुभेश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥४॥ स्वर्णाभदेहविलसदद्युतिराजिताय, निर्लोभहंसरतिमानससोदराय । सद्धर्ममार्गवरदेशनकारकाय, वीराय वीतमदनाय नमो नमोऽस्तु ॥५॥ सिंहाङ्किताय सरसध्वनिशोभिताय, ध्येयाय गेयगुणगुम्फितविग्रहाय । सर्वाविजेयबलसारविराजिताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥६॥ विश्वावतंसमुकुटाय मतीश्वराय, सत्प्रातिहार्यपरिशोभिसमाश्रयाय । संसारसारशरणाय मुनीश्वराय, वीराय वीतमदनाय नमो नमोऽस्तु ॥७॥ लोकोपकारकरदेशनवाक्यपुष्प-सौरभ्यलुब्धससुरासुरभृङ्गकाय ।
चारित्रदीपकवराय सुरस्तुताय, वीराय वीतमदनाय नमो नमोऽस्तु ॥८॥ इतिश्रीसकलभविककमलदिनकरकरायमाणश्रीमद्विजयनेमिसूरीश्वरचरणचञ्चरीकायमाणविनेययशोविजयविरचित
मकारान्तचतुर्थ्यन्तपदकदम्बमयश्रीमहावीराष्टकं समाप्तम् ॥
Page #15
--------------------------------------------------------------------------
________________
आचार्यप्रवरश्रीहरिभद्रसूरीश्वराणां
स्तवनाष्टकम् ॥* आ. विजयहेमचन्द्रसूरिः
(वंशस्थवृत्तम्) अपारशास्त्रोदधिपारदृश्वने, विशुद्धचारित्रतपोविराजिने । दिगन्तसञ्चारियशोविशालिने नमो नमः श्रीहरिभद्रसूरये ॥१॥
स चित्रकूटाचलनामकं पुरं, पवित्रयामास निजेन जन्मना । अभूद् द्विजातिप्रवरो य इद्धधी
नमोऽस्तु तस्मै हरिभद्रसूरये ॥२॥ पुरोहितस्थानमलञ्चकार यो, यशोधनश्रीजितशत्रुभूपतेः । विवेद विद्याश्च चतुर्दशाऽपि यो, नमोऽस्तु तस्मै हरिभद्रसूरये ॥३॥
महत्तराश्रीयुतयाकिनीमुखान्निशम्य गाथां गहनां बुधाग्रणीः । तदर्थबोधे स्खलितो य आत्मविलमोऽस्तु तस्मै हरिभद्रसूरये ॥४॥
* वि.सं. २०१९वर्षे विरचितम् ॥
Page #16
--------------------------------------------------------------------------
________________
जिनाञ्चितश्रीभटसूरिपादयोः, समर्पितात्मा जगृहे च संयमम् । उपेयिवान् स्वान्यकृतान्तकौशलं, नमोऽस्तु तस्मै हरिभद्रसूरये ॥५॥
स्फुरन्मतिः सूरिपुरन्दरश्च यो, दृढव्रतः क्ष्मातललोक पूजितः । सर्वागमज्ञानकलाकलाधरो,
नमोऽस्तु तस्मै हरिभद्रसूरये ॥६॥ श्रुताब्धिमुन्मथ्य विचक्षणो महान्, व्यरचद् वेदयुगाब्धिभूमिताः (१४४४) । कृती कृतीमुक्तिपथप्रदर्शिका नमोऽस्तु तस्मै हरिभद्रसूरये ॥७॥
यदीयवागार्हतदर्शनालयप्रवेशने द्वारमिवाऽस्ति साम्प्रतम् । भवार्तितापार्दितशान्तिदायिने,
नमोऽस्तु तस्मै हरिभद्रसूरये ॥८॥ इत्थं स्तुतः श्रीहरिभद्रसूरिः, पुण्याभिधानः स्तवनाष्टकेन । श्रीनेमिसूरेरमृताख्यसूरेहेमेन्दुनाऽऽसाद्य गुरुं च देवम् ॥॥
Page #17
--------------------------------------------------------------------------
________________
आचार्यवर्य श्रीविजयामृतसूरीश्वराणां स्तवनाष्टकम् आ. विजयहेमचन्द्रसूरिः
(वैतालीयं-वृत्तम्) महनीयगुणालिमन्दिरं, कविरत्नं प्रगुरुं गुरुदयम् । विजयामृतसूरिशेखरं, सततं शास्त्रविशारदं स्तुवे ॥१॥
भवतो भवभाववेदिनो, विदिताचारविचारचारिणः । लसदद्भुतवाग्विलासिनः,
पुरतः किं किल कथ्यते मया ॥२॥ भवतः क्च गुणाकरो महान्, क्व च मे स्वल्पतरा हि शेमुषी । व्यवसाययतीह भास्वरा, गुरुभक्तिः स्तवने तथाऽपि माम् ॥३॥
समुपार्जितपूर्वपुण्यतः, पविते जैनकुले सुधार्मिके । नगरे 'बहुतादनामके, भवतोऽभूज्जननं वृषावहम् ॥४॥
* वि.सं. २०१९ वर्षे विरचितम् । + बोटाद ।
Page #18
--------------------------------------------------------------------------
________________
अभवन्ननु जातमात्रतो, भवतश्चाऽभिरतं मनो वृषे । नियतं कृतपुण्यकर्मणां, प्रभवत्येव शुभायती रतिः ॥५॥
सुकृतात् सुखिनः सदाऽङ्गिनः, कलुषाद् दुःखपराश्च जन्मिनः । इति वीक्ष्य भवान् भवच्छिदे,
विरतिं यौवनतो गृहीतवान् ॥६॥ चरणाम्बुजसेवनाच्चिरं, समसिद्धान्तविमर्शपारिणः । विजयान्वितनेमिसद्गुरोः, समलब्ध श्रुतमिष्टसाधकम् ॥७॥
विहरन् विविधं पुरादिकं, वकल्याणपरायणो भवान् । जिनधर्ममुपादिशज्जनान्,
परमानन्दपदैककारणम् ॥८॥ सुर-गुर्जरवाचि बोधदा, व्यतनोत् काव्यततीः शुभाः कृती । बुधशिष्यगणैः सुसेवितो, जयतात्सूरिवरः क्षमातले ॥॥
रचितेति गुणस्तुतिर्मया, शुभभक्त्युल्लसितात्मवृत्तिना । गुरुदेवपदाम्बुजालिना, बुधतत्यन्तिमहेमसाधुना ॥१०॥
Page #19
--------------------------------------------------------------------------
________________
श्रीनेमिसौभाग्यमहाकाव्यम्
| *आ. विजयहेमचन्द्रसूरिः
श्रेयः श्रेणीजननं, जितबाह्यान्तर्द्विषं विभुं वीरम् । अस्या अवसर्पिण्याः, स्तुवे जिनं तं चतुर्विंशम् ॥१॥ (आर्यावृत्तम्) श्रीमद्गौतमगणभून्मुख्याः शिष्या यदीयपदकमलम् । नित्यं संसेवन्ते, जयति स चरमो जिनाधीशः ॥२॥ तत्पट्टे सातः, पञ्चमगणभृत्सुधर्मपुण्याढ्यः । त्रिपदीमाप्य जिनेशा-ज्जग्रन्थे द्वादशाङ्गी यः ॥३॥ तत्पट्टेऽजनि विदितो, जम्बूस्वामीह केवली चरमः । यो व्रजितोऽष्टौ कन्या, हित्वा कोटिञ्च नवनवतिम् ॥४॥ प्रभवस्तदीयपट्टे, प्रभावकलितोडजनिष्ट सद्धर्यः । जम्बूगृहादनघु, रत्नत्रितयं हृतं येन ॥५॥ श्रीशय्यम्भवसूरि-स्तत्पट्टेऽजायत प्रवरचरितः । दशवैकालिक सूत्रं, योऽरचयत् स्वसुतमनकार्थम् ॥६॥ सूरियशोभद्राख्य-स्तत्पट्टे तुङ्गियायनीयोऽभूत् । येनाऽऽत्ता प्रव्रज्या, द्वाविंशे हायने वयसः ॥७॥ तत्पट्टे संभूति-र्विजयो जातोऽथ भद्रबाहुश्च । विहिताऽऽवश्यकमुख्यागमनियुक्तिर्वरा येन ॥८॥ श्रीस्थूलभद्रनामा, चरमः श्रुतकेवली ततो जातः ।
योडबोधयच्च कोशां, निवसन तच्चित्रशालायाम् ॥७॥ * शासनसम्राजां श्रीविजयनेमिसूरीश्वराणां जीवनचरितवर्णनात्मकमिदं महाकाव्यं पूज्याचार्यः श्रीविजयहेमचन्द्रसूरिभिः प्रायश्चत्वारिंशतो वर्षेभ्यः पूर्वं (यदा ते पंन्यासश्रीहेमचन्द्रविजयगणिन आसंस्तदा) विरचितमस्ति ।
Page #20
--------------------------------------------------------------------------
________________
आर्यमहागिरिसंज्ञो, योगिप्रवरोऽजनिष्ट तत्पट्टे । अपि जिनकल्पोच्छेदे, जिनकल्पितुलां दधौ धीरः ॥१०॥ श्रीमानार्यसुहस्ति-स्तद्गुरुबन्धुः प्रभावको जातः । नृपसम्प्रतिमुपदिश्य, प्राभावयदार्हतं धर्मम् ॥११॥ जातौ शिष्यप्रवरौ कोटीमितसूरिमवजप्तारौ । सुस्थित-सुप्रतिबुद्धौ, यदुपज्ञः कौटिकाख्यगणः ॥१२॥ तत्पट्टे सञ्जातो नाम्ना श्रीइन्द्रदिन्नसूरीशः । श्रीदिनाभिधसूरि-स्तदीयपट्टेऽभवद् विज्ञः ॥१३॥ तत्पट्टाम्बुधिचन्द्रो, जातिस्मृतिमानमानसामर्थ्यः । श्रीसिंहगिरिर्जातः, सूरीशोऽनर्घ्यगुणकलितः ॥१४॥ तच्छिष्यो वजाख्यः, समजनि दशपूर्ववित्प्रथितवृत्तः । अक्षुब्धो नृपसंसदि, समगृह्णाद्यो रजोहरणम् ॥१५॥ प्रादादमरो यस्मै, सन्तुष्टो व्योमगामिनी विद्याम् । यत उद्भूता शाखा, सम्प्रत्यपि राजते वज्री ॥१६॥ (युग्मम्) श्रीवज्रसेननामा, तदीयपट्टे रराज सूरीशः । सोपारके विषाला-शनाल्यवारीज्जनौघं यः ॥१७॥ तत्पट्टे चन्द्राह्वः, सूरिर्जातो हि चन्द्र इव सौम्यः । यस्माद् गणस्य नाम, प्रवर्तितं चन्द्रगच्छ इति ॥१८॥ सामन्तभद्रसूरि-स्तत्पट्टमलञ्चकार विरतिरतिः । वनवासीति चतुर्थं, गणस्य नामाऽभवद् यस्मात् ॥१९॥ श्रीवृद्धदेवसूरिः, समजनि गुणरत्नरोहणस्तस्मात् । प्रातिष्ठिपत् प्रभुं यो, वीरं कोरण्टके ग्रामे ॥२०॥ श्रीप्रद्योतनसूरिः, प्रद्योतनवत्तदीयपट्टेऽभूत् । यो निजगवाउनुपमया, विश्वं प्राबोधयन्निखिलम् ॥२१॥ तत्पट्टोदयशैलं, द्योतितवान् मानदेवसूरीशः । यो निजबुद्धिमहिम्ना, सुरगुरुमपि सञ्जिगाय द्राक् ॥२२॥ यत्पददानावसरे, स्कन्धगते वीक्ष्य शारदाकमले । चारित्रच्युतिशङ्का-शीलं मत्वा स्वगुरुवर्यम् ॥२३॥ यावज्जीवं विकृतीः, षट् प्रत्याख्याच्च भक्तकुलभिक्षाम् । पद्मा-जयादिदेव्यो, यत्परिचर्यां च सञ्चक्रुः ॥२४॥ (युग्मम्)
Page #21
--------------------------------------------------------------------------
________________
श्रीमानतुङ्गनामा, सूरितिस्तदीयपट्टधरः । प्रतिबुबुधे नृपतिं यो, विरच्य भक्तामर स्तोत्रम् ॥२५॥ श्रीमान् वीराचार्य-स्तदीयपट्टेऽजनिष्ट सूरीशः । श्रीनमिजिनप्रतिष्ठा, नागपुरे यो व्यधाद् वर्याम् ॥२६॥ श्रीजयदेवाभिख्य-स्तत्पट्टप्रभाकरोऽभवत्सूरिः । यो वादिनो व्यजैषी-निरूप्य जैनेन्द्रसिद्धान्तम् ॥२७॥ देवानन्दाभिधानः, सूरीशोऽभूत्तदीयसत्पट्टे । तत्पट्टे सूरीशो, विक्रमनामाऽभवत्पूज्यः ॥२८॥ सूरिस्तदीयपट्टे, श्रीनरसिंहः श्रुतार्णवो जातः । येन पुरे नरसिंहे, मांसं सन्त्याजितो यक्षः ॥२९॥ तत्पट्टोदधिजन्मा, समुद्रनामाजनिष्ट सूरीन्दुः । वशमकृत नागतीर्थं, विजित्य दिग्वाससो वादे ॥३०॥ प्रापाऽम्बिकामुखाद्यो, विस्मृतमपि सूरिमंत्रमिद्धतपाः। हरिभद्रसूरिमित्रं, स मानदेवस्ततो जातः ॥३१॥ विबुधप्रभसूरीशस्तदीयपट्टेऽजनिष्ट दृढधर्मः। तत्पट्टेऽजनि सूरिः, श्रीमान् पूज्यो जयानन्दः ॥३२॥ स श्रीरविप्रभाख्यः, सूरीशोऽजायताऽनवद्ययशाः । नडुडुलपुरे प्रतिष्ठां, चकार यो नेमिनाथविभोः ॥३३॥ तत्पट्टाम्भोधिविधुः, सूरियशोदेवसज्ञको जातः । प्रद्युम्नदेवनामा, सूरिस्तत्पट्टधारको जज्ञे ॥३४॥ तत्पदमलरिष्णु-र्जातः श्रीमानदेवसूरीशः । उपधानविषयशास्त्रं, निर्मायाऽरीरमल्लोकान् ॥३५॥ तत्पट्टालङ्कारो, जातः श्रीविमलचन्द्रसूरीशः । यो हेमसिद्धिविद्यां, प्राप्तोऽजैषीत्परान् वादे ॥३६॥ तत्पट्टाम्बुजतरणिः, श्रीमानुद्योतनाभिधो जातः । अर्बुदगिरेरधस्तात्-टेलीपुरसीम्नि सङ्गत्य ॥३७॥ वटवृक्षाधो योऽष्टौ, सूरीन् प्रातिष्ठिपन्निजे पट्टे । तस्मादभूगणोऽयं नाम्ना वटगच्छशुभसञ्जः ॥३८॥ तत्राऽभवत्प्रशस्यः, सूरि: श्रीसर्वदेवनामा यः । प्रास्थापयत्सुचन्द्र-प्रभबिम्बं रामसैन्यपुरे ॥३९॥
Page #22
--------------------------------------------------------------------------
________________
गौतमगणधरवद्यस्तथाऽभवत्-शिष्यलब्धिसंपन्नः ।
श्रीकुङ्कणं प्रधानं, प्रबोध्य किल दीक्षयाञ्चक्रे ॥ ४० ॥ युग्मम् ॥ श्रीदेवसूरिनामा, जातस्तत्पट्टपूर्वदिग्भानुः ।
'रूपश्री 'रिति बिरुदं नृपदत्तं यो दधौ रुचिरम् ॥ ४१ ॥ नाम्ना श्रीसर्वदेव-सूरिः प्राभासयत्तदीयपदम् । शिष्ययशोभद्रमुरखा-नकृताष्टौ सूरिपदभाजः ॥ ४२ ॥ तत्पट्टक मलकैरव - विकासकृद्रविविधू विरेजाते । सूरियशोभद्राख्यः, तथाऽपरो नेमिचन्द्र इति ॥ ४३ ॥ तत्पट्टकमलमिहिरः, श्रीमुनिचन्द्राभिधोऽभवत्सूरिः । सौवीरमात्रपायी, प्रत्याचख्यौ स षट् विकृतीः ॥४४॥ हरिभद्रसूरिरचिताः, कृतयोऽनेकान्तजयपताकाद्याः । तार्किकवर्येण येन, विहिताः सुखबोधवृत्तियुताः ॥ ४५ ॥ सूरिरजितदेवाख्यः, तत्पट्टं शोभयाञ्चकार भृशम् । तद्गुरुबन्धुर्वादी, जितकुमुदो देवसूरिरभूत् ॥४६॥ तत्पदशोभाकरणो, जातः श्रीविजयसिंहसूरीशः । सोमप्रभमणिरत्नौ, सूरीशौ तत्पदेऽभवताम् ॥ ४७ ॥ मणिरत्नसूरिपट्टं, द्योतितवान्, सूरिराट् जगच्चन्द्रः । बुधदेवभद्रसङ्गात्, साधितवान् यः क्रियोद्वारम् ॥ ४८ ॥ द्वात्रिंशद्दिग्वसनाचार्यैर्वादं प्रतन्वता जयता ।
येनाऽऽपि भूपदत्तं, ह्याघाटे 'हीरला ' बिरुदम् ॥४९॥ आजीवनमाचाम्ला-भिग्रहतः प्राप्तवान् तपाबिरुदम् । तत आरभ्य गणोऽयं, विख्यातोऽभूत् तपाभिधया ॥ ५० ॥ (त्रिभिर्विशेषकम् ) सूरिर्देवेन्द्राह्वो, जज्ञे तत्पट्टभून्महाप्राज्ञः ।
श्राद्धदिनकृत्य - कर्मग्रन्थमुखा यश्चकार कृतीः ॥५१॥ तत्पट्टं दिनकरवद् व्यभासयद्धर्मघोषसूरीशः । पृथ्वीधरो यदुक्त्याऽभूषयदूर्वी जिनौकोभिः ॥५२॥ यश्च समर्थः सूरिर्योगिवरं दुर्जयं महामायम् । जित्वाऽवन्तीपुर्यां, श्रमणान् निरुपद्रवीचक्रे ॥५३॥ (युग्मम्) श्रीसोमप्रभसूरिस्तत्पट्टाकाशभास्करो जज्ञे । यतिजीतकल्पसूत्र - प्रमुखान् जग्रन्थ यो ग्रन्थान् ॥ ५४ ॥
१४
Page #23
--------------------------------------------------------------------------
________________
तत्पट्टशुक्तिमौक्तिक-आचार्यः सोमतिलकनामाऽभूत् । नव्यं क्षेत्रसमासं, प्राणैषीद्यः स्तवादि तथा ॥५५॥ तत्पट्टे सूरिवरो, देवादिमसुन्दरोडजनिष्ट कृती। उदयीपाभिधयोगी, निजगुरुवचसा ववन्दे यम् ॥५६॥ तत्पदमबुभूष-च्छ्रीसूरीशः सोमसुन्दरो नाम । योडरचयद्योगशास्त्र-भाष्यमुखाः सत्कृतीर्बहुशः ॥५७॥ धरणाशाहविनिर्मित-चैत्ये त्रैलोक्यदीपके यश्च । प्रातिष्ठिपदादिनाथ-मुखमूर्ती राणके समहम् ॥५८॥ (युग्मम्) श्रीमुनिसुन्दरसूरिं, स तु पट्टेऽस्थापयन्निजे गुरुराट् । बाल्येऽपि यो मनीषी, कृतवानवधानसाहस्रम् ॥५९॥ अष्टोत्तरशतकरमित-पत्रं बुधवेद्यचित्रकाव्यमयम् । निजगुरवे सम्प्रैषीद् य स्त्रिदशतरङ्गिणी' नाम ॥६०॥ (युग्मम्) रत्नमिव साधुसङ्के, तत्पट्टे रत्नशेखरो जातः । श्राद्धविधिसूत्रवृत्ति-प्रमुखैर्ग्रन्थैः श्रुतो भुवने ॥६१॥ श्रीस्तम्भनामतीर्थे, बाम्बीभट्टस्तदीयगुणतुष्टः । यस्मै सूरिवराया-डदाद बालसरस्वतीबिरुदम् ॥६२॥ लक्ष्मीसागरसूरि-स्तदीयपट्टाब्धिवृद्धिकूच्चन्द्रः । अजनि, ततो बुधमान्यो, जातः श्रीसुमतिसाध्वभिधः ॥६३॥ सुविहितमुनिगणनेता, तत्पट्टेऽजायतोग्रचारित्रः । आनन्दविमलसूरि: कुमततमोवासराधीशः ॥६५॥ य उद्धधार श्रमणान्, संयमशैथिल्यपङ्कसंपृक्तान् । संत्याज्य मोहमाये, इभ्यान् प्रावाजयन्लैकान् ॥६६॥ विद्यासागरगणिनं, षष्ठतपोऽभिग्रहं च सम्प्रेष्य । जेसलमेर्वादौ यः, प्राभावयदार्हतं धर्मम ॥६७॥ (त्रिभिर्विशेषकम) तत्पट्टभूषणमणिर्जातः श्रीविजयदानसूरीशः। धनपतिरिव शिष्येभ्यो, योडदात् श्रुतसम्पदं प्रीत्या ॥६८॥ गूर्जर-मालवमुख्ये, विहरन् विषये च यः प्रतापनिधिः । प्रातिष्ठिपज्जिनेशान, स्तम्भनतीर्थादिसंस्थाने ॥६९॥ घृतवर्जपञ्चविकृती-र्यावज्जीवं त्यजन् महाधीरः । षष्ठाष्टामादिविविधं, सुदुस्तपं यस्तपस्तेपे ॥७०॥ (त्रिभिर्विशेषकम)
१५
Page #24
--------------------------------------------------------------------------
________________
तत्पदकुमुदसुधांशुः पूज्यः श्रीहीरविजयसूरिरभूत् । श्रीजिनशासनराज्ये, प्रवर्तितो नवयुगो येन ॥७१॥ यः प्रहलादनपुर्यां प्राप्य जनि त्रिविधु(१३)वर्षदेशीयः । आसादितजिनमार्गः, सूरिपदं जग्मिवान् ऋक्षे ॥७२॥ लुङ्गाधिपऋषिमेघः, शरभुज(२५)मुनिभिर्जगाम जिनदीक्षाम् । यत्सविधे निजमतमपि, दुर्गतिपातं विचिन्त्य रयात् ॥७३॥ षण्मासावधि यस्यो-पदेशतोऽकब्बरो नूपाधीशः । अकरोत्सदयोडमारि-प्रवर्तनं सकलराज्येषु ॥७४॥ विहरन्ननेकदेशे, जिनधर्ममुपादिशन् जनान् यो हि । विहितविविधप्रतिष्ठः, शासनमुद्योतयामास ॥७५॥ जम्बूप्रज्ञप्तिवृत्ति-कर्तुर्मुनयो जगद्गुरोर्यस्य ।। आसन् द्विसहस्रमिताः, ज्ञानतपोरत्नवारिधयः ॥७६॥ नवषष्टितमे वर्षे, [नायामाप देवलोकं यः । तत्स्थलकृतगुरुमन्दिर-महिमा प्रत्यक्ष एवाऽस्ति ॥७७॥ एतद्गुरोश्चरित्रं, वर्णितमेवाऽस्ति हीरसौभाग्ये । एवञ्च हीररासे, रम्ये च जगद्गुरोः काव्ये ॥७८॥ (अष्टभिः कुलकम्) तत्पदमानसहंसो जातः श्रीविजयसेनसूरीशः । यो दानसूरिकरतो 'ग्रहमितवर्षे ललौ दीक्षाम् ॥७९॥ प्रादादकबरसाहि-र्यस्मै ‘काली-सरस्वती बिरुदम् । विदितश्च य: 'सवाई-हीरविजयसूरिरिति भुवने ॥८०॥ यत्संहतौ गुणिखनौ, पूज्या अष्टाऽभवन्नुपाध्यायाः । प्रज्ञांशाश्च शतोर्ध्वाः, मुनयो हि सहस्रयुग्ममिताः ॥८१॥ श्रीऋषभदासनामा, श्राद्धस्तच्छिष्यभावमापनः । यो निजकाव्येन्दुकरै-रदीपयद् भूतलं सकलम् ॥८२॥ विदुषा येन महार्थाः, सूक्तावल्यादयः कृता ग्रन्थाः । शतमा व्यरचि 'नमो-दुर्वारराग' सुपद्यस्य ॥८३॥ यत्सान्निध्येऽभूवन-जिनप्रतिष्ठामहाः खपञ्च(५०)मिताः ।
विजयप्रशस्तिकाव्ये, वर्णितमस्याऽस्ति सच्चरितम् ॥४॥ १. ऋक्षे- सप्तविंशतिवर्षे, ऋक्षं नक्षत्रम्, तस्य सप्तविंशतिसङ्ख्यकत्वात् । २. नवमवर्षे इत्यर्थः ।
Page #25
--------------------------------------------------------------------------
________________
स्वरिते यस्मिन् सूरौ, समभूत्सङ्गद्वयं तपागच्छे । श्रीदेवसूरनामा, तथाऽऽणसूराभिधानश्च ॥८५॥ श्रीविजयदेवसूरिर्गुरुरिव विज्ञो बभूव तत्पट्टे । यो निजजननीसहितो, व्रतमादाद्धायने नवमे ॥८६॥ यनिरुपमगुणतुष्टः, साहिजहाँगीरसंज्ञनृपवर्यः । प्रादात्प्रवचनसंसदि, यस्मै हि 'महातपा'बिरुदम् ॥८॥ श्रीस्तम्भाभिधतीर्थे, यत्सूरिपदप्रदानपरममहे । श्रीमल्लसाधुमुख्यैः, खं-शरसहस्रं धनं व्ययितम् ॥८॥ यद्वचनामृतसिक्ता, राणकजगसिंहचित्तधर्मलता। सुषुवे जीवाहिंसा-गुरुभक्तिमुखानि सुफलानि ॥८९॥ प्रातिष्ठिपद् विशाला, यो जिनमूर्तीरनेकविषयेषु । सम्प्रत्यपि या भविनां, प्रमोदयन्ति द्रुतं चेतः ॥१०॥ निर्विकृति विकृतिं य-स्तत्याज समाञ्च भक्तगृहभिक्षाम् । आजीवनमुपयुक्तः, संयमयोगेषु सर्वेषु ॥९१॥ श्रीवीरविजयसंज्ञं, पण्डितवन॑ बिजापुरे नगरे । यो विधुखर्षिसुधांशौ, वर्षे पंन्यासमातेने ॥१२॥ उन्नाभिधानपुर्या-मष्टमभक्तो जगाम यः स्वर्गम् । देवानन्दाज्ज्ञेयं, तच्चरितं विजयदेवमाहात्म्यात ॥३॥ (अष्टभिः कुलकम) तत्पट्टकाननहरि-र्जातः श्रीविजयसिंहसूरीशः। दीक्षामासादितवान्, यो वयसो हायने दशमे ॥१४॥ विहरन् हि मेदपाटे, मरुधरविषये च गूर्जरे देशे । समहं प्रस्थापितवान्, पर:शता यो जिनप्रतिमाः ॥५॥ सूरिपदमहो येषां, नगर इलादुर्गनाम्नि सञ्जातः । तस्मिन् सहजूश्राद्धो, भूरितरं व्ययितवान् वित्तम् ॥६॥ श्रीसिंहे स्वर्गतवति, गच्छाभ्युदयाय देवसूरीशः । कञ्चन सुयोग्यपुरुषं, नियोक्तुमैच्छत् स्वकीयपदे ॥१७॥ श्रीसूरिमवजापात्, प्रत्यक्षीभूय मत्रराजसुरः । श्रीवीरविजयनाम्नः, सूरिपदार्हत्वमाचष्ट ॥८॥
१. पञ्चाशत्सहस्रम् ।
Page #26
--------------------------------------------------------------------------
________________
तीर्थे श्रीगन्धारे, सङ्घीभूय प्रभूतपुरसङ्घः । प्रारब्धे जिनचैत्ये, सहर्षमष्टाह्निकाख्यमहे ॥९॥ गुरुदेवसूरिवर्योदात्सूरिपदं हि वीरविजयाय । उद्घोषितस्तदानीं, विजयप्रभसूरिरिति नाम्ना ॥१०॥ कृतसंस्कारो मणिरिव, भृशं दिदीपे स सूरिपदकलितः । जिनप्रतिष्ठाकूत्यैः प्राभावयदार्हतं धर्मम् ॥१०१॥ श्रीसिंहसूरिपट्टे, पन्यासः सत्यविजयनामाऽभूत् । कृत्वा क्रियोद्धतिं यः, शैथिल्यमपाकरोदुच्चैः ॥१०२॥ तत्समयेऽष्टावभव-लार्हतधर्मप्रभावका मुख्याः । यदुपकृतिं बहुमान्या, अधुना सर्वेऽपि मन्यन्ते ॥१०३॥ (युग्मम्) योगिवरेण्यः श्रीमा-नानन्दघनो बभूव निजमग्नः । नृणामध्यात्मरुचिं, यत्स्तवन-पदानि पुष्यन्ति ॥१०४॥ वाचकवर्यो विनयः, शास्त्राम्बुधिपारगो द्वितीयोऽभूत् । आनन्दयन्ति विदुषः, सम्प्रत्यपि यत्कृताः कृतयः ॥१०५॥ शान्तसुधारसकाव्यं, सुबोधिका कल्पसूत्रवृत्तिश्च । लोकप्रकाशशास्त्रं, हैमीयप्रक्रिया लची ॥१०६॥ श्रीपालराजरासश्चैत्यस्तवनं विनयविलासश्च । कृत्वैतान् यो ग्रन्थान्, विद्वद्गणमाननीयोऽभूत् ॥१०७॥ (त्रिभिर्विशेषकम्) महामहोपाध्यायो, जातः श्रीमद्यशोविजयनामा । जितवादो जसभायां, न्यायाचार्यत्वमापद् यः ॥१०८॥ उपगडं स्तिमितो यः, समुपास्यैङ्कारजापतो वाणीम् । चिन्तामण्यादिनिखिल-शास्त्रेष्वपि दक्षतां लेभे ॥१०९॥ प्रवरविपश्चिद्गम्या, अध्यात्मन्यायमुख्यविषयेषु । यद्रचिताः सद्ग्रन्थाः परश्शताः शेखरायन्ते ॥११०॥ अध्यात्मसारमाद्यं, वैराग्यकल्पलताभिधं ग्रन्थम् । को न विरज्येत भवा-दवगत्य ज्ञानसारञ्च ॥१११॥ निहितार्थशास्त्रवार्ता-समुच्चये विस्तूता कूता येन । प्रविरलबुधजनवेद्या, वृत्तिः स्याद्वादकल्पलता ॥११२॥ समताशतकं द्रव्या-दिमगुणपर्यायरासमालम्ब्य । असंस्कृतज्ञोऽपि जनो, जिनोक्ततत्त्वानि वेवेत्ति ॥११३॥
Page #27
--------------------------------------------------------------------------
________________
श्रीमान् लघुहरिभद्रः, कूर्चालसरस्वतीति यः ख्यातः । जयतात्स सर्वकालं, श्रुतिके वलिकल्प इह भुवने ॥११४॥ (सप्तभिः कुलकम) तुर्यस्तेषु च पूज्यो, वाचकवर्यो हि मानविजयोऽभूत् । पुष्णाति प्रभुभक्तिं य-द्रचितस्तवनान्यनेकानि ॥११५॥ यतिगृहिधर्मनिरूपक आतेने धर्मसङ्ग्रहाभिख्यः । ग्रन्थो येन महार्थो, व्याडिविहितसङ्ग्रहप्रतिमः ॥११६॥ श्रीधीरविमलगणिनः, शिष्योऽभूज्ज्ञानविमलसूरीशः । योऽपूजयज्जिनेन्द्र, स्तवनसुमैर्नवनवैर्नित्यम् ॥११७॥ यः श्रीपालचरित्रं, शतशः स्तवनानि सिद्धिगिरिराजः । व्यतनोच्चाऽऽनन्दघन-स्तवनचतुर्विंशतिस्तबकम् ॥११८॥ (युग्मम्) श्रीउदयरत्ननामा, षष्ठोऽभूत्तेषु वाचकप्रष्ठः । यः कृत्वाऽनेककृती-बहूपकृतिमातनोलोके ॥११९॥ गूर्जरगिरि च 'शलोका'-रूपं विदितं ततान यः काव्यम् । श्रीनेमि-शालि-भरत-प्रमुखानुपमेयचरिताढ्यम् ॥१२०॥ (युग्मम्) श्रीमत्कूपाविजयबुध-शिष्यः श्रीमेघविजयनामाऽभूत् । वाचकवर्यो यत्कृत-कूतयः सम्प्रीणयन्ति ज्ञान् ॥१२१॥ देवानन्दाभ्युदयं, दिग्विजयं शान्तिनाथकाव्यञ्च । चन्द्रप्रभाभिधानं, व्याकरणं प्रक्रियाबद्धम् ॥१२२॥ मेघमहोदय-युक्ति-प्रबोधसंज्ञौ तथा महाग्रन्थौ । रचयाञ्चकार धीमानपि काव्यं सप्तसन्धानम् ॥१२३॥ (त्रिभिर्विशेषकम) गणिदेवचन्द्रनामा जातः श्रीदीपचन्द्रगणिशिष्यः । अपि खरतरगच्छीयः, समदृष्टिः सर्वगच्छेषु ॥१२४॥ नयचक्रागमसारी, स्तवनानि, ध्यानदीपिकाप्रमुखान् । रचयित्वा यो ग्रन्थान्, कृतवानुपकारमतिविपुलम् ॥१२५॥ काले तस्मिन् धर्म-प्रभावका आसतैतदष्टमुखाः । ये निजशक्त्या शासन-मुच्चैः प्राभावयज्जैनम् ॥१२६॥ (त्रिभिर्विशेषकम्) कर्पूरविजयनामाऽभूदथ गणिसत्यविजयपट्टधरः । श्रीप्रभसूरिर्यस्मै, पन्न्यासपदं ददौ समहम् ॥१२७॥ तत्पट्टाम्बरभानुर्जातः श्रीमान् क्षमाविजयनामा । प्रातिष्ठिपत्पृथिव्यां, यो जिनबिम्बानि सप्तशतम् ॥१२८॥
Page #28
--------------------------------------------------------------------------
________________
श्रीमज्जिनविजयाह्वः, पन्यासस्तदीयपट्टभूषोऽभूत् । स्तवनसुमैर्यद्ग्रथितै-भव्या जिनमर्चयन्त्यधुना ॥१२९॥ तत्पट्टभूषणोत्तम-उत्तमविजयाभिधो गणिर्जातः । गूर्जरसौराष्ट्रादौ, बहुश्रुतो यो विजहेडरम् ॥१३०॥ अष्टप्रकारपूजां, श्रीजिनविजयनिर्वाणरासञ्च । रचयित्वोपकृति यो, व्यदधादधुनातने लोके ॥१३१॥ तत्पट्टे पल्यासः, पूज्यः श्रीपद्मविजयनामाऽभूत् । श्रीधर्मसूरिकतो, योऽभूत्पल्यासपदशाली ॥१३२॥ यः सकलागमसागर-पारीणः कविवर: क्रियानिष्ठः । ख्यातोऽभूदिह भुवने, पूज्य: परमद्रहाभिधया ॥१३३॥ उत्तमविजयकरास-स्तवन-स्तुतिदेववन्दनप्रभृतिः । यत्कृतकृतिसन्दोहोऽधुनाऽपि जनमानसं हरति ॥१३४॥ (त्रिभिर्विशेषकम्) समजनि तदीयपट्टे पंन्यासो रूपविजयकविवर्यः । शरदागमपूजां, निजगुरुरासादि योऽरचयत् ॥१३५॥ पन्यासकीर्तिविजय-स्तत्पदमचकासयद् विततकीर्तिः । यद्गुरुबन्धव आसन्, कविमोहन-जीवविजयाद्याः ॥१३६॥ कस्तूरविजयनामा, पंन्यासस्तत्पदेऽजनिष्ट गणिः । येन जनु: स्वं सफलं, विदधे श्रामण्यपालनतः ॥१३७॥ श्रीमन्मणिविजयाह्वः, पंन्यासोडलञ्चकार तत्पट्टम्। यो प्रतिबद्धविहारी, प्रशान्तमूर्तिस्तपोनिष्ठः ॥१३८॥ तत्पट्टाजविकासी, पूज्यः श्रीबुद्धिविजयनामाऽभूत् । निःस्पृहशिरोमणिों, योगिवर: स्वात्मसन्निष्ठः ॥१३९॥ अपि धृतढुण्ढकदीक्षो, दृष्ट्वा शत्रुञ्जयं महातीर्थम् । संवेगदीक्षितोऽभूत्, सार्वागमविदितपरमार्थः ॥१४०॥ ढुण्ढक सङ्के येन, प्रवर्तितः शुद्धधर्मसन्देशः । कतिपयमुनयो जगृहुः, संवेगित्वं निजेन सह ॥१४१॥ नितरां भद्रप्रकृति-बहुसङ्ख्यकशिष्यवृन्दपरिकलितः । पञ्चनदीयो मुनिराट्, न हि केषां शंसनीयोऽभूत् ॥१४२॥ (चतुर्भिः कलापकम्) तच्छिष्येषु प्रथमो, जातो गणिराजमुक्तिविजयाह्वः ।
प्रौढप्रभावनिलयो विदितोडजनि मूलचन्द्र इति ॥१४३॥ * ४५ आगमपूजाम् ।
२०
Page #29
--------------------------------------------------------------------------
________________
संयमशैथिल्यं य-स्तत्कालीनं व्यपाचकार गणिः । साधूनां वो यः, प्रस्थापितवान् श्रमणसङ्ग्रे ॥१४४॥ केन्द्रस्थितसुरगुरुरिव, शासति तस्मिन् सुधर्मसाम्राज्यम् । सुस्थितमापुः सर्वा-ण्यपि धर्माङ्गानि सर्वत्र ॥४५॥ (त्रिभिर्विशेषकम्) सरलाशयो गुणाढ्यो गीतार्थो वृद्धिचन्द्रपुण्याख्यः । आसीदसौ द्वितीयः, संस्मारितपूर्वसत्पुरुषः ॥१४६॥ वैराग्यामृतवारिधि-रजनि तृतीयो हि नीतिविजयाह्वः । आनन्दविजयनामा, तुर्योऽभूच्चापि सच्चरितः ॥१४७॥ श्रीमोतिविजयसंज्ञो, मुनिगणगण्यो हि पञ्चमो जातः । सूरिर्विजयानन्दः षष्ठोऽभून्यायपाथोधिः ॥१४८॥ आत्मनि सततं रमणादात्मोद्धाराय चोपदेष्टुत्वात् । वसुधायां ख्यातोऽभू-दात्मारामेति नाम्ना यः ॥१४९॥ यश्च दयानन्दमुखान्, विजित्य वादे यशो रं लेभे । स्याद्वाददर्शनस्य, प्रवर्तितो येन जयघोषः ॥१५०॥ योऽज्ञानतिमिरभास्कर-तत्त्वादर्शादिसत्कृतीर्विदधे । पञ्चनदे कूतवाँश्च प्रभावनां जैनधर्मस्य ॥१५१॥ (चतुर्भि: कलापकम्) षष्ठाभिग्रहधारी, पञ्चनदीयो हि सप्तमो जातः । श्रीखान्तिविजयनामा, निजपरहितसाधनैकमनाः ॥१५२॥ अथ दानविजयनामा, विद्वद्वर्योऽष्टमो मुनिर्जातः । प्रविवेश यस्य धिषणा, कुशाग्रवल्यायसिद्धान्ते ॥१५३॥ इति बुद्धिविजयपट्टे, सञ्जातस्याऽस्य वृद्धिचन्द्रस्य । समभूवनव शिष्या, निधयो नव चक्रिणो हि यथा ॥१५४॥ आद्यस्तत्र हि केवल-विजयो धैर्यादिसदगुणोपेतः । गीतार्थः पल्यासो, द्वितीयगम्भीरविजयाहवः ॥१५५॥ पन्न्यासभाक् तृतीयो, धीरश्चतुरविजयाभिधो जातः । विद्वद्धर्यस्तुर्यः, ख्यातः श्रीहेमविजयाख्यः ॥१५६॥ अथ पञ्चमो मनीषी, जातः श्रीविजयधर्मसूरीशः । यो गुरुभक्त्यनुभावा-दवाप्तवान् शास्त्रनैपुण्यम् ॥१५७॥ विद्वत्पर्षदि काशी-राजोडदाद् वादजिष्णवे यस्मै । शास्त्रविशारद-जैनाचार्योपाधिं प्रणुलमनाः ॥१५८॥ (युग्मम्)
२१
Page #30
--------------------------------------------------------------------------
________________
शासनसम्राट श्रीमान् जातः षष्ठो हि नेमिसूरीशः । जिनशासनोदधिं यो, विधुरिव संवर्धयामास ॥१५९॥ श्रीप्रेमविजयनामा, मुनिवर्यः सप्तमो बभूव कृती। सन्मित्राध्यात्मरुचिः कर्पूराख्योऽष्टमो जज्ञे ॥१६०॥ सज्ज्ञानादित्रितया-राधनवशतो यथार्थयन्नाम । श्रीमानुत्तमविजयो, नवमो जातोऽनगारेशः ॥१६१॥ पट्टावलीयमिति वीरविभोवरेण्या दृब्धा मया तनुधियाऽपि गुरोः प्रसादात् । अन्तःस्थितोऽपि लघु तारयतीह वायुः, किं नो दृतिं निरवधिं जलधिं जगत्याम् ॥१६२॥
॥ इति प्रथमः सर्गः ॥
(अनुवर्तते)
२२
Page #31
--------------------------------------------------------------------------
________________
गलज्जलिका
स्वप्नो मया न दृष्टः
प्रा. अभिराजराजेन्द्रमिश्रः
स्वप्नो मया न दृष्टो ननु कल्पना कृता नो । इच्छा च काऽपि दीर्घा सामर्थ्यतो वृता नो ॥१॥ उद्घातिनी ममाऽऽसीद् यात्रोचिता धरित्री भ्रान्तं मयाऽप्रमादं गन्त्री समाश्रिता नो ॥२॥ सुहृदामपि स्वभावो विदितो मयाऽनुभूत्या । तस्माद्धि सङ्कटेऽपि प्रभुता परीक्षिता नो ॥३॥ केषामहं न वाऽऽसं, मम किन्तु केऽपि नाऽसन् । शाखोटकेन मयका पीडा प्रकाशिता नो ॥४॥ विश्वास आत्मनियतौ मम सन्ततं दृढाऽऽसीत् । तस्माच्च नग्ननृत्यैर्वैधेयताऽऽहृता नो ॥५॥ न च सम्भवं यदासीत् तस्मिन्न काऽपि निष्ठा । चिञ्चाफले कदाचिन्मृदुता प्रकल्पिता नो ॥६॥ दृष्टो न बालुकायां तैलस्य कोऽपि लेशः । तस्मात्कृतघ्नतायामिष्टा कृतज्ञता नो ॥७॥ शुचिता न सम्भवाऽऽसीत् खलु कज्जलप्रकोष्ठे । कुटिलाऽथ राजनीतिस्तस्मान्मया श्रिता नो ॥८॥ दृष्ट्वा वनं दवाग्नौ निखिलं जगच्च दुःखे । नारायणैकपरता स्वीया कदर्थिता नो ॥९॥
O
२३
Page #32
--------------------------------------------------------------------------
________________
घनाक्षरीसप्तकम्
प्रा. अभिराजराजेन्द्रमिश्रः
यद्धि जायते तदेव नश्यति स्वतोऽपि हन्त तविनाशसंविधानकं क्रियेत वा न वा संसृतेः स्वभाव एव दृश्यते तथाविधो हि शास्त्रयुक्तिरत्र सङ्गता श्रियेत वा न वा । तद् विचिन्त्य, चिन्तयाऽभिराज एष मुक्त एव यद्धि भावि, तद् भविष्यति धियेत वा न वा शम्भुरोहिनी कराम्बुजोपलालितस्य कस्य कीदृशं भयं, जगत् सुहृद् वियेत वा न वा ॥१॥ वाचया तपोऽर्जितं सहस्रशः पार्भका विनीय यत्नबोधिता रुजोडपनीय संस्कृताः संस्कृताब्धिवीचिलोललीलया विहृत्य हन्त जीवनं सदर्थितं सरस्वती समर्चिता । निन्दया छलेन कूटकर्मणा मृषावचोभिरुत्तमर्णतामदेन नो जनाः प्रवञ्चिताः कीर्तिता महेश्वरी यशस्करी पराम्बिकैव भोगकर्षणेऽसति प्रसह्य केऽपि नार्थिताः ॥२॥ भारवन्त उत्थिताः श्रुतं मया न जातु मेघ ! किन्तु सैन्धवं जलं निपीय खङ्गतो भवान्
सन्निपत्य केऽपि नो यशस्विनोऽभवन्निहाऽद्य किन्तु वृष्टियोगतोऽपि लोकसम्मतो भवान् । गर्जितैरपि प्रकामरोमहर्षणं तनोति बर्हिणां लुलायहस्तिनामुदन्वतां भवान् किन्तु कर्म तावकं प्रभावकं भवेल यद्धि जीवनैरजीवनैः कृतार्थजीवनो भवान् ॥३॥ सन्ति किन कानने शमीकरीरबर्बुरादिपादपा न तैः कदापि तद्यशो हि गीयते
२४
Page #33
--------------------------------------------------------------------------
________________
चातकाः पिकाश्च बर्हिणोऽधिशाखमाश्रिताः क्षणं कलं गिरन्तु नेति केनचिद् विचीयते । किन्तु यद्यसौ भवेन्नु चन्दनस्स एकलोऽपि तेन काननाननं श्रियं न कां न नीयते कर्तितोऽपि खण्डितोऽपि घर्षितोऽथ मर्दितोऽपि येन सौरभैर्वनं हि मन्दिरं विधीयते ॥४॥ गर्विताऽसि लेखनि ! प्रशस्तिकीर्तिलेखनेन साधु, ते गुणोदयो मयाऽपि नाम वन्द्यते किन्तु नो रणाङ्गणे तवाऽस्ति विक्रमो नु कोऽपि तत्र खड्ग एव शत्रुशीर्षहृन्महीयते । नो जगत्यपार्थकं किमप्यहो विरञ्चिना प्रपञ्चितं, निजास्पदे समग्रमेव गीयते स्यान्नु सा शिला शिलीमुखं शिलीन्धकं तथाऽपि मर्त्यदेशकालवम॑नाऽखिलं विचीयते ॥५॥ क्षालितो न यत्नतोऽस्मि दुग्धधारया, ब्रवीमि संसदि स्वतः प्रमाणमेत्य घोषयाम्यहम् मानवा यथा भवन्ति तादृगेव सोऽहमस्मि कर्बुरस्सिताउसितच्छवि: प्रबोधयाम्यहम् । मानसे क्वचिन्नु गोपिताऽस्ति मेऽनुभूयमानदेववृत्तिरित्यपि स्फुटं गवेषयाम्यहम् तावतैव सत्तमो जनोत्तमो लघूत्तमो बृहत्तमस्सुहृत्तमोऽस्मि तद् विभावयाम्यहम् ॥६॥ वाचि वाचि वञ्चना विलोकिता मया सदैव तेन शोधितं मया स्वकीयमेव वाचिकम् सम्पदेव सर्वपापवृत्तिमूलमित्यवेक्ष्य याचितं कदापि नो महेश्वरं वृथाऽधिकम् । दुःखमेव केवलं प्रभुस्मृतिश्रयैकहेतुरित्यधीत्य लोकतस्तदेव भूरियाचितम् अर्जिता न कोटिका, न सञ्चिता वराटिकाऽपि मानितं तृणाय भो जगच्च हन्त मायिकम् ॥६॥
२५
Page #34
--------------------------------------------------------------------------
________________
सुभाषितानि
डॉ. वासुदेव वि. पाठकः 'वागर्थः'
संस्कारशिष्टश्च वाण्या विशिष्ट: सत्त्वैस्समृद्धश्च विवेकवृद्धः । प्रीत्या प्रवृत्तश्च परोपकारे गुरुर्गरीयः प्रियमातनोति ॥
प्रभाते प्रभाते प्रभुं प्रार्थयामि प्रभाते प्रभाते निजं चिन्तयामि । स्वकीयं स्वरूपं तथा कल्पयामि स्वकीये स्वपे मनो योजयामि ॥
सम्पूज्याः सात्त्विकास्सुज्ञाः सदा सद्भावभाविताः । सार्वत्रिकं स्वकीयं च साधयन्ति शुभं हितम् ॥
२६
Page #35
--------------------------------------------------------------------------
________________
ज्ञानसम्पादनं नित्यं, सर्वार्थं शुभकामना । ज्ञानदानं सदा कार्य
कार्यं कर्तव्यबुद्धितः ॥ स्तव्या या सततं शुभैश्शिवरतैः संज्ञानसम्प्राप्तये संस्कारांश्च ददाति या सुविमलान् सत्कार्यशुद्धिप्रदान् । हर्तुं ज्ञानमदं तथैव सुधिभिर्या स्तूयते सार-दा मोहाज्ञाननिवारिणी कुमतिहा, नः पातु सा शारदा ॥
भगवन् ! भक्तभक्तस्त्वं भक्तिमाँश्चाऽप्यहं विभो ! भक्त्या परस्परस्याऽऽवां
प्रसन्नौ प्रमार्थतः ॥ वैसर्गिकं सदा त्याज्यं हानिं ग्लानिं करोति तत् । नैसर्गिकं मुदा ग्राह्य करोति शान्तिमुत्तमाम् ॥
श्रद्धासमा न नौकाऽस्ति या दृढा तारयिष्यति । अन्धश्रद्धामये गर्ने पतन्त्येवाऽज्ञतां गताः ॥
१. वैसर्गिकं - त्यजनीयम् - दुष्टम् । २. नैसर्गिकं - सहजम् ।
२७
Page #36
--------------------------------------------------------------------------
________________
॥ परार्थचिन्तको भवेत् ॥
प्रो. कमलेशकुमार : छ. चोकसी
जायतेऽत्र पदार्थभ्यः सुखं दुःखं च हीयते । नाऽत्राऽस्ति संशयः कश्चित् जानाति मतिमान् जनः ॥१॥
यतोडभावो पदार्थस्य दुःखं जनयति दृढम् । प्रवर्तते पदार्थानां संग्रहे मतिमान् ततः ॥२॥ परं सत्यं न जानाति संग्रहतत्परो जनः । पदार्थानामभावस्य सत्ता भवति शाश्वती ॥३॥ सधनो निर्धनो वाऽपि पण्डितोऽज्ञो नरोऽपि वा । कुशलोऽकुशलो वाऽपि सर्वोऽभावेन ग्रस्यते ॥४॥ वृक्षः सुगन्धवान् पूर्णश्चन्दनस्य तु विद्यते । अभावस्तत्र पुष्पस्य कैर्नाऽवगम्यते भुवि ? ॥५॥ अतोऽभावपरीहारे कर्तव्य उद्यमो महान् । महतोऽस्य प्रयत्नस्य मूलं हि मतिः सात्त्विकी ॥ ६ ॥ दधाति सात्त्विक बुद्धिं भवति स्वस्थमानसः । यदा स्वार्थं परित्यज्य जनो चिन्तयति परम् ॥७॥ अभावस्तस्य सर्वोऽपि भावत्वे परिवर्तते । भावत्वाच्च पदार्थानां सर्वत्र सुखभाग्भवेत् ॥८॥ यदीच्छसि सुखं प्राप्तुं शृणु श्लोकमिमं सदा । श्लोकेनैकेन वक्ष्यामि किं श्लोकानां शतैस्तव ? ॥९॥ परिवारे समाजे च तस्य दुःखं न वर्तते । यः स्वार्थं परित्यज्य परार्थचिन्तको भवेत् ॥ १० ॥
•
२८
संस्कृतविभागः, भाषा-साहित्यभवनम्,
गुजरात विश्वविद्यालयः
अमदावाद- ३८०००७
Page #37
--------------------------------------------------------------------------
________________
हाइकु – काव्यानि
डॉ. कौशलतिवारिः
वक्रोऽयमस्ति सरलचित्तेष्वपि प्रणयमार्गः ॥
स्मितं तवाऽऽस्ति कुञ्चिका, पिहितस्य हृद्-द्वारस्य मे ॥
११. मार्जितं नूनं
पृष्ठेषु सुलिखितं न तु चित्तेषु ॥
२.
वारयति मां प्रणयक्षेत्रात् खलु स्ववित्तकोषम् ॥
पञ्चाङ्गं दृष्ट्वा न भवति चलनं प्रणयक्षेत्रे ॥
१२. प्रणयलिपि
कः पठितुं शक्नोति हृदयस्य मे ॥
आ पधानं पिशुनमस्ति रात्रौ हृत्शुष्कतायाः ॥
आरूढो मेघो विकसितं हृदयमधो धरायाः ॥
१३. नेत्रव्यापारे
विक्रीतं नु वराकं मुग्धहृदयम् ॥
जीवनोद्याने प्रवहति सुगन्धः स्मृतीनां तव ॥
सुविद्धोऽस्म्यहं तव नेत्रशराभ्यां मुक्तिं न याचे ॥
१४. चोरयत्येव
सुदृष्टिगोचरोऽपि हृदयचौरः।
५.
१५.
प्रियविरहे शीतलचन्द्रिकाऽपि प्रज्वालयति ॥
१०. गाढतमसि
ददात्याश्वासनं नु ते स्नेहस्पर्शः ॥
लुप्तस्त्वं तत्र मिलति यत्र खलु सर्वेषां चिह्नम् ॥
मालादेवी मौहल्ला, वार्ड नं. ३६, बारां, राजस्थान,
Page #38
--------------------------------------------------------------------------
________________
काव्यद्वयम्
डॉ. नारायणदाशः
(१) कुरुक्षेत्रे अतीतस्य जीर्णे इतिहासे, कुरुक्षेत्ररणाङ्गणे, युद्धविभीषिका पुनः अद्य चीत्करोति । यद्यपि न शुष्कं गतजीवनदंशनम्, यद्यपि स्वप्नायते सुयोधनवाणी, प्रतिध्वनति पुनः पुनः शतवारम्तथाऽपि हे धर्मराज! मानवसमाज! पुनः धारयति असिं, जीवनज्वालने! अद्य दिव्यवस्त्रावृता यद्यपि द्रौपदी! धर्मराजो राजा अद्य अहम्मयराज्ये! यत्र पतिपुत्रहीनाः कोटिशो मातरः, भाग्यं निजं स्वीकुर्वन्ति लक्षशो भगिन्यः, सर्वमद्य शेषायितं केवलं वञ्चितम्, रङ्गहीनाऽपरिचिता प्रभातकलिका, तदुपरि श्रूयमाणः शिशिरचीत्कार:, तदा भवेत् पुष्पमाला बन्धनशृङ्खला हे मनुज ! धर्मराज ! ज्ञापयति चराचरो भवते प्रणतिम्, तथापि, तथापि कथमुपतिष्ठसे ? जिजीविषाया अन्तहीने कुरुक्षेत्रे किं पुनः प्रमाणीकर्तुं रक्तपिपासुताम् ? कलाविज्ञानं किं सृष्टं केवलं ध्वंसाय ? विज्ञानखड़गः किं सदा शिशोः क्रीडनाय ? स्वागतीकुरु पुनः भग्नतव्यां स्वरम् छिन्नीकुरु एकवारं भिन्नताप्राचीरम्, कुरुक्षेत्रे स्थापयतु सङ्गच्छध्वं ज्ञानम्, स्नेहसिक्तन्यायोपरि विश्वस्य निर्माणम्, रचयतु मानवस्य नवमितिहासम् पूरयतु सन्तोषस्य सुधामयकोषम्, कुरुक्षेत्रे रक्ताञ्चले, सञ्चरतु, नवीनजीवनम् ॥
३०
Page #39
--------------------------------------------------------------------------
________________
(२) महात्म्यभ्योऽन्तिमं पत्रम् इतः प्रप्रथमं ज्ञाप्यन्ते प्रणामाः, इदमन्तिममपिहितं पत्रम् । कतिवारं नु प्रेरिता इतस्तु संवादाः किन्तु, किं ते भवतां पार्श्वे न प्राप्नुवन्ति वा? प्रतिवर्ष भारतवर्षात्ते गच्छन्ति तु समूहा जनानाम् । कदा वन्यावात्यादुर्भिक्षयानैर्वा भवतां नगराय। ते किं, किमपि न कथयन्ति भवद्भ्यः ? एकवारमत्राऽऽगत्य दृष्ट्वा प्रतिगच्छन्तु भवन्नेत्रजलपरिपूतभूमिः, यत्र अद्य परिभाषा सुपरिवर्त्तिता, त्यागस्थले प्रचलति नरमेधयज्ञः, भवत्स्वप्नसंवेदितत्यागस्याऽऽदर्शः, प्रजानुरञ्जको रामो रामराज्यं वा? सर्वमद्य धूलिसाद भवति कदा पुनः पुनः, भवेत् सुप्रभातम्? अन्यसुखदुःखौ कृत्वा निजसात् रक्तशोषणैः तथा संशून्यभाषणैः अङ्गानि वै गलितानि! तथाऽप्यद्य चतुर्दिक्षु स एव चीत्कार: ! 'अस्माकं कृते किमपि करोतु, किमपि करोतु' कर्तुमत्र को वा अस्ति ? अहमसमर्थो दु:स्थः च्छात्रः कोऽपि न पार्श्वेऽस्ति मम अलं मुष्टिपरिमितम्! न वा हस्तौ सिंहस्य सामर्थ्यम्! अत एव अन्तिमं मे पत्रम! उपस्थितिरत्यन्तावश्यकी, पारयेयुः नूनं समागच्छेयुः, कथनाय एकवारम् ‘आहा' इति ॥
सम्पादकः, कथासरित्, रामकृष्णमिशन आश्रमः, नरेन्द्रपुरम्, कोलकाता-७००१०३
३१
Page #40
--------------------------------------------------------------------------
________________
सुदर्शनम्
डॉ. वासुदेव वि. पाठकः 'वागर्थः '
अनियन्त्रितम् सर्वकालिकम्,
महाभारतम् तदा आसीत् ।
आसीत्तद् भारते आसीत्तद् विश्वे ।
महाभारतम् कदा नासीत् ?
अद्यापि वर्तमाने, एवमेव संदृश्यते ॥
अस्त्यधुनाऽपि दुर्योधनः अस्त्यधुनाऽपि दुःशासनः ।
अस्त्यधुनाऽपि द्रौपदी
अस्त्यधुनाऽपि कुन्ती ॥
धृत-राष्ट्राः धृतराष्ट्राः
कितवा: युधिष्ठिराः,
मदिरामग्नाः यादवाः कुलक्षयसाक्षिणः माधवाः ।
शान्तनवः, भीष्माः,
असहायाः विदुराः;
के के न सन्त्यधुना ?
ये चाऽऽसन् तदा,
सर्वे ते अधुना ॥
सन्तः सीदन्ति
असन्तः विलसन्ति ।
नियत्याः नृत्यं यथाऽऽसीत् तदा, तथैवाऽस्त्यधुना ॥
३२
Page #41
--------------------------------------------------------------------------
________________
महाभारतसन्दर्भ उक्तं चाऽप्यस्ति'यदिहाऽस्ति तदन्यत्र यलेहाऽस्ति न तत् क्वचित् ।'
व्यासेन वैश्विकं
वास्तविकं दर्शितम् ॥ पशवः पक्षिणः स्थलचराः जलचराः, असमर्थाः असहायाः; त्रस्ताः अपि मूकाः ॥
निजं सर्वसमर्थं मन्यमानः मानवः एव,
समग्रस्याऽस्य सङ्कटस्य सर्जकः । विविधानि विनाशशस्त्राणि तेन सृष्टानि, किन्तु, समग्राणि, दुर्दर्शनफलानि । अधर्मस्य पोषकानि पापाचारडिण्डिमानि ॥
नैव दृश्यते *सु-दर्शनम्,
नैव धर्मसंस्थापनलक्ष्यम् ॥ कथं भवेत् साधूनां त्राणम् कथं स्याच्च दुष्टानां हानम् ? प्रभवेत्कथं सुदर्शनचक्रम् ? विना विवेकम,
विनैव कृष्णम् ????? * सुदर्शनम् सु-दर्शनम् प्रीत्यहिंसादिकानां दर्शनम्
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद-१५
३३
Page #42
--------------------------------------------------------------------------
________________
वर्धमान आदर्शः॥
डॉ. वासुदेव वि. पाठकः ‘वागर्थः'
प्रसन्नताप्रदायकः अमृतांशुः विधुः, पूर्णः प्रीणाति माम; सततमवलोकयितुमिच्छामि ॥
किन्तु,
न स मे आदर्शः; सततमपक्षीयते, लुप्तश्च भवति ॥
ममाऽऽदर्शस्तु, शुक्लद्वितीयायाः द्विजः ।
(स:)
सततं वर्धते वर्धते वर्धते;
पूर्णता एव लक्ष्यं तस्य । विश्वोपकारकः रसात्मको देवः, सोमो भूत्वा, पोषयत्यौषधीः पोषयति सर्वान् ।
अत एव, शिवार्थं शिवेन भूषणत्वेन, स्थापितो निजोत्तमाते॥
३४
Page #43
--------------------------------------------------------------------------
________________
ब्राह्मे मुहूर्ते
कृते स्नाने,
धूते अम्बरे,
देवमन्दिरे,
स्वाध्यायार्थं
पद्मासनेऽपि,
चतुर्दिक्षु
दृष्टिपातं कुर्वाणं
चञ्चलं, दृष्ट्वा जनं; एका कलिका
विहस्याऽभाषत
भोः ! किं क्रियते ?
भ्रान्त इव क्षुब्धः
अवदत् न-न-न-किञ्चित्,
पश्यामि प्रकृतिम् ।
एवमेव ?
ओमिति ।
अरे ! पूर्वं पश्य स्वां प्रकृतिम्
-
-
स्थिरां कुरु ताम् ।
स्थिरत्वे तत्र,
स्थैर्यं सर्वत्र ।
अन्यथा,
अतो भ्रष्टस्ततो भ्रष्टः
सर्वतो भ्रष्टः, भविष्यसि नष्टः ।
३५
कथयति कलिका * ॥
डॉ. वासुदेव वि. पाठकः 'वागर्थः '
स्थिरो भव,
धीरो भव ।
शान्तिरस्यात्
फुल्लत्वं स्यात् ।
प्रफुल्लस्त्वम्,
पश्य मां प्रफुल्लाम्,
स्पर्श मां प्रफुल्लाम्,
स्पर्श स्पर्श सुकोमलाम् । मुदितो भविष्यसि माधुर्यमनुभविष्यसि ।
कुरु मनने मां महनीयाम् । कवय कवय मां कमनीयाम् । एवं जाते,
स्यान्मत्रत्वम् मन्त्रत्वे स्यादनुरणनम् । प्रसृतं दिव्यं काव्यं स्यात्, कवित्वे कल्याणं ते स्यात्, परानन्दस्येवाऽऽप्तिस्ते स्यात् ॥
* अत्र काव्ये काsपि
कलिका, चञ्चलमनस्कं
भक्तं, प्रफुल्लतार्थं, परानन्दार्थं च बोधयति हसन्तीव ।
D
३५४, सरस्वतीनगर, आंबावाडी, अमदावाद- १५
Page #44
--------------------------------------------------------------------------
________________
आस्वादः
शून्यता
मुनिकल्याणकीर्तिविजयः
दृश्यमानं जगदिदं पञ्चषार्बुदमितैर्मनुष्यैः, शतशोऽर्बुदमितैः पशु-पक्षिभिः, लक्षशो कोटिशो वाऽर्बुदमितैः कीटकादिभिर्लघुजीवैः, अगण्यैः सूक्ष्मजीवैः, सङ्ख्यातीतैश्च पृथ्वी-जल-वाय्वग्नि-वनस्पत्यादिभिर्जीवैस्तथाऽसङ्ख्यनिर्जीववस्तुभिः सर्वतोऽतिनिबिडतया खचितं परिपूर्णं च प्रतिभाति । यत्र कुत्राऽपि दृष्टिपातः क्रियेत तत्र गाढो घनीकृतो वा वस्तुपुञ्जो दरीदृश्यते ।।
एवमेव निरभ्रायां तमोव्याप्तायां च रात्रौ यदि नभस्तलं यदि चक्षुर्त्यां पश्येम तदा तदपि सहस्रशो ग्रहैनक्षत्रैस्ताराभिश्च गाढतया व्याप्तं दृश्यते । यदि दूरवीक्षकमहायन्त्रेण (telescope) तत् पश्येम तदा तु ततोऽपि लक्षगुणितैर्ग्रह-नक्षत्र-तारकादिभिनिबिडं दृश्यते ।
अतो वयं चिन्तयामो यद् ब्रह्माण्डमिदं कियदिव गाढतया निबिडतया च सजीवनिर्जीवैश्च सर्वत्र व्याप्तं खचितं चाऽस्तीति । किन्तु, वास्तविकतया तथा नास्ति । याऽपि घनता निबिडता व्यापकता वा दृश्यते सा सर्वाऽपि भ्रान्तिरेव - इन्द्रियद्वारोपलब्धस्य बोधस्य भ्रान्तिः ।
अस्माकमत्र प्रश्नः स्याद् यत् सर्वमपीदं प्रत्यक्षतया दृश्यतेऽनुभूयते च, ततः कथमिव तद् भ्रमरूपं स्यात् ? किमत्र प्रमाणम् ? इति । तदैतत्समाधानार्थं किञ्चन चिन्तयामः -
प्रथमं तावत्, अस्माकमिन्द्रियाणि मनश्चाऽत्यल्पक्षमत्वयुतानि सन्ति बोधकरणे । इन्द्रिय-मनोजन्यो बोधो हि यद्यपि नो वास्तविकः प्रतिभाति तथाऽपि सोऽतीव तुच्छो विकृतश्च भवति । सोदाहरणं पश्यामश्चेत् - यद्येकं जलबिन्दुं वयं स्वीयनेत्राभ्यां पश्येम तदा स केवलं पारदर्शको निर्जीवः स्वच्छश्चेत्येतावन्मात्रो बोधो भवति । किन्तु यदा तमेव जलबिन्दुं वयं सूक्ष्मदर्शकयन्त्रेण पश्येम तदा किं स्यात् ? सहस्रशो जन्तुभिर्व्याप्तः स दृश्यते ।
अथैवमेव यदा वयं चलच्चित्रं (movie) किञ्चन पश्येम तदा तद् सर्वथा वास्तविकं प्रतिभाति ।
३६
Page #45
--------------------------------------------------------------------------
________________
परं वस्तुतस्तु तत्र सहस्रशः स्थिरचित्राणां प्रोजेक्टरयन्त्रद्वारा चित्रपटोपरि अत्यन्तं वेगेन प्रक्षेपणं क्रियते, चित्रपट्टिका हि बहुवेगेन सञ्चाल्यतेऽतोऽस्माकमिन्द्रियाणि मनश्च तद् वास्तविकमिति प्रतिपद्यन्ते तादृशमेव च बोधं प्रकटीकुर्वन्ति । किन्तु वयं सर्वेऽपि जानीम एव यत् स कुण्ठित आभासिकश्च बोधः ।
यथा चाऽयं बोधः कुण्ठित आभासिकश्च तथैव जगदिदं घनं निबिडं स्थिरं च सर्वतश्च जीवैः पदार्थेश्च व्याप्तमित्ययमपि बोध आभासिकः कुण्ठितश्च । यतः, घनतया स्थिरतया च प्रत्यक्षीक्रियमाणः सर्वोऽपि पदार्थो वस्तुतः प्रतिक्षणमत्यन्तं वेगेन परिभ्रमणं कुर्वतां परमाणूनामस्थिरः पुञ्ज एवाऽस्ति । अस्थि-मांस-रुधिरादिभिर्घटितं घनत्वेन भासमानमस्माकं शरीरमपि तादृशमेव । शरीरविज्ञानिनां मतेन शरीरस्य घटकतत्त्वानीमानि – अस्थि-मांस-रुधिरादीनि सङ्ख्यातीतैः को(cells)निर्मितानि सन्ति । प्रायशः पञ्चाशत्-खर्वप्रमिता: कोषा अस्माकं शरीरे विद्यमानाः सन्ति । तेभ्यश्च प्रतिक्षणं पञ्चकोटिमिताः कोषा विनश्यन्ति, तावन्मात्राश्च नूतना अपि निर्माणं प्राप्नुवन्ति । एवं स्थिते कथं वा स्थिरं घनं च स्यादस्माकं शरीरम् ? तद्ध्यस्ति प्रतिक्षणं चयापचयं प्राप्नुवतां क्षणभङ्गराणां कोषाणां पुञ्जमात्रम् । केवलमिन्द्रियैर्मनसा चोपलब्धस्य भ्रमात्मकबोधस्य कारणाद् वयं तत् स्थिरं घनं वेत्यादिकं मन्यामहे ।
एवमेवाऽन्येऽपि निर्जीवाः पदार्थाः स्थिरा घना निश्चिताश्च भवितुं नैवाऽर्हन्ति । यतः प्रत्येकं पदार्थः शरीरस्य कोषो वाऽणु-परमाणुभिर्निर्मिताः सन्ति । प्रत्येकमणो भौ विद्यमानस्य प्रोटोनकणस्य परितस्तदीयइलेक्ट्रोनकणः परिभ्राम्यति । सोऽपि च क्षणस्य दक्षलक्षतमे भागेऽणुनाभेरर्बुदप्रमितवारान् परिभ्राम्यति, किन्तु चक्षुरिन्द्रियस्याऽत्यल्पसामर्थ्यात् तद्गतिरस्माकमप्रत्यक्षा भवति । फलतश्च प्रचण्डवेगेन गतिशीलैरणुपरमाणुभिर्युक्तः पदार्थः ९९.९ प्रतिशतं शून्यावकाशयुतोऽपि पदार्थोऽस्माकं घन इव भासते । अणो भिरपि न घनत्वभागपि तु नैकैर्लघुभिः कणैर्निर्मितोऽस्ति, अर्थात् तत्संरचने शून्यावकाश एवाऽत्यधिकः । फलितं त्वेतद् यदस्माकं दैनन्दिनकार्येषूपयोगीनि सर्वाणि वस्तूनि - अन्न-पान-वस्त्र-भाजन-पुस्तक-खट्वासन्दगृहादीनि, तथाऽस्माकमन्येषां च जीविनां शरीराणि, पृथ्वी-जल-वनस्पत्यादीनि च प्रायशः ९९.९ प्रतिशतं तु शून्यावकाशयुतान्येव सन्ति । अणुविज्ञानिनो निःशङ्कतया कथयन्ति यत् -
भौतिकं जगदिदं यैरणुभिर्विनिर्मितमस्ति तान् यदि वयमस्माकं चक्षुभिद्रष्टुं शक्ताः स्याम तदाऽस्माकं परितो विद्यमानानां पदार्थानां घनता विलीना भवेत्, तत्स्थाने च केवलं निरन्तरं गतिशीलानां रजःकणानां समूह एव प्रत्यक्षो भवेत् ।
अथाऽस्माकमिन्द्रियैर्मनसा चैतादृशः कुण्ठित आभासिको वा बोधः किमर्थं प्राप्यते ? – इति प्रश्नस्य समाधानं विज्ञानिन एवं ददति -
अस्माकं दृश्यतयाऽनुभूयमानं जगदिदं भिन्नभिन्नायामकम्पनादियुतानां विद्युच्चुम्बकीयतरङ्गाणां
* ..... if our eyes could see the atoms that make up the material world the solidity of the objects
around us would disappear and we would see clouds of swarming, energetic particles in their place.
३७
Page #46
--------------------------------------------------------------------------
________________
(electro magnetic radiation) क्रीडाऽस्ति । एतेषां तरङ्गाणामत्यल्पमात्रास्तरङ्गा एवाऽस्मदिन्द्रियग्राह्याः सन्ति । यथा - अस्माकं श्रवणेन्द्रियं हि १६तः आरभ्य ३२,७६८मितकम्पनयुतान् तरङ्गानेव ग्रहीतुं समर्थं, न ततोऽपि परतः । एवमस्माकं चक्षुरिन्द्रियं ०.००००४ सेन्टिमिटतः ०.००००७ सेन्टिमिटर्मितानेव तरङ्गान् प्रत्यक्षीकर्तुं समर्थं, न ततः पूर्वतः परतो वा । एवमेवाऽन्येषामिन्द्रियाणामपि सामर्थ्यं मर्यादितमेव । अस्मदपेक्षया तु पशूनां पक्षिणां च विषयग्रहणसामर्थ्यं विशदतरं भवति । अस्मदिन्द्रियाग्राह्यतरङ्गाणामपि ग्रहणस्य सामर्थ्यं यद्यस्माभिः प्राप्येत (यथा क्ष-किरणानां ग्रहणसामर्थ्य) तदा तु काचन भिन्नैव सृष्टिरस्मत्समक्षं प्रकटीभवेत् । ततश्च फलितमिदं यद् या सृष्टिरस्माकं मनसेन्द्रियैश्चाऽनुभूयते सैव सत्याऽस्ति - इति तु न यथार्थं योग्यं च । यथार्था सृष्टिस्तु काचनऽन्यैव शून्यतापूर्णा या मनसेन्द्रियैश्चाऽवग्रहीतुमशक्या ।
यथा चेयं परितोऽनुभूयमाना सृष्टिः शून्यतापूर्णा तथैव सूर्य-चन्द्र-ग्रह-नक्षत्र-तारकादिभिर्निरन्तरतया व्याप्तं दृश्यमानं नभस्तलमपि तथैव शून्यतापरिपूर्णमस्ति । तच्च कथमिति विलोकयेम तावत् -
पृथिवीं परित एकं परिभ्रमणं क्रियेत चेत् तदन्तरालं २५,०००माइलप्रमितं स्यात् । पृथिवीतश्चन्द्रस्याऽन्तरमेतदन्तरालात् दशगुणितमर्थात् २५०,०००माइलप्रमितं तथा सूर्यस्याऽन्तरं चतुःशतगुणितमस्ति । प्रतिघण्टं ५००माइलवेगेनोड्डयमानं विमानं विंशत्या वषैरेतावद्दूरं गन्तुं शक्नुयात् ।
सूर्यो हि पृथिवीतस्त्रयोदशलक्षगणितप्रमाणयुतः । एवमेवाऽन्येऽपि ग्रह-नक्षत्र-तारकादयः पृथिवीतो लक्षशोऽधिकप्रमाणाः ।
तथा सूर्यः पृथिवीतः सपादनवकोटि-माइलमितान्तरालेऽस्ति । पृथिवीतो नेदिष्ठाऽपि तारका एतदन्तरालात् २,७०,०००गुणितान्तराले स्थिता । दूरस्थितानां तारकाणामन्तरं माइलमानेन कथयितुं दुःशकमतस्तदर्थं विज्ञानिभिः प्रकाशवर्षमानं निश्चितमस्ति । प्रकाशो ोकेन वर्षेण यावद् दूरं गच्छेत् तावदन्तरालं प्रकाशवर्षतयाऽभिधीयते । प्रकाशस्य वेगो हि प्रतिक्षणं १,८६,०००माइलमितोऽस्ति । अनेन वेगेन समागच्छन् सूर्यस्य प्रकाशः पृथिवीं सपादाष्टनिमेषैः प्राप्नोति । तथाऽस्मत्तो नेदिष्ठतारकातः समागच्छन् प्रकाशः पृथिवीं प्राप्तुं सपादानि चत्वारि वर्षाणि गृह्णाति ।
उत्तराकाशे भ्राजमानाया ध्रुवतारायाः प्रकाशः ४०७वर्षेः पृथिवीं प्राप्नोति । ये हि पृथिवीतो दविष्ठा ग्रहादयस्तेषामधिकतममन्तरालं ६६,०००प्रकाशवर्षप्रमितमस्ति । अर्थात्, अद्याऽस्माकं तारकाणां यत् स्वरूपं प्रत्यक्षीभवति तद् वास्तविकतया तु सहस्रशो वर्षेभ्यः पूर्वतनं भवति । कदाचित् त्वेवमपि भवेद् यदद्य यां तारकां वयं प्रत्यक्षीकुर्मस्तस्या नाशः कियतोऽपि कालात् पूर्वमेव जातः स्यात् ।
आकाशतले दृश्यमानानां कोटिशस्तारकाणां सम्मीलनेनैकं ताराविश्वं भवति । एतस्मिन् ताराविश्वे सूर्यसदृशा अर्बुदद्वयमितास्तारकाः सन्ति । प्रत्येकं च ताराः परस्परमर्बुदशो माइलानामन्तराले सन्ति । * The world would appear for different to him if his eyes were sensitive, for example to Xrays.
- Lincoln Barnett, The universe and Dr. Einstien
३८
Page #47
--------------------------------------------------------------------------
________________
ताराविश्वस्य चाऽऽयामो विस्तारश्च प्रकाशवर्षलक्षप्रमितोऽस्ति ।
अथाऽऽश्चर्यजनकं वृत्तं त्वेतद् यत् परस्परं दशलक्षप्रकाशवर्षान्तराले स्थिता लक्षशस्ताराविश्वा अमेयेऽवकाशे विद्यमानाः सन्ति तथाऽपि समग्रस्याऽवकाशस्य ९९.९ प्रतिशतं शून्यमेवाऽस्ति । येऽपि च ग्रह-नक्षत्र-तारकादयः सन्ति तेऽपि तैरेव शून्यतापरिपूर्णैरणु-परमाणुभिरेव निर्मिताः सन्ति । ततश्च समग्रमपीदं ब्रह्माण्डं शून्यतानिचितमेवाऽस्ति ।
___एतस्यां शून्यतायां जगतः शासनं कुर्वत्यां को वा हर्षः शोकः प्रसादो विषादो वा कर्तव्यः ? केवलं समतैव शरणमस्माकमिति शम् ।
(विविधमूलेभ्यः सङ्कलितम्)
Page #48
--------------------------------------------------------------------------
________________
भगवान् जिनसेनाचार्यः
एच्.वि. नागराज राव्
कर्णाटकदेशस्य संस्कृतकविषु अग्रणीः भगवान् जिनसेनाचार्य: प्रज्ञाप्रतिभयोः सङ्गमस्थानमासीत् ।
स कर्णाटदेशस्य राज्ञः अमोघवर्षस्य काले विरराजेति स्पष्टं ज्ञायते पार्श्वाभ्युदयाख्यस्य काव्यस्य पद्येन ।
इति विरचितमेतत् काव्यमावेष्ट्य मेघं बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठतादाशशाङ्कं भुवनमवतु देवस्सर्वदामोघवर्षः ।। इति । गुणभद्राचार्योऽपि विषयमिमं स्पष्टीकरोति
-
यस्य प्रांशुनखांशुजालविसरद्धारान्तराविर्भवत्पादाम्भोजरज:पिशङ्कमुकुटप्रत्यग्ररत्नद्युतिः । संस्मर्ता स्वममोघवर्षनृपतिः पूतोऽहमद्येत्यलं स श्रीमान् जिनसेनभगवत्पादो जगन्मङ्गलम् ॥ इति ।
अमोघवर्ष: कर्णाटभुवं क्रिस्तशकनवमशतमाने शशास (८१७ -८७७) इति इतिहासकाराः कथयन्ति । अतो भगवतो जिनसेनाचार्यस्य कालो ज्ञायते । पुनश्च हरिवंशपुराणस्य कर्ता अपरो जिनसेनः भगवज्जिनसेनाचार्यं स्तौति स्वकृतावित्थम्
जितात्मपरलोकस्य कवीनां चक्रवर्तिनः । वीरसेनगुरोः कीर्तिरकलङ्काऽवभासते ॥ यामिताभ्युदये तस्य जिनेन्द्रगुणसंस्तुतिः । स्वामिनो जिनसेनस्य कीर्ति संकीर्तयत्यसौ ॥
वर्धमानपुराणोद्यदादित्योक्तिगभस्तयः ।
प्रस्फुरन्ति गिरीशान्त: स्फुटस्फटिकभित्तयः ॥ इति ।
हरिवंशपुराणं च क्रिस्तशक - ७८३ तमे वर्षे पूर्तिमगादिति निश्चिप्रचम् । तत्रैव स्पष्टं
४०
-
Page #49
--------------------------------------------------------------------------
________________
शाकेष्वब्दशतेषु सप्तसु दिशं पञ्चोत्तरेषूत्तरां पातीन्द्रायुधनाम्नि कृष्णवृषणे श्रीवल्लभे दक्षिणाम् । पूर्वां श्रीमदवन्तिभूभृति नृपे वत्साधिराजेऽपरां
सौराणामधिमण्डलं जययुते वीरे वराहेऽवति । इति कालस्य निर्दिष्टत्वात् । तस्माद् भगवज्जिनसेनाचार्यः क्रिस्तशकाष्टमे शतमाने प्रादुर्बभूवेति वक्तुं शक्यम् । आस्थानमहाविद्वांसः कीर्तिशेषाः शान्तिराजशास्त्रिणः बहूनि प्रमाणानि परीक्ष्य भगवज्जिनसेनाचार्यस्य जन्म क्रिस्तशक-७५३तमे वर्षे, मृत्युश्च ८३८तमे वर्षे इति निगदन्ति स्म ।
दिगम्बरसम्प्रदायस्य मूलसंघ इति नाम । श्वेताम्बरसम्प्रदाये सिंहसंघः, नन्दिसंघः, सेनासंघः, देवसंघ इति चत्वारो मुनिसंघाः । भगवज्जिनसेनाचार्यः सेनासंघान्तर्भूतः । तस्य गुरुर्वीरसेनो दीक्षागुरुस्तु जयसेनः ।
हरिवंशपुराणस्य कर्ता अपरो जिनसेनः पुन्नटसंघसम्बन्धी । स कीर्तिषेणस्य शिष्यः ।
भगवज्जिनसेनाचार्यस्य कृतयः जयधवला । इयं कषायप्राभृतस्य टीका । अस्याः पूर्वभागो वीरसेनाचार्येण, द्वितीयो भागो भगवज्जिनसेनाचार्येण रचित इति वदन्ति । अस्यां टीकायां चत्वारिंशत्सहस्रसंख्या: श्लोकाः सन्तीति विपश्चितो वदन्ति । पूर्वपुराणम् । अस्याऽऽदिपुराणमित्यपि नामान्तरं प्रसिद्धम् । भगवज्जिनसेनाचार्यः महापुराणनाम्ना त्रिषष्टिशलाकापुरुषचरितं रचयितुं प्रारेभे । तत्समाप्तेः पूर्वमेव स भूलोकं तत्याज । अवशिष्टं भागं
तच्छिष्यः श्रीगुणभद्राचार्यः पूरयामास । ३. पार्वाभ्युदयम् । इदं काव्यं विशिष्टम् । कालिदासस्य मेघदूतमत्र संवलितम् । तत्रत्यमेकं पादं
पादद्वयं वा यथावत् स्वीकृत्य जिनसेनः पार्श्वनाथतीर्थङ्करस्य चरितं रचितवान् । एतादृशमन्यत्
काव्यमस्माभिः न दृष्टम् । भगवतो जिनसेनस्य काव्यवैखरी
यदि सकलकवीन्द्रप्रोक्तसूक्तप्रचारश्रवणसरसचेतास्तत्त्वमेवं सखे ! स्याः । कविवरजिनसेनाचार्यवक्त्रारविन्द
प्रणिगदितपुराणाकर्णनाभ्यर्णकर्णः ।। इति प्राचीनं पद्यं भगवज्जिनसेनाचार्यकाव्यगुणान् अभिव्यञ्जयति । संस्कृतभाषायां तस्य प्रभुत्वं विदुषामपि विस्मयं जनयति । लालित्यं सौष्ठवं गाम्भीर्यं च प्रतिपद्यं विद्योतन्ते । तस्य पाण्डित्यमप्रतिमम् । कथाया
Page #50
--------------------------------------------------------------------------
________________
वक्ता कीदृशो भवेदिति प्रथमे पर्वणि स इत्थं वदति
तस्यास्तु कथकः सूरिः सद्वृत्तः स्थिरधीर्वशी । कल्येन्द्रियः प्रशस्ताङ्गः स्पष्टमृष्टेष्टगीर्गुणः ॥ यः सर्वज्ञमताम्भोधिवार्धौतविमलाशयः । अशेषवाङ्मलापायाद् उज्ज्वला यस्य भारती ॥ श्रीमान् जितसभो वाग्मी प्रगल्भः प्रतिभानवान् । यः सतां सम्मतव्याख्यो वाग्विमर्दभरक्षमः ॥ दयालुर्वत्सलो धीमान् परेङ्गितविशारदः । योऽधीती विश्वविद्यासु स धीरः कथयेत् कथाम् ॥ नानोपाख्यानकुशलो नानाभाषाविशारदः । नानाशास्त्रकलाभिज्ञः स भवेत् कथकाग्रणीः ॥ नाऽङ्गुलीभञ्जनं कुर्यान्न भ्रुवौ नर्तयेद् ब्रुवन् । नाऽधिक्षिपेन्न च हसेन्नाऽत्युच्चैर्न शनैर्वदेत् ।। उच्चैः प्रभाषितव्यं स्यात्सभामध्ये कदाचन । तत्राऽप्यनुद्धतं ब्रूयाद्वचः सभ्यमनाकुलम् ॥ हितं ब्रूयान्मितं ब्रूयाद् ब्रूयाद् धर्म्यं यशस्करम् ।
प्रसङ्गादपि न ब्रूयादधर्म्यमयशस्करम् ॥
इत्यालोच्य कथायुक्तिमयुक्तिपरिहारिणीम् ।
प्रस्तूयाद् य: कथावस्तु स शस्तो वदतां वरः ॥ (I. 126-134)
भगवज्जिनसेनाचार्यस्य व्याकरणपाण्डित्यं श्लोके श्लोके गोचरीभवति । द्वित्राण्युदाहरणानि प्रदर्शयाम: -
तत्र देवसभे देवं स्थितमत्यद्भुतस्थितिम् ।
प्रणनाम मुदाभ्येत्य भरतो भक्तिनिर्भर: ॥ ( I. 152)
सभाशब्दः स्त्रीलिङ्गः । किन्तु “सभा राजामनुष्यपूर्वा" (२-४-२३) इति पाणिनिसूत्रेणाऽत्र समासे तस्य नपुंसकत्वम् । तत्सप्त्म्येकवचनरूपं देवसभे इति ।
मध्येसभमथोत्थाय भरतो रचिताञ्जलिः ।
व्यजिज्ञपदिदं वाक्यं प्रश्रयो मूर्तिमानिव ॥ ( I. 155)
सभाया मध्ये इति मध्येसभम् । “पारेमध्ये षष्ठ्या वा” (२-१-१८) इति पाणिनिसूत्रेणाऽत्राऽव्ययीभावः समासः । व्यजिज्ञपदिति ण्यन्तस्य ज्ञाधातोर्लुङि रूपम् ।
४२
Page #51
--------------------------------------------------------------------------
________________
वलिभं दक्षिणावर्तनाभिमध्यं बभार सा ।
नदीव जलमावर्तसंशोभिसतरङ्गकम् ।। (VI. 67) वलयोऽस्य सन्तीति वलिभम् इति विग्रहः । तुन्दिवलिवेटर्भः (७-२-१३९) इति पाणिनिसूत्रेण भप्रत्ययः ।
वज्रनाभिनपोऽमात्यैः संविधत्ते स्म राजकम् ।
मुनीन्द्रोऽपि तपोयोगैर्गुणग्राममपोषयत् ।। (XI. 52) __राज्ञां समूहो राजकम् । गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद् वुञ् (४.२.३९) इति सूत्रेण समूहार्थे वुञ् । युवोरनाकौ (७.१.१) इति तस्य अकादेशः । एवं च पूर्वपुराणस्य जिनसेनाचार्यविरचितस्याऽध्ययनं व्युत्पत्तिं समीचीनां जनयति इत्यत्र न संशयः । कवित्वं प्रेप्सूनामतितमाम् उपकारकमिदं पुराणमिति अस्माकं द्रढिष्ठो विश्वासः । भगवज्जिनसेनाचार्येण स्मृताः पूर्वकवयः स्वकृतेरादिमे पर्वणि भगवान् जिनसेनाचार्यः पूर्वान् जैनकवीन् स्मरति । यथा -
कवयः सिद्धसेनाद्या वयं च कवयो मताः । मणयः पद्मरागाद्या ननु काचोऽपि मेचकः ॥ यद्वचोदर्पणे कृत्स्नं वाङ्मयं प्रतिबिम्बितम् । तान् कवीन् बहुमन्येऽहं किमन्यैः कविमानिभिः ॥ नमः पुराणकारेभ्यो यद्वक्त्राब्जे सरस्वती । येषामद्धा कवित्वस्य सूत्रपातायितं वचः ।। प्रवादिकवियूथानां केसरी नयकेसरः । सिद्धसेनकविर्जीयाद्विकल्पनखराङ्करः ।। नमः समन्तभद्राय महते कविवेधसे । यद्वचोवज्रपातेन निर्भिन्ना: कुमताद्रयः ॥ कवीनां गमकानां च वादिनां वाग्मिनामपि । यशः समन्तभद्रीयं मूनि चूडामणीयते ॥ श्रीदत्ताय नमस्तस्मै तपः श्रीदीप्तमूर्तये । कण्ठीरवायितं येन प्रवादीभप्रभेदने ।। विदुष्विणीषु संसत्सु यस्य नामाऽपि कीर्तितम् । निखर्वयति तद्गर्वं यशोभद्रः स पातु नः ॥ चन्द्रांशुशुभ्रयशसं प्रभाचन्द्रकविं स्तुवे । कृत्वा चन्द्रोदयं येन शश्वदाह्लादितं जगत् ।।
४३
Page #52
--------------------------------------------------------------------------
________________
चन्द्रोदयकृतस्तस्य यशः केन न शस्यते । यदाकल्पमनाम्लानि सतां शेखरतां गतम् ॥ शीतीभूतं जगद् यस्य वाचाऽऽराध्या चतुष्टयम् । मोक्षमार्ग स पायान्नः शिवकोटिर्मुनीश्वरः ।। काव्यानुशासने यस्य जटाः प्रबलवृत्तयः । अर्थान् स्माऽनुवदन्तीव जटाचार्यः स नोऽवतात् ॥ धर्मसूत्रानुगा हृद्या यस्य वाङ्मणयोऽमलाः । कथालङ्कारतां भेजुः काणभिक्षुर्जयत्यसौ ॥ कवीनां तीर्थकृदेवः किंतरां तत्र वर्ण्यते । विदुषां वाङ्मलध्वंसि तीर्थं यस्य वचोमयम् ।। भट्टाकलङ्क-श्रीपाल-पात्रकेसरिणां गुणाः । विदुषां हृदयारूढा हारायन्तेऽतिनिर्मलाः ॥ कवित्वस्य परा सीमा वाग्मित्वस्य परं पदम् । गमकत्वस्य पर्यन्तो वादिसिंहोऽर्च्यते न कैः ॥ श्रीवीरसेन इत्यात्तभट्टारकपृथुप्रथः । स नः पुनातु पूतात्मा कविवृन्दारको मुनिः ।। लोकवित्त्वं कवित्वं च स्थितं भट्टारके द्वयम् । वाग्मितावाग्मिता यस्य वाचा वाचस्पतेरपि ।। सिद्धान्तोपनिबन्धानां विधातुर्मद्गुरोश्चिरम् । मन्मनःसरसि स्थेयान्मृदुपादकुशेशयम् ॥ धवलां भारतीं तस्य कीर्ति च विधुनिर्मलाम् । धवलीकृतनिःशेषभुवनां नन्नमीम्यहम् ॥ जन्मभूमिस्तपोलक्ष्म्याः श्रुतप्रशमयोनिधिः । जयसेनगुरुः पातु बुधवृन्दाग्रणीः स नः ।। स पूज्य: कविभिलॊके कवीनां परमेश्वरः । वागर्थसंग्रहं कृत्स्नं पुराणं यः समग्रहीत् ।। कवयोऽन्येऽपि सन्त्येव कस्तान् उद्देष्टुमप्यलम् ।
सत्कृते ये जगत्पूज्यास्ते मया मङ्गलार्थिना ॥ इति । एते महाकवयो भगवता स्तुताः सर्वैः संस्कृतज्ञैः सादरं पठनीया: । जैनदर्शने जगतः स्रष्टुः परमात्मनः स्थानं नास्ति । एतद्विषये भगवता जिनसेनाचार्येण स्वविचाराः प्रकटिता ये सर्वेषां मतिमताम् अवधानम् अर्हन्ति ।
४४
Page #53
--------------------------------------------------------------------------
________________
तत्र किञ्चिदुदाहियते -
स्रष्टा सर्गबहिर्भूतः क्वस्थ: सृजति तज्जगत् । निराधारश्च कूटस्थः सृष्ट्वैनत् क्व निवेशयेत् ॥ नैको विश्वात्मकस्याऽस्य जगतो घटने पटुः । वितनोश्च न तन्वादिमूर्तमुत्पत्तुमर्हति ।। कथं च स सजेल्लोकं विनाऽन्यैः करणादिभिः । तानि सृष्ट्वा सृजेल्लोकमिति चेदनवस्थितिः ।। तेषां स्वभावसिद्धत्वे लोकेऽप्येतत्प्रसज्यते । किंच निर्मातृवद्विश्वं स्वतः सिद्धिमवाप्नुयात् ।। सृजेद्विनाऽपि सामग्र्या स्वतन्त्रः प्रभुरिच्छया । इतीच्छामात्रमेवैतत् कः श्रद्दध्यादयुक्तिकम् ॥ कृतार्थस्य विनिर्मित्सा कथमेतस्य युज्यते । अकृतार्थोऽपि न स्रष्टुं विश्वमीष्टे कुलालवत् ।। अमूर्तो निष्क्रियो व्यापी कथमेष जगत्सृजेत् । न सिसृक्षाऽपि तस्याऽस्ति विक्रियारहितात्मनः ॥ तथाऽप्यस्य जगत्सर्गे फलं किमिति मृग्यताम् । निष्ठितार्थस्य धर्मादिपुरुषार्थेष्वनर्थिनः ।। स्वभावतो विनैवाऽर्थान् सृजतोऽनर्थसंगतिः । क्रीडेयं काऽपि चेदस्य दुरन्ता मोहसन्ततिः ।। कर्मापेक्षः शरीरादि देहिनां घटयेद्यदि । नन्वेवमीश्वरो न स्यात् पारतन्त्र्यात् कुविन्दवत् ॥ निमित्तमात्रमिष्टश्चेत् कार्ये कर्मादिहेतुके । सिद्धोपस्थाय्यसौ हन्त पोष्यते किमकारणम् ।। वत्सलः प्राणिनामकः सुजन्नन जिघक्षया । ननु सौख्यमयीं सृष्टिं विदध्यादनुपप्लुताम् ॥ सृष्टिप्रयासवैयर्थ्यं सर्जने जगतः सतः । नाऽत्यन्तमसतः सर्गो युक्तो व्योमारविन्दवत् ।। नोदासीनः सृजेन्मुक्तः संसारी नाऽप्यनीश्वरः ।
सृष्टिवादावतारोऽयं ततश्च न कुतश्चन || (IV. 17-30) इत्यादि । एवं पुराणस्याऽस्य पठनेन दार्शनिकानां प्रमेयाणां ज्ञानमपि लभ्यते । अतः सर्वादरणीयोऽयं ग्रन्थ इति विवक्षामः ।
४५
Page #54
--------------------------------------------------------------------------
________________
पत्रम् मुनिधर्मकीर्तिविजयः
नमो नमः श्रीगुरुनेमिसूरये ॥
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु ।
देव-गुरु-धर्मप्रसादेनाऽस्माकं सर्वेषां देहे आनुकूल्यं वर्तते । पूज्यपादानां गुरुभगवतां श्रीविजयसूर्योदयसूरीश्वराणां जन्मभूमौ तदिच्छानुरूपेण निर्मिते देवमन्दिरस्वरूपे श्रीवासुपूज्यजिनालये विविधजिनप्रतिमाया अञ्जनशलाका-प्रतिष्ठामहोत्सवः सानन्दं सोत्साहं च संपन्नो जातः । ततो विहृत्य चातुर्मासार्थं कर्णावतीनगरे साबरमतीक्षेत्रे आगतवन्तो वयम् ।
बन्धो ! एकोऽनुभवो जातः । तदनुभवाधारेण मनसि यच्चिन्तनं जातं तदद्य लिखामि ।
जनो बहूनि कार्याणि विधायाऽपि कथमपयशः प्राप्नोति ? - इति प्रश्नः सर्वेषां जनानामस्ति । तदा सर्वेऽपि जनाः स्वमत्यनुसारेण कर्मणो दोषं, भाग्यस्य दोषम्, अन्यस्य कस्यचिदपि दोषं वा मनसिकृत्य वर्तन्ते, किन्तु नाऽन्यस्य दोषः, अपि तु स्वस्वभावस्यैव दोषोऽस्ति ।
अद्य समाजे बहवो जना एतादृशा विद्यमानाः सन्ति, ये गृहं व्यापारं शारीरिक-कौटुम्बिकसुखं चोपेक्ष्य सदा समाजकार्यार्थं धावन्ति । कदाचित्तु धनहानिमनुभवन्ति, कदाचिदादिनं कार्यार्थं बहिरेवाऽटन्ति, ततो गृहसदस्यैः सह क्लेशोऽपि जायते । एवं गृहबान्धवानां वात्सल्यं प्रेम च त्यक्त्वाऽपि समाजहितकार्यार्थं पुनः पुनः धावन्ति, तत्राऽप्याश्चर्यं त्वेतदेव यद्, अत्र धनहानिर्भवेत्, किन्तु धनलाभस्तु नास्त्येव, तथाऽपि जनाः कार्यार्थमटाट्यन्ते । एवं यथा गृहस्यैकस्य भूमितले स्थिताया वालुकाया इव ये जनाः समाजस्य कार्यार्थं धावन्ति ते जना अपि कार्यस्याऽवसानसमये स्वभावस्य वैचित्र्यादपयशोऽवाप्नुवन्ति, अवमाननं चाऽनुभवन्ति, एवं स्वकुटुम्बेऽपि अरुचिभाजिनो भवन्ति ।।
चेतन ! तव प्रश्नस्योत्तररूपेण मया केचिद् स्वभावदोषा विचिन्तिताः । यथा - अहङ्कारः - अहङ्कारः कार्यं नाशयति । मनसि अहङ्कारः स्यात्, यदद्यावधि मयैव सर्वं कार्यं कृतं,
४६
Page #55
--------------------------------------------------------------------------
________________
सर्वे जना मामापृच्छ्यैव कार्यं कुर्वन्ति स्म, नाऽहं कमपि पृच्छेयमिति । एतदहङ्कारवशात् सहकारिजनान् स उपेक्षेत, स्वकल्पनयैव सर्वमपि कार्यं कुर्यात् । ततः कार्यमुचितं न स्यात्, तथा कार्यं निष्फलं चाऽपि स्यात् । ततोऽन्तेऽन्ये सर्वे जना एनं जनं त्यक्त्वा सर्वं कार्यं कर्तुं मग्ना भवन्ति । एवं बहुवर्षपर्यन्तं कार्य कुर्वन् सन्नपि समाजेऽपयशः प्राप्नोति सः ।
ईर्ष्या - समाजस्य कस्मिन्नपि कार्ये एकोऽग्रणीः सर्वं कार्यं करोति, एकोऽन्योऽपि कार्यकरः समयानुरूपं कार्यं करोति । अत्राऽन्यकार्यकरस्य शक्तिर्दृष्टिः कर्मकौशलं च युक्तमस्ति, स सर्वमपि कार्य शीघ्रगत्या करोति । ततः सर्वेऽपि जनास्तमन्यकार्यकरमेव प्रशंसेयुः, तमेव च पृच्छेयुः । तदाऽग्रणीकार्यकरस्य चित्तेऽन्यं कार्यकरं प्रतीर्घोत्पद्यते । तदीर्ध्यावशात् सोऽन्यस्य सर्वेष्वपि कार्येषु विघ्नं कुर्यात्, तत्कार्यं च निन्देत् । एवं न स्वयं कार्यं कुर्याद् तथा कार्यकरणे प्रवृत्तस्याऽन्यस्य कार्ये निरन्तरं स्खलनां कुर्यात् । ततः कार्यं निष्फलं स्यात् । सर्वेऽपि जना अग्रणीकार्यकरस्य कारणेनैवैतत्कार्यं निष्फलं जातमिति वदेयुः । एवं समयं व्ययीकृत्य कार्यं च कृत्वाऽपि सोऽग्रणीजन ईष्यावशात् समाजेऽपयशः प्राप्नोति ।
कटुभाषा - सर्वमपि कार्यं कुर्वन् सन्नपि यदि तस्य भाषा तुच्छाऽसभ्या च स्यात्तदाऽपयश एव प्राप्यते । समाजस्याऽग्रणीरस्ति ततः सर्वे जनास्तं सम्मानयन्ति, किन्तु स यदा तदा कमपि जनं तिरस्कुर्यात्, अवमाननं च कुर्यात्, लघौ अपराधेऽपि त्वयि बुद्धिर्न स्यात्तहि गृहे एव तिष्ठ, मूर्खः दुष्टः' -
रत् तदा तस्मादग्रणीजनात् सर्वेऽपि जना दूरमेव तिष्ठेयुः, कदाचित् अवमाननमपि कुर्युः । ततः सर्वे जनाः कार्यं विहायाऽन्यत्र गच्छेयुः, न केऽपि जनाः कार्यकरणे साहाय्यं कुर्युः । अन्ते कार्यकरणे विलम्बः स्याद् उत कार्य निष्फलं स्यात्, ततोऽग्रणीजन: समाजे अपयशः प्राप्नोति।
बन्धो ! सर्वेभ्यो जनेभ्यो मधुरभाषैव रोचते । अद्य न केवलं स्वजनाः, अपि तु कर्मकरा अपि मधुरैर्वचनैराहूयन्ते तदैव प्रसन्नतया कार्यं कुर्वन्ति । एवं सर्वत्र मधुरभाषिण एव पूज्यन्ते आद्रियन्ते च । भोः ! प्रतिदिनं भिक्षार्थं गृहे आगच्छतो भिक्षुकान् तिरस्कुर्यात् तहि तेऽपि द्वितीयदिने न गृहे आगच्छेयुः । प्राणिनोऽपि तत्रैव गच्छन्ति यत्र मधुरवचनैर्जना आह्वयन्ति । एका 'पङ्क्तिः स्मर्यते - पिकः कस्मै अपि न किमपि ददाति, काकः कस्मादपि न किमपि गृहणाति, तथाऽपि मधुरवचनेनैकेनैव पिकः सर्वमपि जगत् स्वायत्तीकरोति ।
___ एवं सामान्यव्यवहारेऽपि मधुरभाषाऽऽवश्यक्यस्ति तर्हि समाजोपयोगिकार्यकरणस्य भाषा तु नितरामावश्यक्यस्ति ।
__ असत्यभाषी - सत्यभाषिणि जने न कोऽपि विश्वासं कुर्यात्, यतः स कदाऽसत्यं ब्रूयात् तन्न निश्चितमस्ति । अकारणेऽपि प्रतिपदं सोऽसत्यं वदेत, किमसत्यभाषणं तस्य जन्मसिद्धोऽधिकारो न १. कौआ किसका लेत है, कोयल किसको देत ।
एक वचनके कारण, जग अपना कर लेत ॥
४७
Page #56
--------------------------------------------------------------------------
________________
स्यादिव? एतव्यसनेन स सहकारिकार्यकरैः सहाऽपि असत्यमेव ब्रूयात्, न कदापि कस्मैचिदपि प्रचलत्कार्यस्य विषये सत्यज्ञानं दद्यात्, ततोऽन्ये सर्वेऽपि जना भ्रमणायामेव प्रवर्तमानाः स्युः । यदाऽवसरे प्राप्ते सति कार्यं संपूर्णं न भवेत् तदा जनास्तस्मिन् विषये शङ्कां कुर्युः । अन्ते जनास्तदग्रण्याः सकाशात् कार्यं गृहीत्वा स्वयं कर्तुं प्रवर्तेरन् । एवमसत्यभाषित्वेन सोऽग्रणीजनोऽपयशः प्राप्नोति ।
बन्धो ! जनः क्रोध-लोभ-भय-हास्यैरसत्यं ब्रूयादिति किं त्वं जानासि किल? यथा – किमप्येकं वस्तु गृहे स्यात् । तद्वस्तु मह्यमतीव रोचते स्म, किन्तु कदाचित् तदेव वस्त्वन्येन गृहीतम् । अतो मम चित्ते तमन्यं प्रति क्रोधो जागृयात्, एतद्क्रोधवशेनाऽहं यथातथं वदेयम् । तदाऽन्यो जनः पृच्छेत् - किमेतद्वस्तु तवाऽस्ति, येनैतादृशमशुभं वदेः ? तदाऽहं क्रोधेन वदेयम् - एतद्वस्तु ममाऽस्ति, इति । एवं क्रोधेन जनोऽसत्यं ब्रूयात् ।
एकं सुन्दरं वस्तु ग्रहीतुं चित्तेऽभीप्सा जाता, तद्वस्त्वेव ग्रहीतुमन्येनाऽपि प्रयत्नः कृतः, तदा तद्वस्तुलोभेन स जनो वदेत् - एतद् वस्तु ममाऽस्ती'ति । एवं लोभेनाऽसत्यं ब्रूयाद् जनः ।
पल्यले ईप्सितं वस्तु पतितमस्ति, अत्र केनाऽपि न दृश्येत, इति विचिन्त्य तद्वस्तु हस्ते गृहीतं तदैव यः कोऽप्यागत्य पृच्छेत् - 'किं करोषि?' 'न, न, अहं न किमपि करोमि, केवलं द्रष्टमेव गृहीतम्', इति प्रत्युत्तरं ददाति जनः । एवं भयेनाऽपि जनोऽसत्यं ब्रूयात् ।
निशि चतुष्पथे युवानः संमीलन्ति, तदा हास्येन कियदसत्यं वदेयुस्ते ?, इति तु सर्वेऽपि जानन्त्येव।
एतैश्चतुभिः कारणैर्जना असत्यं वदेयुः - इति शास्त्रे कथितमस्ति, किन्त्वाश्चर्यं त्वेतद् यद् - केचिज्जना अकारणमेवाऽसत्यं वदेयुः । तेषां स्वभाव एवैतादृशः, एते जनाः सत्यं वदेयुस्तदैवाऽऽश्चर्य ज्ञेयम् ।
एवमसत्यभाषी जनो बहूनि कार्याणि कृत्वाऽपि समाजेऽपयश एव प्राप्नोति ।
प्रसिद्धिमोहः - अद्य प्रसिद्धिमोहो नाम रोगः सर्वानपि जनान् पीडयति । प्रसिद्धिमोहे निमग्ना जनाः कार्यमकार्यं न विदन्ति, केवलं स्वनामार्थमेवाऽटन्ति । तदर्थं माया-अहङ्कार-असत्यभाषण-दम्भइत्यादिकं यत्किमपि करणीयं तत् क्रियेत तैर्जनैः ।।
बहवो जनाः मीलित्वा कार्यमेकं कुर्वन्ति । तत्र कस्यचित् सहकारिकार्यकरस्य दृष्टियुतं कार्य निरीक्ष्य सर्वे जनास्तं प्रशंसेयुः । तस्मिन् काले प्रसिद्धिमोहिजनश्चिन्तयेत् - यत्, सर्वं कार्यं करोम्यहं, मां विना न कोऽपि कार्यं कर्तुं शक्तोऽस्ति, तथाऽपि जना अन्यं प्रशंसेयुः तन्नोचितम्, इति । ततः सोऽन्येन सह संघर्ष क्लेशं च कुर्यात् । अन्ते, कार्ये विलम्बः स्यात्, अथवा कार्यं निष्फलं स्यात् । एवं प्रसिद्धिमोहेन जनोऽपयशः प्राप्नोति ।
निष्ठाभावः - तदैव कार्य सफलं स्यात् यदा तत्तत्कार्यं प्रति निष्ठा स्यात् । कार्यनिष्ठां विना कदाचित्
४८
Page #57
--------------------------------------------------------------------------
________________
कार्यं सफलं स्यात् तथाऽपि कार्यं सुन्दरं नैव भवेत् । जनः कार्यारम्भे उत्साही स्यात्, किन्तु गते काले उत्साहो मन्दीभवेत्, ततः शनैः शनैः कार्यकरणे विलम्बो भवेत् । एवं जनेषु सोऽप्रियो भवति । एकः प्रसङ्गः स्मर्यते -
मगनो नामैको लेपकार (Mason) आसीत् । एकस्य स्थपतेरादेशाद् बहुवर्षपर्यन्तं लेपकर्म कुर्वन्नासीत् । तस्य कार्यं सर्वदा प्रशंसनीयमेव भवेत्, ततः सर्वेऽपि जनास्तमेवाऽऽह्वयेयुः । किन्तु साम्प्रतं तेन वृद्धत्वं प्राप्तं, तथा दीर्घकालादेकस्मादेव कार्यकरणाद नास्ति कार्यकरणे उत्साहः । ततः स निश्चितकार्यकरणेऽपि विलम्बं करोति स्म, उत अनिच्छया तत्कार्यमकरोत्, अतस्तत्कार्यमसुन्दरमेव भवति स्म । तथाऽपि स्थपतिस्तं सादरं सन्मानयति स्म ।
एकदा मगनोऽवोचत् - अहं निवृत्तिमिच्छामि, एतत्कार्यं कर्तुं नेच्छामि ।
स्थपतिनोक्तम् - सत्यम् । निर्वृत्तिं गृहाण, किन्तु प्रथममेकं सुन्दरं गृहं निर्माहि, पश्चात् निवृत्तो भव।
मगनेन तद्वचनं स्वीकृतम् । स्थपतिना निर्दिष्टायां भूमौ गृहनिर्माणकार्य प्रारब्धं तथाऽपि उत्साहं विनाऽनिच्छया कार्यनिष्ठाभावेन च गृहं निर्मितम् । ततो न रचितं गृहं रमणीयं जातम् ।
कार्ये पूर्णे सति स्थपतिस्तदृहं निरीक्षितुमागतवान् । गृहकार्यं दृष्ट्वा स्थपतिरुद्विग्नो जातः । तेन मगनस्य स्कन्धोपरि हस्तं प्रसार्य कथितम् - मित्र ! त्वया बहूनि गृहाणि निर्मितानि, तानि सर्वाण्यपि सर्वश्रेष्ठानि निर्मितानि । ततः समाजे तव प्रतिष्ठाऽपि प्रसृताऽस्ति । ततो निवृत्तिमिच्छुकस्य तवैव कृते 'तव प्रामाणिकताया उपहाररूप'मेतगृहं निर्मापितं मया । किन्तु हन्त ! कार्यनिष्ठाभावेनैतगृहं न सुन्दरं निर्मितं त्वया । इदानीमेतद् गृहमहं तुभ्यमेव समर्पयामि, गृहाण ।
बन्धो ! समस्तजीवने सर्वाण्यपि कार्याणि शोभनानि कृतानि, किन्तु यदा कार्यकरणे निष्ठा न भवेत् तदा प्राप्तं यशोऽप्यपयशोरूपेण परिवर्तितं भवेत् ।।
प्रतिशोधवृत्तिः - वयं सर्वेऽपि प्रतिशोधवृत्तिधारकाः स्मः । एषा वृत्तिः कार्यरोधिकाऽस्ति । एतद्वृत्त्याऽन्वितो जनो न स्वयं कार्यं कुर्यात्, न च तत्कार्यं कुर्वति जने साहाय्यमपि कुर्यात्, केवलं तत्कार्यं यथा निष्फलं स्यात्तथैव प्रयतेत । एवं सति पुनः पुनविघ्ने आगते सति कार्यकरणे विलम्बः स्यात्, तथा सर्वैः सह संघर्षोऽपि जायेत । ततः सर्वेषां मनसि तं प्रतिशोधवृत्तिधारकं प्रति दुर्भावस्तिरस्कारश्चोत्पद्यते । अन्ते समाजे अपयश एव प्राप्यते ।
एषा वृत्तिरतीव भयङ्कराऽस्ति । सा क्रोधं मानं च जनयति । जिनशासनं प्राप्तेन क्षमा मैत्री चाऽऽदरणीया, न च प्रतिशोधवृत्तिः । एषा वृत्तिस्तु धर्मबाधिका गुणनाशिका चाऽस्ति ।
बन्धो ! एतज्ज्ञात्वा शान्तचित्तेन चिन्तयेस्त्वम् । त्वं यौवनेनोल्लसितोऽसि, किमपि नूत्नं कार्य करणीयमिति चित्ते उत्साहोऽपि भवेत्, किन्तु, उपरि वर्णिता दोषाश्चिन्तनीयाः । अन्यथा कार्यं विधायाऽपि त्वमपयशः प्राप्नुयाः, इति निश्चितं ज्ञेयम् । अतस्त्वमपि समाजस्य सानन्दं बहूनि कार्याणि कृत्वा सुयशः प्राप्नुयाः, इत्याशासे ।
४९
Page #58
--------------------------------------------------------------------------
________________
जर्मनभाषायां मूललेखकः
हरमानहेसः
सिद्धार्थः आङ्ग्लभाषायामनुवादकः हिल्डा-रोसनरः
संस्कृतानुवादकः मुनिकल्याणकीर्तिविजयः
भूमिका
कश्चन पाश्चात्यदेशीयो दार्शनिको विद्वान् पौर्वात्यानि दर्शनानि तत्तत्त्वज्ञानमाध्यात्मिकतां चाऽऽत्मसात्कृत्य यदा साहित्यं सृजति तदा कः परिणामो जायेत ?
तत्रैकस्मिन् पार्वे शुद्धा तार्किकता प्रमाणप्रतिबद्धता निष्ठा विश्लेषणमौदार्यं सरलतेत्यादीनि तत्त्वानि द्योतन्तेऽपरत्र च वेद-वेदान्तोपनिषदागम-त्रिपिटकादिषु विविधदर्शनशास्त्रेषु च वर्णितानि तत्त्वानि स्फुरद्रूपं चाऽध्यात्मज्ञानं प्रभासन्ते ।।
जर्मनदेशीयो नोबेलपुरस्कारविजेता महाविद्वान् हरमानहेस एतादृश एव साहित्यकारोऽस्ति । पाश्चात्यं तत्त्वज्ञानं तु तेन सहजतयैवाऽऽत्मसात् कृतम्, सहैव पौर्वात्यं तत्त्वज्ञानमपि तयैव सहजतयाऽऽत्मसात् कृतमस्ति । अध्यात्मबोधोऽपि तस्य सहजविमलो वर्तते । एतच्च कथमिव जातमिति ज्ञातुं पूर्वभूमिकां पश्यामस्तावत् -
ऐसवीये १८७७ तमे संवति जर्मनीदेशे लब्धजन्मनोऽस्य विदुषः पिता जर्मनीय एव धर्मगुरुरासीत् माता च फ्रान्सदेशीयाऽऽसीद् । मातामहश्च धर्मगुरुरेवाऽऽसीत् भारतीयतत्त्वविद्योपासकश्चाऽपि, यतस्तेन भारतदेशे एव खैस्तधर्मगुरुतया वर्षाणि यावत् कार्यं कृतमासीत् । स प्राकृत-पाली-संस्कृत-मलयालमबङ्गादिकास्त्रिंशदधिका भाषा जानाति स्म पौर्वात्यदर्शनानां च विशदमवगाहनं कृतवानासीत् । अथ च, हरमानहेसस्य पित्रा मात्रा चाऽपि भारतदेशे धर्मप्रचारकत्वेन कार्यं कृतमासीत् । एतैः सर्वैः कारणैस्तस्य गृहे पाश्चात्यदर्शनानां ड्रैस्तधर्मशास्त्राणां च यथा, तथैव पौर्वात्यदर्शनानां भारतीयधर्मशास्त्राणां चाऽपि परिशीलनं वरीवति स्म । ततश्चाऽऽबाल्यादेव हरमान-हेसः सर्वैरपि दर्शनैस्तत्त्वज्ञानेन च परिचितो जातः फलतश्च शान्तिप्रियो जातः, आध्यात्मिकता चाऽपि तस्योत्कटा जाता । १८९९तमाद् वर्षात् तस्य साहित्यसर्जनप्रवृत्तिः प्रारब्धा । १९१२तमे वर्षे स जर्मनीदेशं त्यक्त्वा स्विट्झर्लेन्डदेशं गतवान् मरणपर्यन्तं च तत्रैवोषितः । १९४६तमे वर्षे तस्य साहित्यविषयको नोबेलपुरस्कारः प्राप्तः । १९६२तमे वर्षे च स मरणं प्राप्तवान् ।
तस्य साहित्यं विश्वविश्रुतं जातं, विश्वस्य बह्वीषु भाषासु तदनूदितमपि जातम् । तस्य कृते वैश्विका अध्यात्मविदो गौरवं धारयन्ति प्रशंसन्ति च । तस्य गौरवं कुर्वतैकेनाऽध्यात्मविदैवमपि कथितमस्ति यत्
५०
Page #59
--------------------------------------------------------------------------
________________
"अव्ययोऽपि सततं विनाशशीलोऽयं संसारोऽस्ति । तस्य च ग्रन्थिर्येन विमोचिता स यथार्थो वेदविद् अस्ति । सिद्धार्थस्य लेखको हरमान-हेस: अप्येतादृशो वेदविद् आसीत्" । (अश्विन महेता - "छबि भीतरनी" इति पुस्तके)।
तस्य साहित्ये प्राधान्येनाऽयं ध्वनिरभिव्यज्यते - - धर्मो न कदाऽप्यन्येभ्यः शिक्षितुं शक्यः । सोऽन्तःकरणादेव समुदेति स्वानुभूत्यैव च साकारो भवति । - उपदेशाज्ज्ञानं प्राप्येत कदाचित्, न पुनः प्रज्ञा । - सत्यं न कस्यचिदनुयायित्वेन प्राप्येत, तत् तु स्वयमेव शोधयितव्यम् । - शब्दाः पूर्ण सत्यं व्यक्तीकर्तुमसमर्था एव । पूर्णसत्यं त्वनुभूतेविषयः । - जगत्यस्मिन् प्रेम एव श्रेष्ठ: पदार्थः ।। - प्रत्येकं मनुष्यस्यैकमेव कर्तव्यं - स्वीयो मार्गः स्वयमेव शोधयितव्यः ।
तेन १९२३तमे वर्षे लिखितोऽयं सिद्धार्थ इत्याख्य उपन्यासः । अत्र ब्राह्मणपरम्परा, श्रमणपरम्परा, बौद्धपरम्परा, भारतीया जीवनशैली, विशुद्धमध्यात्मतत्त्वं स्वात्मनिष्ठा – इत्यादीनि तत्त्वानि सुतरां द्योतन्ते । अस्य चोपन्यासस्याऽनुवादोऽपि विश्वस्य बह्वीषु भाषासु जातोऽस्ति । १९५३तमे वर्षेऽस्याऽऽङ्ग्लभाषायामनुवादो हिल्डा-रोसनेर-इत्यनेन कृतः । गूर्जरभाषायामपि कथाया एतस्याश्चत्वारोऽनुवादाः सञ्जाताः । ऐदम्प्राथम्येन यदा मयाऽस्य गूर्जरानुवादः पठितस्तदारभ्यैव मे मनस्यस्य संस्कृतभावानुवादं कर्तुमिच्छा जागृता । अतो मयाऽऽङ्ग्लानुवादोऽपि पठितस्तस्यैव च प्रामाणिकत्वात् तमालम्ब्यैव संस्कृतभाषया भावानुवादः कृतोऽस्ति । अस्य च साद्यन्तं संशोधनं पठनं क्षतिसम्मार्जनं च मम पूज्यगुरुभगवद्भिराचार्यश्रीविजयशीलचन्द्रसूरिभिः, पूज्योपाध्यायश्रीभुवनचन्द्रजीमहाराजैः, पूज्यमुनिश्रीकीर्तिचन्द्रजीमहाराजैश्च कृतमस्तीत्ययं मे महतो सौभाग्यस्य विषयः।
पूज्यगुरुभगवतां कृपयैवैतदनुवादकार्यं कुर्वाणोऽहं जीवनस्य बहुविधानमूल्यान् पाठान् शिक्षितवानस्मि सततं च स्फुरदानन्दोत्सानन्तःकरणे समुच्छलतोऽनुभूतवानस्मि । एते एतादृशाश्चाऽन्येऽप्यनुभवा अस्याऽनुवादस्य पाठकेभ्योऽपि भविष्यन्तीति पूर्णश्रद्धावानस्म्यहम् ।
एनमनुवादं पठित्वा संस्कृतज्ञा वैश्विकसाहित्योन्मुखा भवेयुरित्याशासे ।
Page #60
--------------------------------------------------------------------------
________________
प्रथमो विभागः
१. ब्राह्मणस्य पुत्रः
गृहस्य शीतलच्छायायां, नावां पार्श्वस्थे सरित्तटीये सूर्यप्रकाशे, पाण्डुरवनस्याऽञ्जीरवृक्षस्य च च्छायासु सुरूपो ब्राह्मणपुत्रः सिद्धार्थः स्वीयवयस्येन गोविन्देन सह संवर्धितः । पवित्रे सान्ध्यस्नानविधौ शुचौ च हविर्दानविधौ नित्यं नदीतटे स्नानं कुर्वतस्तस्य स्कन्धौ सूर्यातपवशात् ताम्रवर्णौ बभूवतुः । मधुरं गायन्त्यां तन्मातरि, विद्वद्भिश्चर्चयति च तत्पितरि सहकारवाटिकासु क्रीडतस्तस्य दिनानि व्यक्रामन्ति स्म ।
आ बहोः कालात् सिद्धार्थो विद्वज्जनचर्चासु भागं वहति स्म, गोविन्देन सह विविधान् विषयान् विचारयति स्म, तेनैव च सह भावनाया ध्यानस्य चाऽभ्यासमपि करोति स्म । नादब्रह्मण ॐकारस्य श्वासग्रहणेन सहाऽन्तरुच्चारणं स नितरां जानाति स्म । तेनौवोच्चारणेन सह यदा स सर्वात्मना निःश्वसिति स्म तदा तदीयं ललाटं शुद्धेनाऽऽत्मतेजसा देदीप्यते स्म । निजास्तित्वस्याऽन्तस्तले विद्यमानस्य विश्वात्मना चैकत्वं धारयतोऽविनाशिनो निजात्मनोऽनुसन्धानमुज्जागरणं च कर्तुं स सुतरां जानाति स्म ।।
निजपुत्रोऽतीव प्रज्ञावान् जिज्ञासुश्चेति विलोक्य तत्पितुश्चित्तं प्रसन्नमासीत् । स तं – 'प्रकाण्डविद्वत्तया सत्पुरोहिततया ब्राह्मणश्रेष्ठतया च वर्धमानोऽस्त्यय'मिति विलोकयति स्म । तथैवोर्जस्वलस्य सुरूपस्य मृदुगात्रस्य पूर्णविनयेन व्यवहरतश्चतस्य स्फूर्तिमत् चलनोपवेशनोत्थानादिकं निभाल्य तन्मातुहृदयं गर्वेण विकाशं प्राप्नोति स्म ।
अथ चोन्नतभ्रूविशालनेत्रो ललितदेहयष्टिश्च युवा सिद्धार्थो यदा नगरवीथिषु परिभ्राम्यति स्म तदा तं विलोकयन्तीनां ब्राह्मणकन्यानां हृदयानि स्नेहपर्याकुलानि भवन्ति स्म ।
तन्मित्रं गोविन्दस्तस्मिन् सर्वेभ्योऽप्यधिकतया स्निह्यति स्म । सिद्धार्थस्याऽनवद्या गतिर्मतिश्च तथा तस्य प्रत्येकं चेष्टानां सौन्दर्यं तन्मनः प्रीणयति स्म । सिद्धार्थस्य प्रत्येकं कर्म वचनं च तस्य तोषाय जायते स्म । परमेतेषां सर्वेषामप्युपरिष्टात् तस्मै सिद्धार्थस्य पारदर्शिनी प्रज्ञा, सूक्ष्मा उत्कटाश्च विचाराः, दृढं मनोबलं समुच्चश्च व्यवसायोऽतितमां रोचते स्म ।
गोविन्दः सुतरां जानाति स्म यद् – 'नैष: सामान्यो ब्राह्मणोऽलसः पुरोहितो, धनलुब्धो ज्यौतिषिकोऽभिमानी गुणहीनश्चोपदेशको धूर्तो दुर्वृत्तश्चाऽर्चको वा भविता, अथवा विशाले मेषयूथे स एक: सुमूों मेषोऽपि च नैव भविष्यति' । किञ्च गोविन्दः स्वयमपि तादृशो भवितुं नैवाऽभिलषति स्म नाऽपि च तादृशानां स्वजातीयानां सहस्रशो ब्राह्मणानामन्यतमो भवितुमिच्छति स्म ।
स स्ववल्लभं तेजस्विनं च सिद्धार्थमेवाऽनुसिसीर्षति स्म । तथा यदि परं कदाचित् सिद्धार्थो
Page #61
--------------------------------------------------------------------------
________________
भगवद्भावं प्राप्नुयात् तेजोलोकं वा प्रविशत् तदा गोविन्दोऽपि तन्मित्रतया, तत्सहयायितया, तत्सेवकतया, तदङ्गरक्षकतया, तद्ध्वजधारितया, तत्प्रतिच्छायतया वा तमनुसर्तुमिच्छति स्म ।
एवं च सर्वेऽपि सिद्धार्थे स्निह्यन्ति स्म, सोऽपि च सस्मितं सानन्दं च सर्वान् प्रीणयति स्म ।
अथ चैवं स्थितेऽपि सिद्धार्थः स्वयं सुखी नाऽऽसीत् । पाटलवर्णेषु अञ्जीरोद्योनेषु भ्राम्यन्, उपवनस्याऽऽनीलच्छायायामुपविश्य ध्यायन्, प्रत्यहं पवित्रस्नानेन स्वाङ्गानि क्षालयन्, गहनेषु सहकारवनेषु विधिना पूर्णश्रद्धया यागं कुर्वाणः स सर्वेषामप्यभीष्टो वल्लभः सुखकारी चाऽऽसीत्, तथाऽपि तस्य हृदयमानन्दरहितमासीत् ।
नद्याः प्रवाहात्, तारकाणां स्फुरणात्, सूर्यस्य च द्रवीभूतेभ्यः किरणेभ्यः सकाशात् स्वप्ना अविश्रान्ताश्च विचारा तन्मनस्यागच्छन्ति स्म । यज्ञानां धूमस्तोमात्, वेदस्य ऋचामुच्चारात्, वृद्धब्राह्मणानामुपदेशाच्च तदन्तःकरणं व्याकुलं भवति स्म । असन्तोषस्य बीजानि सततमेतैरेतादृशैश्चाऽन्यैनिमित्तैस्तस्य हृदये उप्यन्ते इतीव सोऽनुभवति स्म । माता-पित्रोर्गोविन्दस्य च पूर्णस्नेहोऽपि तं सर्वथा सुखिनं शान्तं सन्तुष्टं तृप्तं च कर्तुं नैव समर्थ इति तस्य प्रतिभाति स्म ।
'तत्पूज्यपित्राऽन्यैश्च विद्वद्भिाह्मणैनिजं सर्वमपि ज्ञानं सर्वमपि च पाण्डित्यं तस्य प्रतीक्षारते मस्तिष्कभाजने प्रवाहितमासीत्, तथाऽप्यद्याऽपि तद्भाजनमपूर्णमेवाऽस्ति, प्रज्ञाऽसन्तुष्टैवाऽस्ति, स्वात्माऽशान्त एवाऽस्ति तथा हृदयं ह्यस्थिरमेवाऽस्ती'ति तच्चित्ते वारं वारमाशङ्का भवति स्म ।
'यद्यपि स्नानानि शुभान्यासन् तथाऽपि तान्यङ्गान्येव क्षालयितुमलं न तु पापानि, नाऽपि च व्यथितं हृदयं शमयितुम् । यज्ञ-बलिदानादयो देवानां पूजा-प्रार्थनाद्याश्च श्रेष्ठा एवाऽऽसन् परन्तु किमेत एव सर्वस्वमासीत्, किं तैः सत्यं सुखमानन्दश्च प्राप्तुं शक्यो वा ?'
'देवानामपि का वार्ता ? किं ब्रह्मैव जगदिदं सृष्टवान् वा? किंस कश्चनैक आत्मैवाऽथवा सर्वात्मा नाऽस्ति खलु ? किमेते देवा अस्मादृशा एव मरणधर्माणोऽशाश्वताश्च न सन्ति वा? तथा च कथमेतेभ्यो देवेभ्यो हविर्दानं तेषां पूजा चोचिते विवेकयते वा ? नन्वात्मानमृतेऽन्यस्य कस्य वा पूजाऽऽदरश्च कर्तव्यतयोचितावास्ताम् ?'
तथा सोऽप्यात्मा कुत्राऽन्वेष्टव्यः? स कुत्र वा वसति स्म? कुत्र वा तस्य शाश्वतं स्पन्दनं भवति स्म - ऋते प्रत्येकं मनुष्यस्याऽऽन्तरतमं स्वम् ?'
'परन्त्विदमप्यान्तरतमं स्वं कुत्र विद्यते? किं वाऽस्ति तत् ? तन्नहि केवलं मांसमस्थि वा, नाऽपि च विचार: संवेदनं वा । एतदेव ननु पण्डितैरुपदिष्टमासीत् । परन्तु तर्हि स कुत्र विद्यमान आस्ते? तं ज्ञातुं शोधयितुं वाऽन्यः को वा पन्था स्यात् ? न कश्चिदपि तं दर्शितवान् ज्ञातवान् वा ..... न तस्य पिता, न ब्राह्मणाः, नैव च पवित्रा मन्त्राः स्तोत्राणि वा' ।
'ब्राह्मणाः सर्वमपि जानन्ति, तेषां शास्त्रेषु च सर्वमपि ज्ञापितमस्ति । आम, सर्वमपि लिखितमस्ति
५३
Page #62
--------------------------------------------------------------------------
________________
तत्र । तेषां गतिः सर्वत्राऽप्रतिहताऽऽसीत् - जगतः सृष्टिः, वाच उत्पत्तिः, अन्नं, श्वासोच्छ्वासाः, इन्द्रियाणां समारचनं, देवानां कार्याणीत्यादिषु सर्वत्र । तैर्हि सङ्ख्यातीतानि वस्तूनि ज्ञातानि । एवं सत्यपि यदि तैरेकमेव परमं वस्तु नैव ज्ञातं तर्हि सर्वेषामप्येतेषां वस्तूनां ज्ञानस्य किं वा मूल्यं स्यात् ?'
'वेदानां बहूनि सूक्तानि विशेषतश्च सामवेदस्योपनिषद इदमान्तरतमं तत्त्वमेव वर्णयन्ति स्म । "आत्मैव जगदिदं सर्वम्" इति तत्र वर्णितमस्ति । "मनुष्यः सुषुप्तावन्तःकरणं प्रविश्याऽऽत्मन्येव निवसति' इत्यपि तत्र कथितमस्ति । एतानि सूक्तानि ह्यद्भुतया विद्यया पूर्णान्यासन् । मधुमक्षिकाभिः शुद्धं मधु इव ऋषिभिः सर्वमपि विज्ञानं मधुरया भाषया तत्रैव सगृहीतमासीत्' ।
'नैव नैव नैव, विदुषां ब्राह्मणानां सुज्ञया परम्परया सङ्ग्रहीतं संरक्षितं चेदमप्रमेयं ज्ञानं नैवाऽस्त्युपेक्षाहम् । किन्तु क्व सन्ति ते ब्राह्मणाः पुरोहिता विपश्चितश्च यैरिदं परमज्ञानं न केवलं सफलतया प्राप्तमेव अपि त्वनुभूतमपि? क्व वा ते विद्यावन्तः कृतसंस्कारा वा सन्ति ये सुषुप्तावात्मानमुपलभ्य जागृतावपि तं धारयितुं समर्थाः ? आजीवनं, मनसो वाचः कायस्य कर्मकालेऽपि !
सिद्धार्थो बहून् गुणवतो ब्राह्मणान् जानाति स्म । सर्वेषामप्युपरिष्टात् तु तत्र पवित्र आदरणीयो बहुश्रुतो विद्वान् तस्य पितैवाऽऽसीत् । तद्व्यक्तित्वमनुपमं चरितं च शान्तमुदात्तं चाऽऽसीत् । तस्य जीवनं निर्दोषमासीत् । तस्य वाणी वैदग्ध्यपूर्णाऽऽसीत्, उत्तमाः सुन्दराश्च विचारास्तन्मस्तिष्कमधिष्ठितवन्तः । 'किन्तु तादृशः प्रज्ञावानपि स किं सानन्दं जीवति स्म वा ? तदन्तःकरणे शमानुभूतिर्भवति स्म वा ? किं सोऽपि तत्त्वान्वेषको नाऽऽसीत् ? किं तस्याऽप्यतृप्ति व पीडयति स्म वा ?' _ 'कयाचिदतृप्ततृष्णयैव किं सोऽपि पवित्रतीर्थस्थानानि वारं वारं न पर्यटति स्म? यागान् नाऽऽचरति स्म? शास्त्राणि न परिशीलयति स्म वा ? ब्राह्मणानां च परिसंवादेषु भागं न वहति स्म? किमर्थम्? किमर्थं ननु तादृशेन निष्पापवृत्तेनाऽपि तत्पित्रा प्रत्यहं स्वीयपापानि क्षालयितुं स्वं च स्वच्छयितुं प्रयतितव्यम् ? तत् किं तदभ्यन्तरे आत्मा नाऽऽसीद वा? अथवा किं स आत्मानं नैव जानाति स्म वा? किं तस्य हृदये निरालम्बसुखस्य स्रोतो नाऽऽसीद् वा ? वस्तुतः स्वेन स्वात्मन्येव तत् स्रोतोऽन्वेष्टव्यं प्राप्तव्यं च । ततोऽन्यद्धि सर्वमप्यस्ति भ्रमणं व्यामोहश्च' ।
एते एतादृशाश्चाऽन्ये विचाराः बहुशः सिद्धार्थस्य चित्ते उद्भवन्ति स्म ये तच्चित्ते काञ्चनाऽतोषणीयां तषं गभीरं च विषादं जनयन्ति स्म ।
नैकशः स छान्दोग्योपनिषदो वचनमेतदावर्त्तयति स्म मनसि -
"स वा एष आत्मा । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति । अहरहर्वा एवंचित् स्वर्गलोकमेति' ।
एवं चाऽऽवर्तयतस्तस्य बहुशः स 'स्वर्गलोकः' निकटतमः प्रतिभाति स्म, किन्तु न स कदापि तं प्राप्तवान्, न च कदाऽपि तस्य तीव्रा तृट् शान्ताऽभवत् । किञ्च यानपि महाविदुषः स जानाति स्म येषां
Page #63
--------------------------------------------------------------------------
________________
चोपदेशं श्रुत्वा प्रसन्नो भवति स्म, तेषामेकतमोऽपि तं स्वर्गलोकं न पूर्णतया प्राप्तवान् कदाचित्, नाऽपि च तदीया तृट् शान्ता जाता किल । ___ अथाऽन्यदा यथापूर्वं सिद्धार्थो गोविन्दमाहूतवान् – “गोविन्द ! मया सह वटवृक्षसमीपमागच्छतु, आवां तत्र ध्यानाभ्यासं करिष्यावः" ।
तौ गतौ । वटवृक्षस्य चाऽधस्तात् परस्परं किञ्चिद् दूरमुपविष्टौ । तत ओङ्कारस्योच्चारणात् पूर्वं सिद्धार्थो मृदुस्वरेण श्लोकमेनमुदितवान् -
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ।। ततो द्वावपि ध्यानमग्नौ बभूवतुः । यदा च ध्यानस्य निश्चितः कालः पूर्णोऽभवत् तदा गोविन्दः स्वासनादुत्थितः । सन्ध्याकालः सन्निहित आसीदतः सान्ध्यविधिमाचरितुं समयोऽयमिति विचिन्त्य तेन सिद्धार्थ आहूतः । किन्तु स नैवोदतरत् । स हि ध्याने गाढं लीन आसीत् । तदक्षिणी दूरतमं किञ्चन लक्ष्यं पश्यतीव स्थिरे आस्ताम् । जिह्वाग्रं च दन्तयोर्मध्ये मनाग् दृश्यते स्म, श्वासोच्छ्वासौ चाऽत्यन्तं सूक्ष्मीभूतौ । एवं च स ओङ्कारस्य ध्याने सर्वथा मग्न आसीत्, तस्य चाऽऽत्मा शर इव ब्रह्म प्रति प्रेषित इव प्रतिभाति स्म । इत्थं च तत्प्रवृत्तयो बहुतरामन्तर्मुखा अभवन् ।
अथैकदा केचन श्रमणाः सिद्धार्थस्य नगरे विहरन्तः समागता आसन् । ते हि त्रयः पर्यटकास्तापसा आसन् - अतीव कृशदेहा: क्लान्ता मध्यमवयसश्च । तेषां स्कन्धौ मलमलिनौ रक्तक्लिन्नौ चाऽऽस्तां, शरीरं च नग्नप्रायं सूर्यातपेन च दग्धमिवाऽऽताम्रवर्णमासीत् । ते एकाकिनो विलक्षणा जगद्विमुखाश्च सन्तो मनुजसमाजेऽवसन्नाः शृगाला इव प्रत्यभासन्त । तेषां परित उपशान्तभावस्योच्छिन्नदेहोपचारस्य निर्दयात्मसंयमस्य चाऽऽभा विलसमानाऽऽसीत् ।
तस्मिन् सायङ्काले ध्यानं समाप्य सिद्धार्थो गोविन्दमकथयत् - "वयस्य ! श्वः प्रातः सिद्धार्थः श्रमणैः सह गमिष्यति । स श्रमणो भविष्यति" ।
सिद्धार्थस्य कृतनिश्चयं वदनं दृष्ट्वा, धनुषः शर इव तन्मुखान्निर्गतांस्ततश्चाऽप्रतिनिवर्तमानान् शब्दांश्चैतान् श्रुत्वा गोविन्दः स्तब्धो जातः । मित्रस्य मुखं विलोक्यैव स ज्ञातवान् यद् – “अयमारम्भो जातोऽस्ति । सिद्धार्थः स्वनिश्चिते मार्ग एव गन्तुमुत्कोऽस्ति । तस्य भावि स्वयमेवोद्घटमानमासीत्, तेन च सह गोविन्दस्य स्वीया नियतिरपि" । तन्मुखं शुष्ककदलीफलत्वच इव विवर्णं जातम् । स उच्चैः पृष्टवान् – “किन्तु सिद्धार्थ ! भवत: पिताऽत्राऽर्थेऽनुमंस्यते वा ?"
सहसा प्रतिबुद्ध इव सिद्धार्थस्तत्समक्षं विलोकितवान् । विद्युद्वेगेन तेन तत्र गोविन्दस्य चित्तं, तच्चिन्ता, निजेच्छानुवर्तनप्रगुणता च पठिता । स मृदुतयोक्तवान् – “गोविन्द ! आवां वृथैव शब्दानां व्ययं न करिष्यावः । अयं हि मे निर्णयोऽस्ति यत्, श्वस्तने प्रभातेऽहं श्रमणजीवनं प्रारप्स्ये । इतः परमस्य चर्चा
Page #64
--------------------------------------------------------------------------
________________
माऽस्तु" ।
गृहं प्राप्य सिद्धार्थस्तत्राऽपवरके गतो यत्र तत्पिता दर्भासने उपविष्ट आसीत् । सः स्वपितुः पृष्ठभागे तावत्कालं स्थितो यावत् तत्पिता तदुपस्थितिमलक्षयत्, "अरे ! सिद्धार्थ ! त्वमसि वा ? किमर्थमत्र स्थितोऽसि ? किमपि कथनीयं वर्तते वा ? वद तावत्" इति च पृष्टवान् ।
सिद्धार्थः कथितवान् – “तात ! अहं कथयितुमागतोऽस्मि यत् श्वः प्रभातेऽहं भवदाज्ञया गृहं त्यक्त्वा श्रमणतापसैः सम्मीलितुं श्रामण्यं चाऽङ्गीकर्तुमभिलषामि । अत्र चाऽर्थे भवतो न काऽप्यापत्तिः स्यादिति मम श्रद्धाऽस्ति" ।
एतच्छत्वा चिरकालं यावत् ब्राह्मणो मौनमाश्रितवान् । यदा तस्मिन्नपवरके शान्तेर्भङ्गो जातस्तदा तत्र स्थिते लघुवातायने दृश्यमानं नभो बयस्तारका अतिक्रान्ता आसन्, गतिरपि च तासां परावृत्ताऽऽसीत् । किन्तु पुत्रस्तत्रैव किल हस्तौ बद्ध्वा शान्तः स्थिरश्च स्थितवानासीत्, पिताऽपि च तथैव निजे कुशासने उपविष्ट आसीत् । ततश्च पिता तं कथितवान् – “निष्ठुरं कोपाकुलं वा वचनं ब्राह्मणानां कृतेऽनुचितमस्ति । किन्तु मम हृदयेऽसन्तोषो वर्तते । इतः परमहमिमां विज्ञप्तिं श्रोतुं सिद्धो नाऽस्मि" ।
शनैः स आसनादुत्थितवान् । परन्तु सिद्धार्थस्तत्रैव तस्यामेव च मुद्रायां मौनं स्थितवानासीत् । एतद् दृष्ट्वा पिता पृष्टवान् – “इदानीमपि किं वा प्रतीक्षसे ?" "तत् तु भवान् जानात्येव" - सिद्धार्थ उदतरत् ।
श्रुत्वैतदप्रसन्नीभूतस्तत्पिता ततो निर्गतः, स्वशय्यायां च सुप्तवान् । किन्तु तन्नयनयोनिद्रा नाऽऽयाति स्म । प्रायशो मुहूर्तानन्तरं स पुनरुत्थितवान्, इतस्ततः सञ्चर्य ततो गृहान बहिरागतवांश्च । लघोर्वातायनात् तेन दृष्टं यत् - इतोऽपि सिद्धार्थस्तत्रैवाऽपवरके तस्यामेव मुद्रायां निश्चलतया स्थितोऽस्तीति । तस्य मलिनं नेपथ्यं चन्द्रप्रभायां प्रभासमानमासीत् । एतद् दृष्ट्वा खिन्नहृदयस्तत्पिता स्वीयशय्यां प्रतिनिवृत्तः ।
मुहूर्तान्तरं पुनरपि विगतनिद्रोऽसौ पुनरप्यागतस्तत्र, तं च तथैव दृष्ट्वा दुःखितः सन् प्रतिनिवृत्तः । एवं प्रतिमुहूर्तं स आगच्छति स्म, सिद्धार्थं च तथैव चन्द्रज्योत्स्नायां, तारकद्युतौ तमसि वा स्थितं विलोकयति स्म । एतेन तस्य हृदयं समकालमेव रुषा, चिन्तया, शुचा, भयेन च पूरितम् ।
___ अथ रात्रेरन्तिमे यामे प्रत्यूषात् पूर्वं स पुनरप्यागतस्तत्र, सिद्धार्थं च तथैव स्थितं दृष्टवान् । उन्नतोऽयं युवा तस्याऽपरिचित इव प्रतिभाति स्म ।
"सिद्धार्थ !" - सोऽवदत, "किमर्थं त्वमत्र स्थितोऽसि ?" "भवान् जानात्येव पितः !" । "किं त्वमेवमेव समग्रं दिनमारात्रि च स्थास्यसि वा ?" "आम्, अहं स्थास्यामि प्रतीक्षां च करिष्ये" ।
Page #65
--------------------------------------------------------------------------
________________
"त्वं श्रान्तो भविष्यसि सिद्धार्थ !" "भवतु पितः !" "निद्रा त्वां बाधिष्यते" । "मैवं पितः ! निद्रा मां नैव बाधिष्यते" । "त्वं मरिष्यसि भोः !" "नाऽहं बिभेमि मरणात् पितः !" "पित्राज्ञापालनादपि मरणं तेऽधिकं रोचते वा ?" "सिद्धार्थेन पितुराज्ञा न कदाऽपि लोपिता" । "तहि त्वं स्वनिर्णीतं त्यक्ष्यसि वा ?" "पिता यत् कथयिष्यति तदेव सिद्धार्थः करिष्यति' ।
तावतोषसः प्रत्यग्रप्रभया सोऽपवरक: प्रकाशितो जातः । ब्राह्मणेन दृष्टं यत् पुत्रस्य पादौ मनाक् कम्पेते स्म किन्तु तन्मुखं निष्प्रकम्पमासीत् नेत्रे च सुदूरं निरीक्षेते स्म ।
_ 'सिद्धार्थो मया सहाऽत्र गृहे चिराय नैव स्थाता' इति तन्मनसि प्रतिभातं, 'ननु तेन गृहमिदं त्यक्तमेवाऽस्ति' । अतस्तेन सिद्धार्थस्कन्धोपरि हस्तं निधाय मृदुतयोक्तं - "वत्स! त्वं सुखेन वनं गच्छ, श्रामण्यं चाऽङ्गीकुर्याः । यदि त्वया तत्र शान्तिः प्राप्येत तदाऽत्राऽऽगत्य ममाऽपि तत्प्राप्तिप्रक्रियां शिक्षयेः । यदि च त्वं तत्र निराशो भवेस्तदाऽपि प्रतिनिवर्तस्व, आवां पुनरपि यज्ञं समारचयिष्यावः । गच्छेदानीं स्वमातृपार्वे, निवेदय च तस्यै स्वीयं निर्णयम् । ततस्तां प्रणम्य तदाशिषा स्वकार्यं साधय । मम त्वधुना प्रातर्विध्यर्थं नदीगमनस्य समयो जातोऽस्ति" ।
___ ततः स स्वहस्तमुत्थाप्य यावद् बहिर्गन्तुमारब्धस्तावता सिद्धार्थेन स्वस्थानाच्चलितुं प्रयतितम् । यद्यपि स मनाक् कम्पितोऽभवत्, तथाऽपि स्वयमेव स्वं संयम्य पितरं प्रणतवान् मातुश्च पावें गत्वा पित्रादेशानुसारं सर्वमपि निवेदितवान् ।
ततो जडीभूताभ्यामिव पादाभ्यां स प्रत्यूषे इतोऽपि निद्रितं नगरं परित्यज्य यावन्निःसृतस्तावदेव नम्रीभूतैका छायाऽन्तिमादटजाद बहिरागत्य तेन सह मीलिता । स गोविन्द आसीत् ।
सिद्धार्थः सस्मितं तमभ्यवादयत् – “तर्हि भवानप्यागतो ननु ?" "आम्, अहमागतोऽस्मि", स उदतरत् ।।
Page #66
--------------------------------------------------------------------------
________________
२. श्रमणैः सह तस्मिन् सायङ्काल एव सिद्धार्थो गोविन्दश्च श्रमणैः सह मीलितौ । ततस्तौ श्रमणेभ्यस्तैः सह वासार्थं दीक्षादानार्थं च विज्ञप्तिं कृतवन्तौ । श्रमणा अपि सहर्षं तयोविज्ञप्तिं स्वीकृतवन्तः ।
सिद्धार्थेन स्वीयवस्त्राणि कस्मैचिद् दुर्गतब्राह्मणाय प्रदत्तानि, स्वयं च केवलं कटिवस्त्रमस्यूतं गैरिकवर्णं च प्रावारमधारयत् । प्रत्यहमेकवारमेव भुङ्क्ते स्म सः, न पुनः कदाऽप्यग्निपक्वं भुङ्क्ते स्म । कदाचित् स पक्षं यावदुपवासान् कदाचिच्च मासोपवासमपि करोति स्म । तस्य देहान्मेदो-मांसादिकं व्यलीयत । तस्य कृशास्वङ्गलिषु नखा दीर्घत्वमभजन् चिबुके च शुष्कं रूक्षं च श्मश्रु आविर्भूतम् । विलक्षणाः स्वप्नास्तस्य विस्फारितनेत्रपटले प्रतिफलन्ति स्म । स्त्रीणां दर्शनेन तस्य दृष्टिहिमशीतला भवति स्म । नगरवीथ्यां च पर्यटत उत्तमनेपथ्यान् जनान् दृष्ट्वा तस्य मुखमोष्ठौ चाऽवधीरणया वक्रीभवन्ति स्म ।
स बहून् जनान् पश्यति स्म – वाणिज्यरतान् वणिजः, मृगयासक्तान् राज्ञः, मृतमनुशोचतस्तत्स्वजनान्, देहविक्रयं कुर्वतीर्वेश्याः, रुग्णानुपचरतो वैद्यान्, वपनादिमुहूर्तानि निर्णयतो मौहूर्तिकान्, परस्परं स्निह्यतः प्रेमिणः, स्वापत्यानि लालयन्तीर्जननीश्चेत्यादीन् – किन्तु चिन्तयति स्म यदेकतमोऽप्येतेषां दृष्टिपातमपि नाऽर्हति, यतः सर्वमप्येतद् दुर्गन्ध्येवाऽस्ति, उच्छलदसत्यस्य गन्धेन भृतम् । सर्वत्रैन्द्रियिकविषयाणां तुच्छसुखानां विनश्वरसौन्दर्यस्य चेन्द्रजालमेव प्रसृमरमास्ते । सर्वेऽपि सुनिश्चितं विनाशं प्रत्येव धावन्तः सन्ति । विश्वमेतत् कटुकं जीवनं च दुःखमेवाऽऽस्ते ।
सिद्धार्थस्यैयकमेव ध्येयमासीत् – 'शून्यत्वप्राप्तिः' - तृष्णायाः शून्यत्वम्, इच्छायाः शून्यत्वं, स्वप्नानां शून्यत्वं, राग-द्वेषयोर्हर्ष-शोकयोश्च शून्यत्वं, प्रान्ते चाऽहङ्कारस्य लयः । ततश्च शून्ये हृदये समुद्भूतायाः परमशान्तेरनुभवनं शुद्धतमान्तःकरणधारायाश्चाऽनुभवनं तस्य परमं लक्ष्यमासीत् । यदा ह्यात्मा सम्पूर्णतया जितो भवेत्, अहङ्कारः समूलनाशं नश्येत्, सर्वेऽपि कामास्तर्षाश्चोपशान्ता भवेयुस्तदैवाऽन्तिमोऽन्तरतमोऽन्तरात्मा – यो हि जीवनस्याऽद्यावध्यप्रकटं सर्वोच्चं च सत्यमासीत् स - उद्घटितो भवेत् । एतदेव मनसिकृत्य स श्रामण्यमङ्गीकृतवानासीत् ।
सिद्धार्थो निःशब्दतया प्रचण्डे सूर्यातपे पीडां तृषं च सहमानो तिष्ठति स्म - तावत् तिष्ठति स्म यावत् तस्य पीडा-तृषोरनुभूतिरेवोपशम्येत । एवमेव स वर्षति धाराबद्धं धाराधरे तिष्ठति स्म । तस्य गलदबिन्दवाईमस्तकाज्जलं स्तब्धयोस्तदंसयोस्तदोस्तत्पादयोश्च पतत् तदङ्गानि जडीकरोति स्म । किन्तु स तत्र तावत् तिष्ठति स्म यावत् तदङ्गानि निष्प्रकम्पाणि स्थिराणि च न भवन्ति ।
तथैव स कण्टकेष्वपि शान्ततया निविशति स्म । तस्य त्वचि कण्टकवेधनेन तीव्रवेदना भवति स्म, ततो रक्तं परिस्रवति स्म, व्रणानि च भवन्ति स्म । किन्तु यावद् रक्तस्रावः स्वयमेव नोपरमति, कण्टकवेधनं नोपशाम्यति शल्यानां वेदना च न निवर्तते तावत् तत्रैव कण्टकेषु स निष्प्रकम्पतया दृढतया चाऽधितिष्ठति स्म ।
Page #67
--------------------------------------------------------------------------
________________
एवंरीत्या शरीरं साधयित्वा स आसनसिद्धिमपि कृतवान् । ततः स प्राणायामं प्राणधारणं प्राणस्थिरीकरणं च शिक्षितवान् । तेन सहैव स हृदयस्पन्दनान्यल्पीकर्तुं निरोद्धं चाऽपि शिक्षितवान् । स तानि स्पन्दनानि तथाऽल्पयति स्म यथा तानि विरलतयैव श्रोतं शक्येरन् ।
अथ च श्रमणवृद्धान्मार्गदर्शनं प्राप्य श्रमणतन्त्रानुसारं मनोनिग्रहमात्मसंयम ध्यानं चाऽप्यभ्यसितवान् । स परकायप्रवेशमपि साधितवान् । अन्यदैको बको वंशपादपे उड्डीयाऽऽगतः । तं दृष्ट्वा सिद्धार्थस्तच्छरीरे स्वात्मानं प्रवेशितवान् । तेनैव शरीरेण स वनेषु पर्वतेषु चोड्डीनवान्, बकवत् तटाकतीरेषूपतिष्ठन् मत्स्यान् खादितवान्, कदाचित् बकक्षुधं सोढवान्, तद्भाषया भाषितवान् तन्मरणेन च मृतोऽपि ।
अथाऽन्यदा मृतमेकं शृगालं नदीतटे पतितं दृष्ट्वा तत्राऽपि स प्रविष्टवान् । ततो मृतशृगालो भूत्वा तट एव निपतितवान्, शोथं प्राप्तवान्, कुथितवान्, गलितवान्, तरक्षुभिश्च तस्याऽङ्गानि विघटितानि गृद्धैश्च भक्षितानि, प्रान्ते सोऽस्थिपञ्जरं भूत्वा ततश्च चूर्णीभूय वातावरणे सम्मिश्रणं प्राप्तवान् । एवं च सिद्धार्थस्याऽऽत्मा मरणं शटनं गलनं भस्मीभवनं चाऽनुभूय जीवनचक्रस्य दुःखपूर्णं परिभ्रमणमपि चाऽनुभूय स्वदेहे प्रतिनिवृत्तः ।
सिद्धार्थः, यत्र भवभ्रमणं समाप्तं भवति, यत्र कार्यकारणभावः शून्यतां प्राप्नोति यत्र च दुःखविहीना शाश्वतता प्रारभ्यते तादृशे बिन्दावागत्य, मृगयार्थमागतो व्याध इव दर्यां, नवतृष्णया प्रतीक्षारतः स्थितवान् ।
स स्वीयमिन्द्रियगणं दमितवान्, स्मृति विनाशितवान्, शरीरं परित्यज्य च सहस्रशो विविधान् रूपान् धृतवान् । स पशूभूय, कुणपीभूय, अश्मीभूय, काष्ठीभूय, वारीभूय चाऽपि पुनरुज्जागरणं प्राप्तवान् । प्रत्येकं सूर्योदये चन्द्रोदये च स पुनः स्वत्वं प्राप्तवान्, पुनरपि भवचक्रे दोलायितवान्, तृष्णया पीडितो भूत्वा, स्वपुरुषार्थेन तां तृष्णां निगृहीतवान् पुनश्च नूतनां तृष्णामनुभूतवान् ।
श्रमणानां सहवासात् स बहुतरं शिक्षितवानासीत् । स स्वात्मलोपनस्य प्रभूतान् प्रकारान् विज्ञातवान् । स स्वैच्छिकदुःखसहनेन पीडाजयेन चाऽऽत्मनिग्रहाध्वगोऽभवत् । एवं क्षुधाजयेन तर्षजयेन श्रमजयेन च स स्वनिग्रहं साधितवान् ।
स ध्यानसाधनया मनसः सर्वसङ्कल्पशून्यकरणेन चाऽपि स्वनिग्रहं साधितवान् । एवं चाऽनेकान् मार्गान् स साधितवान् । स सहस्रशः स्वविलोपनं कृतवान्, नैकदिनानि यावच्च शून्यत्वस्थितिं प्राप्तुं शक्तवान् ।
किन्तु, यद्यपि सर्वेऽप्येते मार्गास्तं शून्यीभवितुं समाधौ च स्थातुं नितरां सहायका भवन्ति स्म, तथाऽपि पर्यवसाने तु ते तं पुनरपि पूर्वतनस्थितावानयन्ति स्म । सहस्रशः सिद्धार्थः स्वशरीरं त्यक्त्वा बहिर्गतवान, शून्यत्वं प्राप्तवान, पशु-पक्षिषु पृथिवी-वनस्पत्यादिषु च स्वात्मानं प्रवेशितवांश्चाऽऽसीत्, तथाऽपि ततः प्रतिनिवर्तनं स्वशरीरे पुनरागमनं वा त्वपरिहार्यमेव भवति स्म । तन्मुहूर्तमनिवार्यमेवाऽऽसीत् यदा स दिवा वा रात्रौ वा छायायां वाऽऽतपे वा वर्षासु वा स्वं पुनरपि सिद्धार्थतया देहात्मभावेनाऽनुभवेत्,
Page #68
--------------------------------------------------------------------------
________________
पुनरपि च जीवनचक्रस्य दारुणां दुःसहां च यातनामधिषहेत ।
अथाऽऽसीत् गोविन्दः, यस्तस्यैव प्रतिच्छायीभूतः सन् तस्यैव च पथि व्रजन् तत्तुल्यानेव प्रयत्नान् करोति स्म । तावुभौ परस्परं साधनाया अभ्यासस्य च प्रयोजनं विना विरलतयैव भाषेते स्म । कदाचित् तौ सहैव ग्रामेषु स्वकृते गुरूणां च कृते भिक्षाग्रहणार्थं गच्छतः स्म ।
अन्यदा तादृश एव भिक्षाटनकाले सिद्धार्थो गोविन्दं पृष्टवान् – "भोः ! किमावां काञ्चित् प्रगति प्राप्तौ वा ? आवाभ्यां किं पूर्वनिर्धारितं ध्येयं प्राप्तं वा ?"
गोविन्दोऽवदत्"आवाभ्यां सुबहु शिक्षितमस्ति इतोऽपि च शिक्षमाणौ स्वः । भवांस्तु महान् श्रमणो भविष्यति, सिद्धार्थ ! । भवता प्रत्येकं पाठो विद्या च शीघ्रतयाऽधिगताऽस्ति । वृद्धश्रमणा बहुशो भवन्तं प्रशंसन्ति । कदाचिद् भवानपि पवित्रो महापुरुषो भविष्यति'" ।
सिद्धार्थेनोक्तं "भोः ! भवदुक्तं मे तथ्यं न प्रतिभाति । श्रमणानां पार्श्वे यदहमेतावत्पर्यन्तं शिक्षितवानस्मि तत्सर्वं त्वहं मदिरागृहे वारवधूगृहे द्यूतगृहे वाऽऽगतानां धूर्तानां शौण्डानां च मध्ये स्थित्वाऽपि सरलतया शीघ्रतया चाऽशिक्षिष्ये" ।
-
गोविन्द उक्तवान् – ‘“सिद्धार्थ उपहसति ननु ! ध्यानं प्राणायामाः क्षुत्तृषोः पीडायाश्चाऽसंवेदनशीलता - इत्येतत् सर्वं कथं वा भवान् तेषां दुरात्मनां पाश्र्वात् अशिक्षिष्यत ?"
सिद्धार्थः स्वगतोक्तिं कुर्वाण इवाऽतीव मृदुतयोक्तवान् – “किमस्ति ध्यानं ? किं देहशून्यताऽस्ति ? किं वाऽस्ति प्राणधारणं ? किमस्ति वा तपःकरणम् ? सर्वमप्येतत् स्वस्मात् पलायनमस्ति, स्वल्पकालमपक्रमणमस्त्येतद् आत्मवेदनातः, तथाऽस्तीत्वरिकमुपशमनमेतत् स्वस्य पीडायाः” ।
“एकः शकटवाहकोऽपि मदस्थानं गत्वाऽऽसवं नालिकेरजलं च स्वल्पकालीनमौषधमिव पीत्वा स्वस्मात् पलायते । तत: स न स्वचेतनामनुभवति, न जीवनस्य दुःखेन दुःखीभवति । केवलं स स्वल्पकालमुपशमनमनुभवति । मद्यचषकाणामुपरिष्टात् गाढनिद्रामग्नः सः, सिद्धार्थ -गोविन्दाभ्यां महापरिश्रमेण दीर्घकालीनयोगसाधनया तपश्चरणेन च साधितया देहमुक्तावस्थया या शून्यत्वस्थितिः प्राप्ता, तां, सुतरामनुभवति' ।
गोविन्द उदतरत् - " वयस्य ! भवानेवं वक्तुमर्हति तथाऽपि भवान् सुतरां जानाति यन्नाऽस्ति भवान् शकटवाहको न वा कश्चित् श्रमणो मद्यपोऽस्ति । मद्यपस्तु जीवनात् पलायनमवश्यं प्राप्नोति, सोऽवश्यं स्वल्पकालीनां विश्रान्तिं निर्वृतिं चाऽप्यनुभवति, किन्तु यदा तस्य भ्रान्तिनिवर्तेत यदा च स भानं प्राप्नुयात् तदा सर्वमपि यथावत् साक्षात्करोति । न तस्य विवेको वर्धते न च बोधः, नाऽपि च स कञ्चिदुष्कर्षं विकासं वा साधयति" ।
सिद्धार्थः सस्मितमुक्तवान् - " नाऽहं जानामि भोः ! यदहमपि कदाऽपि मद्यपो भविष्यामि न वा । तथाऽपि सिद्धार्थोऽहं साधनया ध्यानेन च केवलं स्वल्पकालीनां विश्रान्तिमनुभवामि । ततश्चाऽहं प्रज्ञातो
६०
Page #69
--------------------------------------------------------------------------
________________
निर्वाणाच्च तथा दूरीभूतोऽस्मि यथा गर्भस्थः कश्चन भ्रूणः । गोविन्द ! एतावदेवाऽहं जानामि" ।
__ अथाऽन्यदाऽपि सिद्धार्थो गोविन्देन सह गुरूणां गुरुभ्रातृणां च कृते भिक्षार्थं व्रजन् कथितवान् - "ननु गोविन्द ! किमावां सन्मार्गे प्रस्थितावुतोन्मार्गे ? किमावाभ्यां किञ्चिदिव ज्ञान प्राप्तं वा? किमावां निर्वाणासन्नौ स्वो वा ? उत भ्रमणात् निवतितुं यतमानावावां वर्तुलेष्वेव परिभ्राम्यावः ?"
गोविन्द उक्तवान् - "आवाभ्यां पर्याप्तं शिक्षितमस्ति सिद्धार्थ! । यद्यपीतोऽपि बहु शिक्षणीयं वर्तते तथाऽपि नाऽऽवां वर्तुलगतौ स्वः, आवयोर्गतिरूर्ध्वमुखैवाऽस्ति । अथ चाऽयं मार्ग एव चक्राकारः, किन्तु तस्य कियन्त्यपि सोपानान्यावाभ्यामतिक्रान्तानि" ।
सिद्धार्थोऽपृच्छत् – “अस्माकं पूज्याचार्यः श्रमणज्येष्ठो भवते कियद्वयाः प्रतिभाति भोः !' ? गोविन्देनोक्तं – “मन्ये यत् ज्येष्ठः षष्टिवर्षदेशीयोऽवश्यं स्यात्" ।
तथा च सिद्धार्थ उक्तवान् – “षष्टेर्वर्षाणामायुस्तथाऽप्यद्ययावन्निर्वाणं नैव प्राप्तम् । स सप्ततिवर्षीयो भविष्यति, अशीतिवर्षीयोऽपि; तथैव भवान् अहमपि च तद्वदेव च वृद्धौ भविष्यावः, शुभानुष्ठानानि तपो ध्यानं च करिष्यावः, किन्तु निर्वाणं नैव प्राप्स्यावः, न स प्राप्स्यति न वाऽऽवाम् । गोविन्द ! अहं दृढतया मन्ये यत् श्रमणानामेतेषामेकतमोऽपि प्रायशो निर्वाणं न प्राप्स्यति । आश्वासनानि त्ववश्यं प्राप्नुयाम, आत्मवञ्चनार्थं युक्तीरपि शिक्षेमहि, किन्तु यत् सारतत्त्वमपेक्षितमत्र - सन्मार्गरूपं - तन्नैवोपलभामहे"।
"मा मैवं त्रासदायकान् शब्दानुच्चरतु सिद्धार्थ !" - "गोविन्दोऽवदत् - "तत् कथं वा शक्यं यद् बहूनां ब्राह्मणानां, बहूनां विदुषां, बहूनां भगवतामुग्रतपस्विनां श्रमणानां, बहूनां सत्यान्वेषकाणामात्माथिनां पवित्रपुरुषाणां च मध्यादेकतमोऽपि सन्मार्ग नैव प्राप्स्यति ?"
सिद्धार्थो व्यथितेनोपहासमिश्रितेन स्वरेण मृदुतया सदुःखमुक्तवान् – “अचिरेणैव, गोविन्द ! भवन्मित्रं श्रमणानां मार्गं त्यक्ष्यति, यत्र स भवता सहाऽद्ययावत् प्रस्थितः । अहं तीव्रतृषा पीड्ये गोविन्द !, किन्त्वस्मिन दीर्घ श्रमणपथे मे तड नैव क्षीणा जाता न वा नहिवद भता । अहं ज्ञानप्राप्तौ सदाऽप्यतप्तोऽस्मि ममाऽस्तित्वं च प्रश्नैरेव पूरितमस्ति । प्रत्येक वर्षं मया विद्वांसो ब्राह्मणाः पृष्टाः, प्रत्येकमब्दं च मया पवित्रा वेदाः पृष्टाः । कदाचिद् गोविन्द !, तत् तथैव - तुल्यतया प्रशस्यं तुल्यतया चातुर्यपूर्णं तुल्यतया च पवित्रमभविष्यद् यदि मया त एव प्रश्नाः कस्मैचिद् वानराय गण्डकाय वा पृष्टा अभविष्यन् । कोऽपि जनो न किञ्चिदपि शिक्षितुं शक्तः - इति बो« मया सुदीर्घकालो व्ययितोऽस्ति, अथाऽपि च तत् पूर्णतया ज्ञातुं न प्रभवामि" ।
“अत एव दृढतया मन्येऽहं यत्, सर्वेषां सारभूतं तत्त्वं तत् किञ्चिदस्ति यत् शिक्षणात् पाण्डित्याद् वा ज्ञातुं नैव शक्यम् । मित्र ! एकमेव ज्ञानमस्ति यदन्तनिहितं सार्वकालीनं चाऽस्ति, तदस्ति 'आत्मा', यो मय्यपि विद्यते त्वय्यपि विद्यते सर्वेषु च जीवेषु विद्यते । तथाऽहमपि ह्येतद् विश्वसितुमारब्धोऽस्मि यद् आत्मज्ञानस्याऽस्य द्वावेव महाशत्रू - पण्डिताः पाण्डित्यं च" ।
Page #70
--------------------------------------------------------------------------
________________
तदा च गोविन्दो मार्गे एव स्तिमित इवाऽवस्थितः, स्वहस्तौ चोन्नीय कथितवान् – "सिद्धार्थ ! ईदृशैर्वचनैर्मा स्वमित्रस्य पीडामापादयतु । सत्यं, भवच्छब्दा मां क्लेशयन्ति । चिन्तयतु भोः ! यद्, यदि त्वदुक्तप्रकारेण शिक्षणं विद्या वा नाऽभविष्यत् तदाऽस्माकं पवित्रवेदानां, ब्राह्मणानां पूज्यतायाः श्रमणानां वा शुचितायाः को वाऽर्थोऽभविष्यत् ? यद्येवं तर्हि सिद्धार्थ ! सर्वेषां वस्तूनां का गतिरभविष्यत्, अस्मिञ्जगति किं वा पवित्रमस्थास्यत् किं च वाऽनय॑मलौकिकं चाऽभविष्यत् ?"
अथो गोविन्दः स्वगतमेव मन्दध्वनिनोपनिषदां सूक्तमेकमुच्चरितवान् "कश्चिद् वीरः प्रत्यागात्मानमैक्षत । आवृतचक्षुरमृतत्वमिच्छन् ॥"
सिद्धार्थस्तूष्णीक आसीत् । गोविन्दवचनेषु स चिराय चिन्तितवान् । “आम्", स नतमस्तक: स्थित्वा विचारयन्नाऽऽसीत्, “ननु यदप्यस्मान् पवित्रं भासते ततः किं वाऽवशिष्यते ? किं रक्ष्यते किं चोदध्रियते ?"
स मस्तकमधुनोत् ।
अथ च द्वयोरपि यूनोः श्रमणैः सह योगाभ्यासं कुर्वतोवर्षत्रयं व्यतीतम् । तावताऽन्यदा नैकस्रोतोभ्यस्ताभ्यां लोकप्रवादरूपेण किंवदन्तीरूपेण च समाचार एकः श्रुतः । एकः कश्चन महात्मा प्रादुर्भूत आसीत् जगत्यां, यन्नाम गौतम इत्यासीत्, यश्च भगवान् बुद्धः इत्याख्ययया प्रथितयशा आसीत् । स जागतिकानां दुःखानां क्लेशानां च जयं प्राप्तवान् आसीत् पुनर्जन्मनश्चक्रं च निरुद्धवानासीत् । शिष्यगणेन परिवृतो लोकांश्चोपदिशन् स समस्ते देशे पर्यटितवान् आसीत् । तस्य पार्श्वे न काश्चित् सम्पदः, न किञ्चनाऽगारं न च स्त्र्यपि विद्यन्ते स्म । केवलं... काषायिकं वस्त्रमेकं धृतवानपि उन्नतभ्रूरयं पवित्रपुरुषः पर्यटति स्म, बहवो विद्वांसो ब्राह्मणा राजानो राजपुत्राश्च तं प्रणमन्ति स्म तदन्तेवासिनश्च भवन्ति स्म ।
एष समाचारः एष लोकप्रवाद एषा च कथाऽत्र तत्र सर्वत्र जनानां कर्णोपकर्णगता प्रसूता च । ब्राह्मणा नगरेषु प्रसारयन्ति स्म श्रमणाश्च वनेषु । एवं च गौतमबुद्धस्य नामाऽनवरततया तयोमित्रयोः श्रवणगोचरतां गतं, कदाचिन्निन्दारूपेण कदाचिच्च प्रशंसारूपेण, क्वचित् सम्यक्तया क्वचिच्च विपरीततया।
यथा हि, महामार्या पीडिते देशे यदि कदाचित जनप्रवाह उत्तिष्ठते यद - अस्ति कश्चन प्राज्ञो महापुरुषो यस्य वचनानि श्वसनं चाऽपि पीडितान् जनान् सान्त्वयितुं रोगमुक्ताश्च कर्तुमलमिति, यदा चैषा वार्ता देशे सर्वत्र प्रसरेत् जनाश्च तामेव चर्चयेयुस्तदा बहवस्तां विश्वसन्ति बहवश्च शङ्कन्ते, बहवस्तु सपद्येव सर्वाणि कार्याणि विमुच्य तं महापुरुषमन्वेषयन्तस्तत्पावें गच्छन्ति - अस्मद्धितकार्ययमेवेति कृत्वा ।
अथैतत्प्रकारेणैव गौतमबुद्धस्याऽपि शाक्यकुलोत्पन्नस्य समाचारः प्रवादश्च समस्ते देशे प्रसृतः । "स परमज्ञानं धारयति स्म" - श्रद्धालव उक्तवन्तः, "तस्य पूर्वजन्मनां स्मरणमासीत्, तेन निर्वाणं प्राप्तमत इतः परं स भवचक्रे नैव पर्यटिष्यति, नाम-रूपयोर्दुःखमयस्रोतस्सु च नैव मज्जिष्यति" ।
Page #71
--------------------------------------------------------------------------
________________
तस्य विषये बढ्योऽद्भुता अश्रद्धेयाश्च वार्ता श्रूयन्ते स्म । यथा, स चमत्कारान् करोति स्म, स मारं जितवान् आसीत्, देवैश्च सह सम्भाषणं कर्तुं शक्त आसीत् । किन्तु तस्य द्वेषिणो विरोधिनोऽश्रद्धालवश्च जनाः कथयन्ति स्म यत् – “गौतमः प्रमादी धूर्तश्चाऽस्ति, स केवलं मधुरवचनैर्जनान् प्रतारयति, स्वयं तु महता वैभवेन विलासितया च दिनानि यापयति, यज्ञान् तिरस्करोति, तस्य न किमपि ज्ञानं विद्यते, तथा स नैव योगाभ्यासं नाऽपि च देहदमनं तपश्चरणं वा जानाति" ।
बुद्धविषयिकी वार्ताऽऽकर्षिक्यासीत्, किञ्चित् सम्मोहनमिवाऽऽसीत् तस्याम् । जगद् हि दुःखैर्व्यथितमासीत् जीवनं च प्रतिपदं विषमं दुर्गमं चाऽऽसीत् । एतादृशे काले एषा नूतनाऽऽशेव जागृता । एको हर्षप्रदः सान्त्वनदायकः शान्तिकरः सुन्दराभिश्चाऽऽशंसाभिः परिपूर्णः सन्देशं समागत इव सर्वत्र बुद्ध एव चर्चागोचरो भवति स्म । सकलभरतखण्डस्य युवका एनं प्रवादं श्रुत्वा कुतूहलिनो आशंसिनश्च सञ्जाता आसन् । प्रत्येकं नगरेषु ग्रामेषु च महायशसः शाक्यमुनेः समाचारं कथयितारो यात्रिणोऽपरिचिता वैदेशिकाश्चाऽपि स्वागतार्हा जायन्ते स्म ।
शनैः शनैः समाचारा एते वने वसतां श्रमणानां कर्णगोचरत्वमपि प्राप्ताः । सिद्धार्थ-गोविन्दावपि तत्समाचारलेशं – शङ्काभृतमाशंसापूर्णं चाऽपि - श्रुतवन्तौ । श्रमणज्येष्ठाय प्रवादोऽयं न रोचते स्मेति तौ तद्विषयिकी चर्चामतिविरलतयैव कुरुतः स्म । ज्येष्ठेन श्रुतचरमासीद् यद् – 'बुद्धोऽयं पुरा कश्चन वनवासी श्रमण आसीत्, किन्तु पश्चात् स सर्वं तत् त्यक्त्वा विलासमयं भौतिकसुखपूर्णं च जीवनं जीवति स्म'। ईदृशे गौतमे तस्य आदरः कथं वा भवितुमर्हेत् ?
अथाऽन्यदा गोविन्दः स्वमित्रमुक्तवान् – “अद्यैकस्मिन् ग्रामे एकेन ब्राह्मणपुत्रेणाऽहं भिक्षार्थमामन्त्रितः । यदाऽहं तद्गृहं प्राप्तस्तदा तत्रैकोऽन्यो ब्राह्मणपुत्रो मगधेभ्य आगत आसीत् । स स्वनेत्राभ्यां प्रत्यक्षमेव बुद्धं दृष्ट्वा, तद्वाणी च साक्षाच्छ्रुत्वैवाऽऽगतः । तत्सकाशाद् बुद्धवर्णनं श्रुत्वा नूनमेवाऽहमुत्सुको जातोऽस्मि यत्, कदाऽऽवामुभावपि तस्य पूर्णपुरुषस्य मुखादुपदेशं श्रोष्यावः ? वयस्य ! किमावामपि इतस्तस्योपदेशं श्रोतुं गच्छेव वा ?"
सिद्धार्थोऽकथयत् – “मया तु चिन्तितमासीद् यद् गोविन्दस्तु श्रमणैः सहैव वत्स्यति, षष्टिं सप्ततिं वा वर्षाणि यावत् इहैव स्थित्वा श्रमणैः शिक्षिता विद्या अभ्यसनीया-इत्येव तस्य ध्येयमिति मे मतिरासीत् । किन्तु भवद्विषयेऽहमत्यल्पं जानामि गोविन्द ! । भवतो मनसि ईदृशो विचारोऽपि जागर्ति - तन्नैव ज्ञातवानहम् । किं भवानपि ममेवेदानीं नूतने पथि सञ्चरितुं, बुद्धस्योपदेशं च श्रोतुमिच्छति वा !"
गोविन्देन कथितं – “मित्र ! भवान् ममोपहासं कृत्वाऽऽनन्दं प्राप्तुमर्हति । भवतु नाम । किन्तु सिद्धार्थ ! किं भवानपि तस्य पूर्णपुरुषस्योपदेशं श्रोतुमुत्सुकोऽस्ति न वा ? तथा भवतैवैकदा मे कथितमासीद् यद् - अहमचिरेणैव श्रामण्यं त्यक्ष्ये इति - तद् भवान् स्मरति न वा ?"
तन्निशम्य सिद्धार्थो हसितः । तद्धासध्वनौ शोकमिश्रितोपहासो द्योतते स्म । तेनोक्तं – “भवता
६३
Page #72
--------------------------------------------------------------------------
________________
सुष्ठुक्तं गोविन्द !, भवतः स्मृतिरपि प्रशंसाहा॑ । किन्तु तदा मया किञ्चिदन्यदपि कथितमासीत्, तदपि स्मर्तव्यं भवता, यन्ममोपदेशेषु पाण्डित्ये शिक्षणे च श्रद्धा नाऽस्ति, उपदेशकानां वचनानि नहिवदेव रोचन्ते मे । किन्तु, भवतु नाम, यद्यपि तस्योपदेशस्योत्तमानि फलानि तु निश्चितमावाभ्यामास्वादितान्येव ! तथाऽप्यहं तं नूतनोपदेशं श्रोतुं सिद्धोऽस्मि ।
___ गोविन्दोऽवदत् - "भवन्तमत्राऽर्थे सम्मतं दृष्ट्वाऽतीव प्रमुदितोऽस्मि । किन्तु, गौतमस्योपदेशमश्रुत्वैवाऽऽवाभ्यां तस्य श्रेष्ठफलान्यास्वादितानीति भवान् कथं वदति ? कृपया बोधयतु माम्" ।
सिद्धार्थ उक्तवान् – “एतस्य फलस्योपभोगं कुर्यावाऽग्रेतनानि च फलानि प्रतीक्षेवहि । एतत्फलत्वं नाम श्रमणमार्गात् नौ प्रतिनिवर्तनं, तदर्थं त्वाऽऽवां गौतमस्य ऋणिनौ स्वः । अग्रे च यदीतोऽपि श्रेष्ठानि फलानि स्युस्तदा तानि शान्त्या प्रतीक्षेवहि" ।
अथ च तस्मिन्नेव दिने सिद्धार्थो ज्येष्ठाय श्रमणाय सङ्घत्यागार्थं निवेदितवान् । स यद्यपि शिष्यजनोचितेन विनयेन नम्रतया च स्वनिवेदनं कृतवान्, किन्तु तयोर्द्वयोः श्रामण्यत्यागनिर्णयं श्रुत्वा स श्रमणज्येष्ठोऽत्यन्तं क्रुद्धो जात उच्चैश्च तौ निर्भत्सितवान् ।
एतेन यद्यपि गोविन्दः स्तब्धः किकर्तव्यविमूढश्च जातः, तथाऽपि सिद्धार्थस्तु स्वस्थतयैव गोविन्दकर्णयोर्मन्दतयोपजपितवान् - "अधुनाऽहमस्य वृद्धजनस्य दर्शयामि यन्मयाऽपि तत्पाद्यत् किञ्चित् शिक्षितमस्ति" इति ।
ततः स तस्य श्रमणज्येष्ठस्य समीपं गत्वैकाग्रेन स्थितः । स स्थिरतया तस्य वृद्धस्य नयनयोः पश्यन् त्राटकं कृतवान्, संमोहनं कृत्वा च तं स्ववशं कृतवान्, निःशब्दं कृतवान्, तत्सङ्कल्पशक्तिं स्वायत्तीकृतवान् । स्वेच्छानुसारं च वतितुं तमादिष्टवान् । वृद्धः श्रमणो मूको जातः, तद्वृष्टिर्जडीभूता, मनोबलं विकलं जातं, शरीरं च शक्तिहीनं जातम् । सिद्धार्थस्य संमोहनशक्तेः पुरतः स सर्वथा सामर्थ्यरहितोऽभवत् । सिद्धार्थस्य विचाराः श्रमणस्य विचारान् पराभूतवन्तः । सिद्धार्थेच्छानुसारमेव तेन वर्तितव्यमभवत् । ततश्च स बहुशस्तावनमत्, ताभ्यामाशिषः प्रायच्छत्, प्रवासार्थं गद्गदतया शुभेच्छाः कृतवान् । तौ द्वावपि च तदर्थं तस्मै कार्तश्यमुपदर्शितवन्तौ, तं नत्वा च ततः प्रस्थितौ ।।
___मार्गे गोविन्द उक्तवान् – “सिद्धार्थ ! भवता श्रमणानां पार्वादियदधिकं शिक्षितमस्ति तन्मया नैव ज्ञातमासीत् । ईदृशस्य श्रमणज्येष्ठस्य संमोहनं वशीकरणं च नामाऽत्यन्तं दुष्करं कार्यम् । इदं सत्यं यद् यदि भवान् अत्रेतोऽप्यधिकमस्थास्यत् तदा शीघ्रमेव जलोपर्यपि चलितुं शक्तोऽभविष्यत्" ।
"मम नाऽस्ति काऽपि वाञ्छा जलोपरि चलनस्य" - सिद्धार्थोऽवदत्, “भवन्तु नाम श्रमणा एव तादृशीभिर्विद्याभिः सन्तुष्टाः" ।
Page #73
--------------------------------------------------------------------------
________________
३. गौतमः
श्रावस्तीनगरे प्रत्येकं बालकोऽपि महायशसो बुद्धस्य नाम जानाति स्म, प्रत्येकं गृहं चाऽपि मौनतया भिक्षां याचमानान् गौतमस्य भिक्षुकान् सर्वविधां भिक्षां दातुमुत्सुकमासीत् । नगरासन्नमेव गौतमस्याऽभीष्टा वसतिः, जेतवनाभिधमुपवनमासीत्, यद्धि पूर्णपुरुषस्य परमोपासकेन धनाढ्यश्रेष्ठिनाऽनाथपिण्डिकेन बुद्धाय तच्छिष्येभ्यश्च समर्पितमासीत् ।
___अथैताभ्यां द्वाभ्यामपि युवतापसाभ्यां पृच्छया जनवादेन च ज्ञातमासीद् यद् गौतमस्य वसतिरस्मिन्नेव प्रदेशे विद्यते । यदा तौ द्वौ श्रावस्तीनगरं प्राप्तौ तदा प्रथमे एव गृहे भिक्षार्थं मौनतया स्थितयोस्तयोर्दागेव गहिण्या भिक्षान्नमपढौकितम । द्वाभ्यामपि तदन्नं विभक्तं, सिद्धार्थेन च तस्यै स्त्रियै पृष्टं - "आर्ये ! आवां द्वावप्यरण्यादागतौ स्वो महाज्ञानिनो बुद्धस्य दर्शनार्थं तन्मुखपद्माच्च निःसृतमुपदेशामृतं पातुं, किं तत्रभवती ज्ञापयेत् आवां, कुत्र स भगवान् निवसति ?"
स्त्रियोक्तं - "भवन्तावचिते स्थले एवाऽऽगतौ भोः श्रमणौ ! । महाज्ञानी भगवान बुद्धोऽधनाऽनाथपिण्डिकस्य जेतवनाभिधोद्याने उषितोऽस्ति । तत्र तदुपदेशश्रवणार्थमागतानां जनानां कृते महदानुकूल्यं वर्ततेऽतो भवन्तौ तत्रैव रात्रिवासं कल्पयितुं शक्नुयाताम्" ।
श्रुत्वैतत् प्रहृष्टौ गोविन्दः सानन्दमवदत् - "अहो ! एवं, तर्हि सिद्धं नौ कार्यं, आवयोर्यात्रा समाप्तेव। किन्तु कथयतु भोः यात्रिकाणां मातर् ! किं भवती बुद्धं जानाति खलु ? किं भवत्या कदाऽपि स भगवान् दृष्टचरः खलु ?"
तया गदितं – “अवश्यं श्रमण ! मयाऽनेकशः स पूज्यो दृष्टोऽस्ति । बहुधा स भगवान् काषायवस्त्रधारी नगरमार्गेषु भिक्षार्थमटन्, शान्ततया भिक्षापात्रं गृहद्वाराग्रे धरन्, भृतं च भिक्षापात्रं गृहीत्वा प्रतिनिवर्तमानश्च मयाऽवलोकितोऽस्ति' ।
___ एतत् सर्वं गोविन्दो मन्त्रमुग्धो भूत्वा श्रुतवान् । स इतोऽपि बहु प्रष्टुं श्रोतुं च समुत्सुक आसीत् किन्तु सिद्धार्थस्तस्य गमनकालं स्मारितवान् । ततो द्वावपि तां प्रति कार्तश्यं दर्शयन्तौ निर्गतौ ।
अथ जेतवनं प्रति गमनार्थं बहवो बुद्धानुयायिनो भिक्षुका यात्रिकाश्च प्रस्थिता आसन् अत एतावपि द्वौ कमपि मार्गमपृष्ट्वा तेषामेव पृष्ठतो जेतवनं प्रति प्रस्थितौ । यदा तौ तत्र प्राप्तौ तावता रात्रिर्जाताऽऽसीत् । यात्रिकाणामागमनं तु निरन्तरं भवति स्म । सर्वेषामपि तेषां निवासं प्रार्थयमानानां प्राप्नुवतां च शब्दैर्वातावरणं कोलाहलमयं सञ्जातम् । एतावपि श्रमणावभ्यस्तारण्यजीवनौ शीघ्रमेव मौनमेव चाऽऽवासं प्राप्तवन्तौ प्रत्यूषपर्यन्तं च तत्रैवोषितौ ।
सूर्योदयवेलायां तु तत्र प्रभूतान् श्रद्धालुजनान् बुद्धदर्शनार्थमत्युत्सुकान् दृष्ट्वा तौ विस्मयाकुलौ जातौ । काषायवस्त्रधारिणो बहवो भिक्षवस्तस्य विशालस्योद्यानस्य प्रत्येकं मार्गेषु सञ्चरन्ति स्म । यत्र तत्र
Page #74
--------------------------------------------------------------------------
________________
वृक्षाणामधस्तात् केचिद्ध्यानार्थमुपविष्टाः, केचितु शास्त्रादिचर्चासु संलग्नाः । एवं च दूरतस्त्वेतदुद्यानं मधुमक्षिकाभिः सङ्कलो मधुकोश इव प्रत्यभासत ।
ततः प्रायशः सर्वेऽपि भिक्षवो भिक्षाग्रहणार्थं स्व-स्वभिक्षापात्रं गृहीत्वा नगरं प्रति प्रस्थिताः । ते हि प्रत्यहमेकवारमेवाऽभुञ्जत । अन्येषां तु का वार्ता ? स्वयं भगवान् बुद्धोऽपि नगरे भिक्षाटनं करोति स्म ।
सिद्धार्थस्तं दृष्ट्वान् केनचिद् देवेन च निर्दिष्ट इवाऽभिज्ञातवानपि । स तं महायशस्विनं भिक्षापात्रधरं, प्रशान्ततया चलन्तं, निराडम्बरं, काषायवस्त्रधारिणं वीक्षितवान् ।
ततः पार्वे एव स्थितं गोविन्दं स निभृतमुक्तवान् - "पश्य भोः ! अयमेव स महायशस्वी बुद्धः" । गोविन्दस्तं सावधानं दृष्टवान् । यद्यपि काषायवस्त्रधारिणां शतशो भिक्षूणामेवाऽन्यतमः स झटिति समभिज्ञायमानो नाऽऽसीत् तथाऽपि गोविन्दस्तमभिज्ञातवान् । आम्, स एवाऽऽसीद् बुद्धः । द्वावपि तं निरीक्षमाणावेव तमनुगतवन्तौ ।
बुद्धः स्वमार्गे उपशान्ततया गच्छन्नाऽऽसीत् । तन्मुखमण्डलं गाढं विचारमग्नमिवाऽभासत । अथाऽपि नैव तद् विषण्णं नाऽपि च प्रहृष्टमासीत् । स स्वचित्तेऽत्यन्तं प्रसन्नतामनुभवन्निवाऽलक्ष्यत । स्वस्थशिशोर्मुखे इव तस्याऽपि वदनेऽव्यक्तं स्मितमुल्लसति स्म । अन्यभिक्षव इव सोऽपि शाटकमेकं धृत्वा चलन्नासीत् तथाऽपि तस्य वदनं, पदन्यासाः, शमवती भूमिन्यस्ता दृष्टिः, लम्बमानो हस्तः, हस्तस्य च प्रत्येकमङ्गल्यः, ननु समग्रमप्यस्तित्वं केवलं परमां शान्ति पूर्णतां चैव द्योतयति स्म । तस्य सम्पूर्णेऽपि व्यक्तित्वे न काऽपि तृष्णा स्पृहा वा प्रकटति स्म न वा कस्याऽप्यनुकरणं तत्राऽभासत । केवलमविच्छिन्ना शान्तिरक्षीयमाणं तेजोऽनिर्वचनीया च स्वस्थता स्फुरति स्म ।
नगरं प्राप्य गौतमो भिक्षार्थमितरभिक्षुवदेव गृहाण्यटितवान् । इमौ च द्वौ श्रमणौ तस्य पूर्णतयोपशान्तेन व्यवहारेण, अक्षुब्धयाऽऽकृत्या चैव तमभिज्ञातवन्तौ । तत्राऽऽकृतौ न काऽपि काङ्क्षाऽभिलाषो वा, न कोऽपि दम्भो न वा कोऽपि प्रयत्नो दृश्यते स्म । केवलं तेजः शान्तिश्चैव द्योतेते स्म ।
"अद्याऽऽवां साक्षात् तस्यैव मुखादुपदेशं श्रोष्यामः", सहसा गोविन्दोऽवदत् ।।
किन्तु सिद्धार्थस्तं नैवोदतरत् । उपदेशश्रवणे तस्यौत्सुक्यं नाऽऽसीदेव । उपदेशात् काचिन्नूतना शिक्षा प्राप्यतेत्यत्रापि तस्य श्रद्धा नाऽऽसीत् । यद्यपि तेन गोविन्देन च कर्णोपकर्णं तस्य महाज्ञानिन उपदेशस्यांऽशाः श्रुतचरा एव, तथाऽप्यद्य तु तस्य पूर्णमपि ध्यानं गौतमस्य मस्तके, तदंसयोः, तच्चरणयोः, तस्य स्थिरे लम्बमाने च हस्ते चैवाऽऽसीत् । तस्य प्रत्येकमङ्गल्याः प्रत्येकं सन्धिभ्यः ज्ञानमेव स्फुरदिव प्रत्यभासत । ते हि सन्धयो ननु सत्यमेवोद्गिरन्तः सत्यस्य निर्मलं प्रकाशमेव चोच्छ्वसतोऽनुभूतास्तेन ।।
एषोऽयं बुद्धो ननु प्रत्येकमणुषु पवित्रतम आसीत् । इतः पूर्वं कदाऽपि सिद्धार्थेन न कञ्चित् प्रति ईदृश आदरो बहुमानो वा दर्शितो न वाऽऽकर्षणमनुरागश्चाऽप्यनुभूत आसीत् ।।
तौ द्वावपि तूष्णीमेव नगरे बुद्धमनुसृतवन्तौ स्वस्थानं च प्रतिनिवृत्तौ । ताभ्यां तद्दिने उपोषितुं निर्णीतमासीत् । तावता ताभ्यां प्रतिनिवर्तमानो गौतमो विलोकितः, स्वशिष्यवृन्दमध्ये उपविश्य -
Page #75
--------------------------------------------------------------------------
________________
पक्षिणोऽप्यपर्याप्तमत्यल्पम् - अन्नं गृहीत्वा स आम्रनिकुञ्जच्छायासु कुत्राऽपि निलीनो जात: ।
सायं हि शान्ते सूर्यातपे सर्वेऽपि सत्वरमेकत्र मिलिताः बुद्धोपदेशं श्रोतुम् । ताभ्यामपि श्रुतस्तस्योपदेशः । तस्य स्वरो हिं सर्वथाऽविकलः सौम्यः स्वस्थः शान्तिमयश्चाऽऽसीत् । गौतमः उपादिशत् – “दुःखमस्ति, दुःखकारणानि सन्ति, दुःखमुक्तेरुपाया अपि सन्ति । जीवनमिदं दुःखरूपमेव, जगदपीदं दुःखपूर्णमेवाऽस्ति । किन्तु दुःखमुक्तेर्मार्गोऽपि सम्प्राप्तोऽस्ति । ये केऽपि बुद्धदर्शितं मार्गमनुसरिष्यन्ति ते सर्वेऽपि निर्वाणं प्राप्स्यन्ति " |
-
तस्य वचनपद्धतिर्मृदुलाऽपि दृढाऽऽसीत् । चत्वार्यार्यसत्यानि, अष्टाङ्गं च मार्गं बोधयित्वा सधैर्यं तेन विविधदृष्टान्तैः पुनः पुनः प्रेरणाभिश्च स्वीयोपदेश: सरलतया प्रवर्तितः । दिवि प्रसरत् तेज इव, ननु काचित् तेजसोल्लसिता तारकेव स्पष्टतया स्वस्थतया च तस्य वाणी श्रोतृहृदयेषु प्रासरत् ।
यदा स प्रवचनं समर्थितवान् तदा रात्रिः प्रवर्तमानाऽऽसीत् । बहवो यात्रिकास्तच्चरणयोर्वन्दित्वा स्वं सङ्घे स्वीकर्तुं विज्ञप्तवन्तः । बुद्धस्तेषां सङ्घप्रवेशमनुमतवान् कथितवांश्च - 'भवद्भिः सम्यक्तयोपदेश: श्रुतोऽस्ति । सङ्घे सम्मील्याऽत्रभवन्तः ससुखं विहरन्तु दुःखानां चाऽन्तं कुर्वन्तु" ।
-
तावता लज्जालुर्गोविन्दोऽप्यग्रे आगतो निवेदितिवांश्च "अहमपि महायशस्विनं बुद्धं तत्सङ्कं च प्रति मम निष्ठां समर्पयितुमुत्कोऽस्मि " । ततः स सङ्घ स्वस्वीकारार्थं विज्ञप्तिं कृतवान् स्वीकृतश्च बुद्धेन । रात्रिविश्रामार्थं गते बुद्धे, तत्क्षणमेव गोविन्दः सिद्धार्थसमीपं गत्वोत्सुकतया कथितवान् – “सिद्धार्थ ! यद्यप्यहं भवन्तमुपालब्धुं नार्होऽस्मि । तथाऽपि कथयामीदं यद्भवां द्वावपि भगवतोऽस्य वाणीं श्रुतवन्तौ तत्कथितमुपदेशं चाऽपि धारितवन्तौ । गोविन्दो हि तद् बोधं श्रुत्वा तन्मार्गं स्वीकृतवानस्ति, किन्तु सिद्धार्थ ! मित्र ! किं भवानपि निर्वाणपथमेनं समाक्रमितुमुत्साहवान् नाऽस्ति वा ? किमिति भवान् अद्यापि चिरायते ? इतोऽपि किं वा प्रतीक्षते भवान् ? "
-
--
शब्दानिमान् गोविन्दमुखाच्छ्रुत्वा सिद्धार्थः सहसा निद्रातो जागृत इव । स गोविन्दस्य मुखं चिरायाऽवलोकितवान् । ततः स मृदुतयोक्तवान्, उपहासलेशोऽपि तत्र नाऽऽसीत् – " गोविन्द ! मम सुहृत् ! भवान् पदं निहितवानस्ति, भवान् स्वमार्गं निर्णीतवानस्ति । भवान् हि सर्वदा मम प्रियमित्रं वर्तते, गोविन्द ! भवान् सर्वदा मामेवाऽनुसरति । बहुधा मया चिन्तितमासीत् यत् किं गोविन्दो मया विनाऽपि कदाचिदपि – स्वात्मविश्वासेनैव - पदमात्रमपि क्रमिष्यति वा ? किन्तु, अद्य भवता स्वसामर्थ्यं दर्शितमस्ति मित्र !, भवता स्वपथश्चितोऽस्ति । आऽन्तं भवान् तमेव मार्गमनुसरेत् निर्वाणं दुःखमुक्तिं च प्राप्नुयात्" गोविन्दो हीतोऽपि तत्कथनमर्म नाऽवबुद्धवान्, अतोऽधीरतया पुनस्तं कथितवान् – “वदतु, मम प्रियमित्र ! वदतु यद् - भवानपि बुद्धं प्रति स्वनिष्ठासमर्पणं विना नाऽन्यत् किमपि कर्तुं शक्तोऽस्तीति" । सिद्धार्थस्तत्स्कन्धे स्वहस्तं निवेश्य सौम्यतया कथितवान् - " भवता ममाऽऽशीर्वचांसि श्रुतानि भोः !, अहं पुनरपि कथयामि - भवान् आऽन्तमिममेव मार्गमनुसरेत्, भवान् निर्वाणं प्राप्नुयात्" ।
I
-
-
तत्क्षणमेव गोविन्दोऽवगतवान् यत् - तस्य मित्रं तं विहाय गच्छतीति । तस्य नेत्रे अश्रुक्लिन्ने जाते ।
६७
Page #76
--------------------------------------------------------------------------
________________
"सिद्धार्थ !" रुदन्नेव स उक्तवान् । सिद्धार्थः सस्नेहं तमुक्तवान् - "मा विस्मरत्वेतद् गोविन्द ! यद् - भवान् बुद्धस्य पवित्रभिक्षुष्वन्यतमः । भवता गृहं पितरौ च त्यक्तानि, भवता स्वजातिः सम्पत्तिश्चाऽपि त्यक्ते, अपि च स्वस्येच्छाऽपि भवता परित्यक्ता, मैत्र्यपि च भवता परित्यक्ता । अद्य श्रुतस्य बोधस्याऽयमेव सारः, भगवतो बुद्धस्याऽपि ात्रैव तात्पर्यम् । इदमेव हि भवताऽप्यभिलषितम् । गोविन्द ! अहं तु श्वो गमिष्यामि" ।
ततो द्वावपि सुहृदौ तत्रोपवने चिराय विहृतौ । ततश्च भूमौ शयितौ, परन्तु निद्रा नैवाऽऽगता । गोविन्दः स्वमित्रं वारं वारं सनिर्बन्धं पृष्टवान् यत् – किमर्थं स बुद्धोपदर्शितं मागं नाऽनुसरति ? किं काचित् क्षतिस्तेन तत्राऽन्विष्टा वा ? किन्तु प्रतिवारं सिद्धार्थस्तं निराकृतवान् – “गोविन्द ! शान्तो भवतु, स्वस्थो भवतु । महायशस्विनो भगवत उपदेशः सर्वथा श्रेष्ठोऽस्ति । कथं वाऽहं तत्र क्षतिमन्वेष्टुं प्रभवेयम् ?"
प्रत्यूष एव, बुद्धस्य प्रधानशिष्येष्वन्यतमो भिक्षुकस्तत्रोपवने आगत्य गोविन्दमन्यांश्च जनान् - यै रात्रौ बुद्धस्य मार्गो स्वीकृत आसीत् तान् - काषायवस्त्रधारणार्थं दीक्षान्तप्रवचनश्रवणार्थं कर्तव्यसूचनार्थं चाऽऽहूतवान् । तदा गोविन्दः स्वमित्रमालिङ्ग्य ततो निर्गतो भिक्षुकवस्त्राणि च परिहितवान् ।
गहन विचाराधीनः सिद्धार्थश्चाऽऽम्रकुञ्जेषु भ्रमणं कुर्वन् महायशस्विनं गौतमं दृष्टवान् । स सादरं सविनयं च तं वन्दितवान् । तं प्रति बुद्धस्य प्रतिक्रियाऽतीव सद्भावपूर्णा सौम्या चाऽस्तीति विलोक्य तेन यूना धैर्यमवलम्ब्य भगवता सह सम्भाषितुं तदनुमतियोचिता । भगवताऽपि मौनमेवेषच्छिरश्चालनपूर्वक स्वसम्मतिः प्रदर्शिता ।
सिद्धार्थ उक्तवान् – “भगवन् ! ह्यो भवतोऽद्भुतमुपदेशं श्रोतुं सौभाग्यं मया प्राप्तमासीत् । अहं हि बहुदूरवर्तिप्रदेशात् भवन्तमेव द्रष्टुं श्रोतुं चाऽत्र समित्रः समागतोऽस्मि । इतः परं भवन्मार्गमाश्रितो मे सुहृत् अत्रैव स्थास्यति । अहं तु मम यात्रामनुवर्तयिष्यामि' ।
"यथा भवत इच्छा" - भगवता पूर्णसौजन्येनोक्तम् ।
"मम कथने कदाचिद् धृष्टताऽपि स्यात्', सिद्धार्थोऽनुवर्तयत्, “किन्तु मम विचारान् यथावद् अनिवेद्य नाऽहं भगवत्सकाशाद् निर्गन्तुमुत्कोऽस्मि । किं भगवत्पादो मम कथनं - किञ्चिद् दीर्घतरं - श्रोष्यति वा ?"
बुद्धेन तूष्णीमेव स्वसम्मतिः सूचिता ।
सिद्धार्थोऽवदत् - "भगवन् ! सर्वप्रथमं त्वहं भवत उपदेशं सर्वथा प्रशंसामि । तत्र सर्वमपि पूर्णतया स्पष्टं प्रमाणितं चाऽस्ति । भवता हि जगदिदं पूर्ण-शाश्वताखण्डशङ्कलाबद्धं कार्य-कारणभावेनाऽन्वितं च वणितम् । तथ्यमिदमियत्स्पष्टतया न कदापि प्रस्तुतं नाऽपि हीयदप्रतिकार्यतया प्रमाणितं वा। यदा कश्चिद् ब्राह्मणो भवद्बोधदृष्ट्या जगदिदं पश्येत् - सर्वथा संवादि, सर्वथा नियमितं, स्फटिकवन्निर्मलं स्पष्टं च, दैवं दैवतं वाऽनवलम्बमानं - तदा तस्य हृदयं नूनं शीघ्रतया स्पन्दितुमारभेत" ।
६८
Page #77
--------------------------------------------------------------------------
________________
"जगदिदं शुभं वा भवेदशुभं वा, जीवनं सुखमयं वा भवेद् दुःखपूर्णं वा, शाश्वतं वा भवेन्नश्वरं वा - एतत्सर्वस्य नाऽस्ति किमपि महत्त्वं; किन्तु समग्रविश्वस्यैक्यं, प्रत्येकं घटनानां परस्परं सुसङ्गतता, लघोर्महतो वा सर्वस्याऽपि ह्येकस्मिन्नेव स्रोतसि, एकस्मिन्नेव जन्ममरणयोः कार्य-कारणनियमे समावेशः - भवत उदात्तोपदेशात् स्पष्टतयेदं तत्त्वं प्रकाशते भोः पूर्णपुरुष! । किन्तु, एकत्र भवदुपदेशे हीदमैक्यमयं च समग्रवस्तूनां ताकिकोऽन्वयः खण्डितो भवति । एकस्माद् सूक्ष्मच्छिद्रादैक्यस्य विश्वे किञ्चिदपूर्वं, किञ्चिन्नवं, तादृशं किञ्चित् - यत् पुरा नाऽऽसीत्, यच्च प्रदर्शयितुं प्रमाणयितुं वा न शक्यं - प्रविशति, तद्धि भवत्प्रतिपादितः संसारत उत्थानस्य - निर्वाणस्य सिद्धान्तः । अनेनैव सूक्ष्मरन्ध्रेण खलु शाश्वतस्यैकस्य च विश्वस्य नियमः खण्डितो भवति । आक्षेपकरणार्थं कृपया क्षम्यताम्" ।
गौतमः शान्त्या स्थिरतया च तच्छृतवानासीत् । ततः स पूर्णपुरुषः सौम्य-मृदु-स्पष्टस्वरेण कथितवान् – “भवता ह्युपदेशः सम्यक्तया श्रुतोऽस्ति भो ब्राह्मणपुत्र !, तथा श्रवणानन्तरं तदुपरि गभीरं चिन्तनं यद् भवता कृतं तदपि प्रशस्यम् । भवता या क्षतिस्तत्राऽन्विष्टा सा इतोऽपि विचारार्हा । भवान् हि ज्ञानपिपासुरस्ति तथाऽपि तर्कजालं शब्दजालं च प्रति जागरूको भवतु । तर्काः खलु निरर्थकाः, ते सुन्दरा असुन्दरा वा भवेयुः, चातुर्यपूर्णा मूर्खतापूर्णा वा भवेयुः, यः कोऽपि तान् स्वीकर्तुं निराकर्तुं वाऽर्हति" ।
"यद्यपि, उपदेशं श्रुत्वा भवता यच्चिन्तितं तत्र मेऽभिप्रायो नाऽस्ति, नाऽपि च तदुपदेशस्य लक्ष्यं ज्ञानपिपासूनां विश्वस्वरूपज्ञापनम् । तस्य लक्ष्यमस्ति किञ्चिद् भिन्नमेव, तद्धि दुःखमुक्तिः । इदमेव हि गौतम उपदिशति नाऽन्यत्" ।
"कृपया भगवन् ! मयि कुपितो मा भवतु" - सिद्धार्थ उक्तवान् । “अहं हि भवता सह शब्दानधिकृत्य विवदितुं न कथयामीदम् । तथा भवान् सत्यमेव वदति यत् तर्काः खलु निरर्थकाः । किन्तु अहमन्यदपि किञ्चित् कथयानि वा? प्रभो ! अहं भवद्विषये क्षणमात्रमपि न शङ्के । भवतो बुद्धत्वविषयेऽपि न मे मनसि शङ्कालेशोऽपि, तथा भवता तदुच्चं ध्येयं प्राप्तमस्ति यद्धि सहस्रशो ब्राह्मणा ब्राह्मणपुत्राश्च प्राप्तुं प्रयतन्ते - एतदपि शङ्कातीतमेव । इदं ध्येयं भवता, स्वयमेव निश्चितेन पथा स्वप्रयत्नैरेव च प्राप्तमस्ति - विचारैः, ध्यानेन, ज्ञानेन स्वप्रबोधनेन च । भवता ह्युपदेशश्रवणैर्न किञ्चिदपि शिक्षितमस्ति - इति खलु मे मतिः । अतोऽहं विचारयामि यद् न कोऽपि जनः केवलमुपदेशश्रवणेनैव निर्वाणं प्राप्नुयात्, तथा हे भगवन् ! भवच्चित्ते यदा ज्ञानप्रबोधो जातस्तत्क्षणीयां परिस्थितिं भवानपि न कमपि जनं शब्दरुपदेशैर्वा विवरीतुं शक्तः । परमज्ञानिनो बुद्धस्योपदेशो हि बहून् विषयान् व्याप्नोति, प्रभूतं शिक्षयति - सदाचारेण कथं जीवितव्यम्, असत्पथश्च कथं परिहर्तव्यः - इत्यादि । किन्तु भगवता - लक्षेष्वेकेनैव केवलं - स्वयं यदनुभूतं तस्य निर्देशोऽपि ह्यस्मिन् स्पष्टे सारवति चोपदेशे नैव प्राप्यते । इदमेव भवदुपदेशश्रवणकाले मया विचारितं समनुभूतं च । अत एवाऽहं मम स्वमार्गे एव गमिष्यामि, नाऽन्यं श्रेष्ठं वा सिद्धान्तं धर्मं वा मृगयितुं, यतोऽहं जानामि यत् - स नाऽस्त्येव - किन्तु, सर्वान् सिद्धान्तान् गुरूंश्च परिहर्तुं तथैकाक्येव मम ध्येयं प्राप्तुं मर्तुं वा । परन्तु, भगवन् ! अहं सदैव स्मरिष्यामि दिनमिदं क्षणं चेमं - यदा किल कश्चन
६९
Page #78
--------------------------------------------------------------------------
________________
पवित्रो महापुरुषो मम दृष्टिपथमागत इति" |
बुद्धस्याऽक्षिण्यवनते जाते तस्याऽलब्धतलं वदनं पूर्णसमवृत्तिमभिव्यक्ति स्म ।
सोऽतीव मृदुतयोक्तवान् – “भवत ऊहः क्षतिमुक्तः स्यादित्याशासेऽहम् । भवान् स्वीयं ध्येयं प्राप्नुयात् । किन्तु कथयतु माम् - किं भवता मम भिक्षूणां सङ्घो दृष्टो वा ? - दृष्टा वा एते मम भ्रातरो ये ममोपदेशं प्रति समर्पिता: ? किं भवान् चिन्तयति भोः श्रमण ! यन्मदुपदर्शितं मागं त्यक्त्वा सांसारिकं तष्णामयं च जीवनं प्रति निवर्तनं श्रेयस्करमेतेषामचितं प्रतिभायात खल?".
"अयं विचारो नैव कदाऽपि मम चित्ते आपतितः प्रभो!" - सिद्धार्थ उच्चैः कथितवान् । "एते सर्वेऽपि कामं भवदुपदेशमनुसरन्तु तेषां ध्येयं च सिद्धं भवतु । अन्येषां जीवनं परिच्छेत्तुं नाऽर्हाम्यहम् । मया तु केवलं मम जीवनमेव परिच्छेत्तव्यम् । तथा तदर्थमेव मया किञ्चित् ग्रहीतव्यं त्यक्तव्यं वा । वयं श्रमणा हि स्वस्मिन्नेव मुक्तिं गवेषयामो भगवन् !" ।
"यद्यहं भवदनुयायी स्यां तदा मम भयमस्ति यत् - केवलमहं बाह्यत एव स्यां, तथा, आत्मवञ्चकोऽप्यहं स्यामेव यथा - अहं शान्तो जातोऽस्मि - मम निर्वाणं प्राप्तमस्ति - इत्यादि । किन्तु वस्तुतो ममाऽस्मिताऽहंता च सजीवा वृद्धिङ्गता चैव भवेत्, यतः सा खलु भवदुपदेशानुसरणेन भवद्विषये भवतो भिक्षुसङ्के च समर्पणेनऽनुरागेण च परावर्तनं प्राप्येत" ।
अविचलप्रकाशेन मैत्रीभावेन च बुद्धः स्मितलेशं कुर्वन् सिद्धार्थं किञ्चिद्वेलं निश्चलतया निरीक्षितवान्, ततो दुर्लक्ष्येण मुखभावेन स तं गन्तुं निर्दिशन्नुक्तवान् -
"भवान् चतुरोऽस्ति भोः श्रमण !, चातुर्यपूर्णं वक्तुं जानात्यपि भवान् । किन्तु मित्र ! अतिचातुर्यं प्रति सावधानो भवतु" ।
बुद्धस्ततो निर्गतः, किन्तु तस्य दृष्टिः स्मितं च सिद्धार्थस्य स्मृतिपटे शश्वत्तया मुद्रिते जाते । सोऽचिन्तयत् – 'न कदाऽपि मया कश्चिज्जन एवं पश्यन्, इत्थं च स्मितं कुर्वन्, इत्थमुपविशन् इत्थं च चलन् दृष्टः । अहमपि ह्येवंरीत्यैव द्रष्टुं चलितुं स्मयितुमुपवेष्टुं चेच्छामि - सर्वथा मुक्तः, सर्वथा सज्जनः, सर्वथा संयतः, सर्वथा सरलः, सर्वथा बालसदृशो रहस्यमयश्च । जनस्तादृशं द्रष्टुं चलितुं च तदैव प्रभवेद् यदा तेन स्वात्मा विजितो भवति । अहमपि स्वात्मानं जेष्यामि' ।
'मयैकोऽयमेव मनुष्योऽद्यावधि दृष्टो यत्पुरतो ममाऽक्षिणी नते भवतः । इतः परं मेऽक्षिणी अन्यस्य पुरतो नैव नमेताम् । न चाऽप्यन्यस्य कस्यचिदुपदेशो मामाकृषेत् कदापि, यतो ह्यस्य जनस्योपदेशेनाऽपि नाऽऽकृष्टोऽहम्' ।
_ 'बुद्धेनाऽनेन मुषितोऽस्म्यहम्' – पुनः सोऽचिन्तयत्, 'यद्यपि तेन मे किञ्चिदधिकमूल्यं वस्तु प्रदत्तं तथाऽपि तेन मुषितोऽस्मि । स मम मित्रं मत्तो मुषितवानस्ति । यो मे सुहृत् माममन्यत सर्वदैव, सोऽधुना तं मन्यते; यो हि मम प्रतिच्छायीभूत आसीत् सोऽधुना तस्य गौतमस्य प्रतिच्छायाऽस्ति । किन्तु तेन भगवता मह्यं प्रदत्तोऽस्ति सिद्धार्थः - मम स्वात्मा !!' ।
Page #79
--------------------------------------------------------------------------
________________
४. जागरणम्
यस्मिन्नुपवने पूर्णपुरुषो बुद्धोऽवस्थित आसीद् यत्र च स्वमित्रं गोविन्दोऽवस्थितस्तदुपवनान्निर्गतः सिद्धार्थोऽनुभूतवान् यत् 'तस्य पूर्वतनं जीवनं स तत्रैव त्यक्त्वा निर्गतोऽस्तीति । शनैः शनैः स्वमार्गे गच्छतस्तस्य मस्तिष्कमेतेनैव विचारेण पूरितं जातम् । यावदेषाऽनुभूतिस्तं पूर्णतयाऽऽक्रान्तवती तावत् स गभीरतया चिन्तितवान् । चिन्तयन्नेव स तं बिन्दुं प्राप्तो यत्र स हेतूनवगतवान् । तस्य प्रतिभातं यद् हेतूनवगन्तुं विचारा आवश्यकाः, विचारद्वारैव चाऽनुभूतयो ज्ञानतया परिणमन्ति नष्टाश्च नैव भवन्ति, किन्तु सत्याः परिपक्वाश्च भवन्ति ।
स्वमार्गेऽग्रेसरतः सिद्धार्थस्य मनसि गभीरं चिन्तनं प्रवर्तते स्म । सोऽनुभूतवान् यदिदानीं स नाऽस्ति तरुणो युवा वा, अपि तु स पुरुषः सञ्जातोऽस्ति । सोऽनुभूतवान् इदमपि यत् किञ्चिद् वस्तु तस्याऽस्तित्वान्निर्मुक्तमस्ति यथा हि सर्पशरीरात् कञ्चुकः । तत् किञ्चित् तस्याऽस्तित्वे नाऽऽसीदिदानीं यद्धयातारुण्यात् तदनुषक्तमासीत् - ननु यदस्तित्वस्य भागरूपमेवाऽऽसीत् । तद्ध्यासीद् गुरुप्राप्तेस्ततश्च ज्ञानप्राप्तेः स्पृहा । स्वजीवनस्याऽन्तिमं गुरुं महान्तं महाज्ञानिनं पवित्रतममपि च गुरुं - बुद्धं सोऽधुनैव त्यक्तवान् आसीत् । स तेन त्यक्तव्य एवाऽभवत्, तदुपदेशं स्वीकर्तुं स सोत्कण्ठो नाऽऽसीत् ।
शनैः शनैः स्वमार्गे गच्छन् स स्वमेव पृष्टवान् - 'तत् किमस्ति यत् त्वमुपदेशाद् गुरुभ्यश्च बोद्धुमिष्टवान् ? तथा, यद्यपि ते त्वां बह्वन्यच्छिक्षितवन्तस्तथाऽपि तत् किमासीत् यत् ते त्वां बोधयितुमक्षमा जाता: ?' चिन्तयता तेन ज्ञातम् – 'आम् - तद्ध्यासीत् मम आत्मा । अहं हि तस्यैव स्वभावं प्रकृतिं च ज्ञातुमुत्सुक आसीत् । अहं हि स्वात्मानं मोचयितुं - तं जेतुमिष्टवान्, किन्तु नाऽहं तं जेतुं क्षमो जात:, अहं केवलं तस्य वञ्चको जातः, केवलं पलायितः केवलं च ततोऽन्तर्हितो जातः । सत्यं, नाऽस्त्यस्मिन् जगति ततोऽन्यद् येन मम चित्ततन्त्रमाक्रान्तं स्यात् । आमियमेव प्रहेलिका, यदहं जीवामि, अहं एकलः, सर्वेभ्यश्चाऽन्येभ्योऽहं भिन्नो विच्छिन्नश्च, अहं सिद्धार्थः । तथाऽस्मिन् जगति अहं स्वं सिद्धार्थं मुक्त्वा नाऽन्यवस्तुविषये इयदल्पतरं जानामि' ।
चिन्तयन् गच्छंश्च स सहसैवाऽनेन विचारेण गृहीत इव तत्रैव स्तम्भितो जातः, एतस्माच्च विचारादन्योऽपि विचारस्तत्क्षणमेव समुद्भूतः, यथा - 'कथमहं स्वविषये इयदल्पं जानामि - कथं च सिद्धार्थो ममेयानपरिचितोऽज्ञातश्च - इत्यस्य कारणमेकमेव, केवलमेकं तदस्ति - अहं स्वस्मादेव भीत आसम्, स्वस्मादेव पलायनं कुर्वन्नासम् । अहं ब्रह्माऽन्विषन्नासम्, आत्मानं गवेषयन्नासम् – अज्ञातमन्तस्तमं, I सर्वेषां वस्तूनां मूलतत्त्वमात्मतत्त्वं, जीवनतत्त्वं, दिव्यतत्त्वं, नित्यतत्त्वं प्राप्तुम् । किन्तु, हन्त एतत् कुर्वन्नहं स्वमेव भ्रंशितवान् - अहं स्वमेव नाशयितुमिष्टवान् ।'
-
सिद्धार्थो दृष्टिमुन्नीय परितो विलोकितवान् । तन्मुखे स्मितं विलसितमीषत्, तत्क्षणमेव तस्य समग्रेऽप्यस्तित्वे दीर्घस्वप्नाज्जागरणस्य दृढाऽनुभूतिः प्रसृता । तत्कालमेव स ततोऽग्रेऽसरत्, त्वरितं, यथा
७१
Page #80
--------------------------------------------------------------------------
________________
कश्चित् स्वकर्तव्यं जानानः शीघ्रतया गच्छेत् तथा ।
चिन्तनं तु प्रवर्तमानमेवाऽऽसीत् – 'आम्', दीर्घ श्वसन् स चिन्तितवान् – 'इतः परं, सिद्धार्थात् पलायितुं नाऽहं प्रयतिष्ये । आत्मविषयान् संसारदुःखविषयांश्च विचारान् नैव करिष्ये । खण्डगृहाणां रहस्यानि ज्ञातुं नाऽहं स्वं छिन्नभिन्नं नष्टं वा कर्तुं यतिष्ये । योगाध्ययनं वेदाध्ययनं श्रामण्याभ्यासमन्यं वा कञ्चिदभ्यासं नैव करिष्ये। अहं हि स्वस्मादेव शिक्षणं ग्रहीष्ये, स्वस्यैव शिष्यो भविष्यामि, सिद्धार्थस्य च रहस्यं ह्यहं स्वस्मादेवाऽवगमिष्यामि' ।
समग्रमपि विश्वं दिम्प्राथम्येन पश्यन्निव स परितो व्यलोकयत् । तत् सुन्दरमपूर्वं रहस्यमयं चाऽभासत । विश्वं ह्यत्र नीलमासीत् पीतमासीत् हरितं चाऽपि विलसदासीत्, आकाशं नदी वृक्षाः पर्वताः - सर्वमपि सुन्दरतमं रहस्यमयं मनोमोहकं, तन्मध्ये च सः - सिद्धार्थः - जागृतः - स्वात्मनो मार्गे गन्तुं सज्जः स्थित आसीत् । सर्वमप्येतत् - सर्वं पीतं सर्वं नीलं, नदी वृक्षाः आकाशं - सर्वमपि - ऐदम्प्राथम्येन तस्य नयनयोः पुरतः समागतम् । नाऽऽसीदिदं मारस्येन्द्रजालं, न चाऽपीदं मायाया आवरणमासीत्, नाऽऽसन्नेतेऽर्थहीना दैवकृताश्च जगतो नैकविधा आभासा ये हि वैविध्यविरोधिभिरद्वैतशोधकैश्च गभीरचिन्तनशीलैाह्मणैस्तिरस्कृता आसन् । नदी नद्येवाऽऽसीत् । तथा यदि सिद्धार्थात्मनि निगूढतया विद्यमानमैक्यं दिव्यत्वं च यदि नीले नभसि नद्यां च विद्यमानमासीत् तर्हि तत् केवलं दिव्या कला दिव्यश्च सङ्कल्प एवाऽऽसीद् यत् पीतेन नीलेन च भवितव्यमेव, तत्राऽऽकाशेन वृक्षैश्चाऽत्र च सिद्धार्थेन । अर्थो वास्तविकता च न कुत्रचिद् वस्तूनां पृष्ठतो निलीने किन्तु ते वस्तुष्वेव सङ्कलिते स्तः सर्वेष्वेव वस्तुषु ।
'अहं कीदृशो मूों जडश्चाऽऽसम्' । शीघ्रं चलन् स व्यचारयत् । 'यदा कश्चिज्जनः किञ्चित् पिपठिषुस्तदधीते, तदा स तदक्षराणि विरामचिह्नानि वा नैवाऽवगणयति नाऽपि तानि भ्रमजालमाकस्मिकं व्यर्थं चेत्येवमुपेक्षते; किन्तु स तानि अक्षराणि पठति, सम्यगभ्यस्यति, प्रेम्णा चाऽऽत्मसात् करोति । किन्तु जगतः पुस्तकं पिपठिषुरपि, स्वीयप्रकृतेरभ्यासं चिकीर्षुरप्यहं तदक्षराणि विरामचिह्नानि चोपेक्षितवान् अविचारितया । साकारं जगदहं भ्रमणारूपेण निन्दितवान् । नेत्र-जिह्वादीन्यक्षाण्यहमाकस्मिकानि मन्वानोऽवधीरितवान् । परन्त्विदानीं तत्सर्वमवसितमस्ति । अहमुज्जागरितोऽस्म्यद्य, नूनमहमुज्जागरितोऽस्मि, अद्यैव च मया पुनर्जन्म प्राप्तमिव' ।
यदा चैते विचारास्तस्य चित्ते स्फुरिताः, स सहसा तत्रैव, सर्पं दृष्ट्वेव, स्थिरो जातः । अथ च तदैव सहसा तन्मनस्येतदपि स्पष्टं जातं यत् - येनोज्जागरणं नवजन्म वा प्राप्तमासीत्, तेन स्वजीवनमपि पूर्णतया पुनर्नवत्वेनैवाऽऽरब्धव्यमस्तीति ।
यद्यपि, यदा स पूर्णपुरुषस्य भगवतो बुद्धस्य निवासस्थानाद्-जेतवनान्निर्गत आसीत् तदा तस्य ध्येयं गृहगमनमासीत्, तथा वर्षाणां संन्यासानन्तरं पितृपार्वे गमनस्येच्छा तस्य सहजतयैवोचिता प्रतिभाताऽऽसीत् । तथाऽपि, यदा स तस्मिन् क्षणे सर्प दृष्टवानिव स्थिरोऽभवत् तदाऽन्योऽपि विचारस्तस्य
७२
Page #81
--------------------------------------------------------------------------
________________
चेतसि प्रादुर्भूतः - 'नाऽहं सोऽधुना योऽहमासम्, नाऽहमिदानीं संन्यासी, न च पुरोधाः नाऽपि च ब्राह्मणः । एवं सति पितृपाइँ गत्वा किंवाऽहं करिष्ये? किं वेदाध्ययनं? किं वा यज्ञविधानम् ? अथवा किं ध्यानाभ्यासं ? नैव नैव ! एतत् सर्वमपि मत्कृतेऽवसितमेवाऽधुना किल !'।
एवं चिन्तनपरः सिद्धार्थः स्थिरतया स्थितस्तावता हिमशीतलतेव तं सर्वत आक्रान्तवती । कस्यचिल्लघुप्राणिन इव, असहायपक्षिण इव, भयभीतशशकस्येव स कम्पितुमारब्धो यदा तेनाऽवबुद्धं स्वीयमेकलत्वम् । बहुवर्षेभ्यः पूर्वमेव स गृहादिकं त्यक्तवानासीत् तथाऽपि तच्चित्ते ईदृशं भयं नैवाऽनुभूतमासीत् तेन ।
पूर्वं हि, त्यक्तसर्वसङ्गोऽपि स्वहृदयस्याऽज्ञातगभीरतायां सोऽद्याऽपि स्वपितुः पुत्र आसीत्, प्रतिष्ठितो ब्राह्मण आसीत्, धार्मिको जन आसीत् । किन्त्वधुना, स केवलं सिद्धार्थ आसीत् - प्रबुद्धः सिद्धार्थः, अन्यथा नाऽन्यत् किमपि । दीर्घ श्वसित्वा विचारयन् स पुनरपि प्रकम्पितोऽभवत् - तत्सदृश एकलो जनो नाऽऽसीत् कोऽपि । स नाऽऽसीत् इदानीमुच्चकुलसम्बन्धी कश्चन कुलीनो जनः, नाऽऽसीच्च स तत्तद्भाषया व्यवहरन् तदनुरूपं च जीवन् कश्चन शिल्पी व्यावसायिको वा तत्तत्समाजसभ्यः, नाऽपि स ब्राह्मणजीवनं यापयन् ब्राह्मण आसीत्, न चाऽपि स परिव्राजकानामन्यतमस्तपस्वी संन्यासी वाऽऽसीत् ।।
सर्वथा विविक्तसेवी घनारण्यवासी च तापसोऽपि नाऽऽसीदेकल एकाकी वा यतस्तस्याऽपि समाज आसीत् । यो भिक्षुकोऽभवत् स गोविन्दोऽपि स्वजातीयैः सहस्रशो भिक्षुकैः सह तेषामेव भाषया व्यवहरन् तत्तुल्यवस्त्रं धारयन् तत्सदृशीं च श्रद्धां वहन् जीवति स्म । किन्तु सिद्धार्थः ? स कस्य समाजस्य प्रतिनिधिरासीत् ? केषां सदृशं जीवनं स जीवेत् ? केषां च भाषां स भाषेत ?
तस्मिन् क्षणे, यदा तस्य सम्पूर्णमपि जगत् विलीनमिव प्रत्यभात्, यदा स गगनस्थितः कश्चनैकल उडुरिव तिष्ठति स्म, यदा च नैराश्यस्य हिमशैत्येन स कम्पमान आसीत् तदाऽपि स दृढतयाऽपूर्वतया स्वस्थ आसीत् । अयमासीत् जागरणात् पूर्वं तस्याऽन्तिमः कम्पः, जन्मतः पूर्वाऽन्तिमा वेदना च । क्षणार्धेनैव स्वस्थीभूय सदाढ्यं शीघ्रं सोत्कण्ठं च प्रस्थितः सः, न गृहं प्रति, नाऽपि पितरं प्रति, नाऽपि च पृष्ठं विलोकयन्, किन्तु नूत्नामेव काञ्चिद् दिशं प्रति ।
[अनुवर्तते]
Page #82
--------------------------------------------------------------------------
________________
मर्म गभीरम् मुनिकल्याणकीर्तिविजयः
(१) अहं नैव जानामि....
एकदा गुरुणा निजशिष्येभ्यः कथितं – 'यत्र प्रकोष्ठे वयमुपविष्टाः स्मस्तस्य दैर्घ्यं कियदित्येकस्मिन् पत्रखण्डे लिखित्वा दीयताम् ।
पञ्चषैः क्षणैरेव सर्वैः पत्रखण्डेषु स्वाभिमतं दैर्घ्यं लिखित्वा प्रदत्तम् । गुरुणा सर्वेऽपि पत्रखण्डाः पठिताः । प्रायः सर्वैरपि पूर्णाङ्गैरेव तल्लिखितमासीद् यथा - ५०फीटमानं, ६५फीटमानं, ६०फीटमानमित्यादि। द्वित्रजनैस्तु तत्र 'प्रायः' इति शब्दोऽपि योजित आसीत् ।
अथ गुरुणा कथितं – 'नैकतमोऽपि वास्तविकमुत्तरं लिखितवान् !' 'एवं, तहि वास्तविकमुत्तरं किमस्ति ?' – तैः पृष्टम् । 'वास्तविकमुत्तरमस्ति - "अहं नैव जानामि ॥" इति' – गुरुः स्मित्वा कथितवान् ।
(२) उपदेशकः
अन्यदा गुरुणोपदेशकाः कीदृशा भवन्ति - इत्यर्थे रूपकमेकं कथितम् ।
एका शतपदी ज्ञानवृद्धस्योलूकस्य पार्श्वे गत्वा कथितवती – 'मां वातरोगः (Gout) पीडयति पादेषु । मे प्रत्येकं पादा वेदनाक्रान्ताः सन्ति । कृपया कमप्युपायं सूचयतु' ।
पर्याप्तमात्रया गभीरं विचारं कृत्वोलूकेन कथितं – 'भोः शतपदि ! भवती चिक्रोड(Squirrel)रूपेण परावर्तनं प्राप्नोतु । तथा कृते च भवत्याः चत्वार एव पादा अवशिष्यन्ते, फलतश्च ९६प्रतिशतं वेदना दूरीभविष्यति' ।
७४
Page #83
--------------------------------------------------------------------------
________________
एतदाकर्ण्य हृष्टा शतपदी कथितवती - 'अहो ! श्रेष्ठोऽयमुपायः प्रतिभाति । किन्त्वधुना चिक्रोडरूपेण परावर्तनं कथं प्राप्तव्यमित्यपि निर्दिशत्' ।
'एतत् सर्वं पृष्ट्वा मां मा पीडयतु । मम कार्यं तु केवलमुपायविचारणमेव । तत्कथं साधयितव्यमिति तु भवच्चिन्ताविषयः !!' इत्युक्त्वोलूकस्तूष्णीमभवत् ।
(३)
कुत्र गन्तव्यम् ? अद्यतन-तन्त्रविज्ञानस्योपलब्धिविषये पृष्टे गुरुणा निदर्शनमेकं प्रदत्तम् –
एकस्य शून्यमनस्कस्य प्राध्यापकस्यैकदाऽध्यापनार्थं गमने विलम्बो जातोऽतः स एकस्मिन् टेक्सि-याने झटित्युपविश्य चालकं समादिशत् – 'भोः ! त्वरस्व, पूर्णवेगेन चालय' ।
चालकोऽपि यानं पूर्णवेगेन चालितवान् । तदा प्राध्यापकेनाऽवगतं यत् कुत्र गन्तव्यमिति तु स चालकं नैवोक्तवानासीत् । अतः स उच्चस्तं पृष्टवान् - 'भोः ! किं त्वं जानाति - कुत्र मया गन्तव्यमिति?'।
'नैव महाशय !, किन्त्वहं यथाऽधिकेन वेगेन चाल्येत तथा चालयन्नस्मि !!' इति कथितवान् सः ।
(त्रयमप्येतत् One Minute Nonsense
इति पुस्तकाधारेण लिखितम्)
(४) तत् स्थानं रिक्तमस्ति.....
[पूर्वं किल अमेरिकादेशे दासक्रय-विक्रयप्रथाऽऽसीत् । कृष्णवर्णान् जनान् श्वेतवर्णीया स्वीयदासत्वेन क्रीणन्ति स्म, तैः पशुवत् कार्यं कारयन्ति स्म, भृशं च पीडयन्ति स्म । एतेन त्रस्तः कश्चन दासो यदि पलायेत तदा स निगृह्य कठोरतया दण्ड्यते स्म । एवंस्थितेऽपि जीवमात्रस्य स्वातन्त्र्याभिलाषित्वात् बहवो दासाः पलायन्ते स्म, गृहीताश्च दण्डमपि प्राप्नुवन्ति स्म ।]
एकदा पलायित एको दासो रक्षकैर्गृहीतो न्यायालये चोपस्थापितः । न्यायाधीशेन पृष्टः सः - 'किं ते स्वामी त्वां ताडयति ?'
तेनोक्तं - 'नैव प्रभो !' ।
७५
Page #84
--------------------------------------------------------------------------
________________
'तर्हि किं स उदरपूरमन्नं न प्रयच्छति वा ?' 'न स्वामिन् !, स पर्याप्तं भोजनं प्रदत्ते' ।। 'तदा किं त्वं पर्याप्तमात्रया वस्त्राणि न लभसे ?' 'तान्यपि पर्याप्ततया लभेऽहम्' । 'एवं, तर्हि स किं त्वयाऽत्यधिकं कार्यं कारयति ?' 'न प्रभो ! एवमपि वक्तुं न शक्यम्' । 'तर्हि किं ते निजस्वामिनं प्रति काचिदन्याऽऽपत्तिरस्ति वा ?' 'न महाशय ! मम स्वामी तद्गृहजनाश्चाऽत्यन्तं दयालवो वत्सलाश्च सन्ति' ।
एतदाकर्ण्य विस्मितेन न्यायाधीशेन कथितं – 'भोः ! यदि ते स्वामी त्वां न ताडयति, पर्याप्तमन्नवस्त्रादिकं ददाति, अत्यधिकं कार्यं न कारयति, दयालुर्वत्सलश्चाऽप्यस्ति तहि किमर्थं त्वं सुखमिदं त्यक्त्वा पलायितः ?'
कञ्चित् कालं तूष्णीं स्थित्वा तेनोक्तं – 'तहि प्रभो !, तत् स्थानमितोऽपि रिक्तमेवाऽस्ति, भवानपि तद् ग्रहीतुमर्हति..... !!' ।
(५)
एष तु मम भ्राताऽस्ति.... पर्वतस्याऽऽरोहणं कठिनमासीत् । सर्वेऽपि यात्रिकाः श्रममनुभवन्तो निजं सर्वमपि भारमुपस्करं चाऽपनीयैवाऽऽरोहन्त आसंस्तथाऽपि वेगेन श्वसनं कुर्वाणाः श्लथीभूताऽदृश्यन्त । यात्रिकेष्वेका द्वादशवर्षदेशीया बालिकाऽप्यासीद् यस्या अङ्के चतुर्वर्षदेश्यो बाल आसीत् । साऽपि बालिका पर्वतमारोहन्त्यासीत्, किन्त शनैः शनैः ।
अथ च तामेवमारोहन्तीं दृष्ट्वा दयालुतां प्रदर्शयन् कश्चन पृष्टवान् - 'अयि बालिके! एनं लघुबालमुत्पाट्याऽऽरोहसि, तत् किं भारो नाऽनभयते वा ?'
तया मधुरतयोक्तं - 'भारो ? नैव भोः !, अयं तु मम भ्राताऽस्ति.... !!' ।
७६
Page #85
--------------------------------------------------------------------------
________________
रङ्गमञ्चः
विरञ्चिवञ्चनम् प्रा. अभिराजराजेन्द्रमिश्रः
(प्रविशति धर्मासनस्थो यमराजः सचित्रगुप्तः) यमराजः (चित्रगुप्तं प्रति)
भो चित्रगुप्त ! किमद्यतनं कार्यजातम् ? चित्रगुप्तः स्वामिन् ! भवदादेशमनुसृत्य प्रयागवास्तव्यो बाघम्बरीमार्गाभ्यस्तः कपालीनामा
कविरद्याऽऽनीतः । किं तस्य करणीयम् ? श्रुत्वा देवः प्रमाणम् । यमराजः (स्मृति नाटयन्)
हंहो ! स एव कपाली, यत्प्रणीतं यमधिक्कृतिशतकं क्वचित् पत्रिकायां प्रकाशितञ्च भवता
प्रदर्शितमासीत् ? चित्रगुप्तः देव ! अथ किम् ? स एव कपाली ! अतीवाऽसहिष्णुः स्वाभिमानपरायणश्चाऽयमासीत् । यमराजः तदकाले मृतः काले वा ? चित्रगुप्तः देव ! किमत्र कथयानि ? ह्यस्तने सान्ध्यकाले कस्याञ्चित् काव्यगोष्ठयां स्वोपज्ञां गलज्जलिकां श्रावयन्नासीत् -
शाम्यन्त्वकारणवैरिणां यदि बुद्धिदुर्भावाः क्वचिदपगते मयि केवलं तन्मरणमेव वृणे ॥ कस्याऽपि राज्यारोहणे यदि विघ्नभूतोऽहम् । तर्हि तं विघ्नं निहन्तुं मरणमेव वृणे । यदि यशश्चन्द्रस्य कस्याऽप्यस्मिराहुरहम् । तर्हि धिङ् मे जीवितत्वं मरणमेव वृणे ।। पुनर्जननं मे ध्रुवं मरणेन का हानि: ? किन्त्विमे सुखिनो भवेयुर्मरणमेव वृणे !!
Page #86
--------------------------------------------------------------------------
________________
यमराजः (साश्चर्यम्) एवम् ? ततस्ततः ? चित्रगुप्तः स्वामिन् ! ततः किम् ? गलज्जलिकावसानेऽयं सविनयं सर्वानभिवाद्य मञ्चोपर्येव मुहूर्त
निषण्णः हरिः ओमिति स्फुटमुच्चार्य स्वेहलीलासंवरणं कृतवान् । यमराजः (चकितस्सन्) अहो ! अद्भुतम्, अद्भुतम् । इतः प्राक् एतादृशं न मया श्रुतम् । तन्मन्ये
नेदमकालमरणम् । कपाली समुचिततमे काले एव प्राणयात्रां पूरितवान् । इच्छामृत्युरयम् । चित्रगुप्तः युक्तमाह देवः । ममाऽपीदमेव चिन्तनम् । यमराजः तथाऽपि धिक्कारशतकैर्मी दूषितवन्तं तं सम्मुखमानय । तं विचित्रजीवं प्रत्यक्षीकर्तुमिच्छामि । चित्रगुप्तः यथाऽऽज्ञापयति देवः ।
(यमदूतानाज्ञापयति । ते च कपालिनमानयन्ति) चित्रगुप्तः (सङ्केतयन्) सोऽयं कपाली । पश्यत्वेनं देवः ।
(कपालिनं प्रति) भोः कपालिन् ! अयं हि त्रैलोक्यकर्मविपाकसंहितासूत्रधारो धर्मराजः ।
प्रणामेनाऽऽचारं प्रतिपद्यस्व तावत् । कपाली (सपारुष्यम्) भो मत्प्रणम्या तु केवलं पराम्बा भगवती योगमाया । तदङ्गभूतं मत्वैव
धर्मराजमपि प्रणमामि [इति प्रणमति] । चित्रगुप्तः भोः पराम्बाभक्तः प्रतीयसे । अस्ति कश्चिद् विशेषः ? कपाली अथ किम् ! पराम्बा तावत् परा अम्बा । समेषामम्बा । समेषामम्बा । समेषां जीवानामम्बा ।
सा करुणामयी, ममतामयी, वात्सल्यमयी। सैवैका भक्तानामाति पश्यति, शृणोति, निवारयति
चित्रगुप्तः पराम्बया किमुपकृतं तव ? कपाली चित्रगुप्त ! पृच्छ तावत्, किं नोपकृतम् ? बभक्षायां तयैव भोजितोऽस्मि । अनिद्रायां तयैव
शायितोऽस्मि । सङ्कटे तयैव रक्षितोऽस्मि । यमराजः भद्र कपालिन् ! किं पराम्बाकृपागर्ववशादेव मां निन्दितवानसि धिक्कृतिशतकैः? । कपाली प्रभो ! अलम्मामन्यथा सम्भाव्य । धिक्कृतिशतकं तावद् व्यङ्ग्यकाव्यम् । तत्र भवान्
विडम्बित: कविना । तथाऽपि न भवान् तत्र धिक्कृतीनां साक्षाद् विषयः । लोकरावणान् चिरायुष्कान्, समाजमङ्गलविधातूंश्चाऽनवसरमृतानवेक्षमाणः कविः कमन्यमुपालभेत ?
जीवनमृत्युसन्दर्भे तु भवन्त एव प्रमाणम् । यमराजः (प्रह्वीभूय) साधु साधु ! अपगता मे भ्रान्तिः । परं प्रीतोऽस्मि ते । सम्प्रति ब्रूहि किं वाञ्छति
भवान् ? स्वर्गे विश्रामं, मर्त्यलोके पुनर्जन्म वा ? कपाली प्रभो ! देवकाम्यं भूतलरत्नं भारतं विहाय किमपटोऽपि कोऽपि स्वर्गो वर्तते? तत्रैव पुनर्गन्तु
मिच्छामि । यमराजः भद्र ! पारमाथिकं स्वर्ग न दृष्टवानसि । तत एव ब्रवीष्येवम् । भूतलरत्नं तु वर्तते भारतम् ।
७८
Page #87
--------------------------------------------------------------------------
________________
पाता ।
तदहमपि स्वीकरोमि । किन्तु स्वर्गलभ्यं किन्न वर्तते तत्र? कपाली तत्र वर्तते देवतात्मा हिमालयः । वर्तते तत्र दर्शनमात्रेण मुक्तिदायिनी सिद्धसिन्धुगंगा । वर्तते
तत्र शम्भुत्रिशूलाग्रस्थिताऽविमुक्तक्षेत्रा काशी । साक्षान्निवसति तत्र तिरुपतिर्बालाख्यो नारायणः सपद्मावतीकः । पदे-पदे विलसन्ति तत्र शाक्तशैववैष्णवादितीर्थानि । का कथा मादृशां
मानवानाम् ? देवाः स्वयमपि भारतभुवं तां निमेषमात्रमपि त्यक्तुं नेच्छन्ति । किमाह भवानत्र? यमराजः युक्तमाह भवान् । भारतं तु नारायणस्याऽपि प्रियं भूखण्डम् । परन्तु किं सुखमवाप्तं त्वया
तत्र? कपालिन् ! यथाऽहं तव जन्मलग्नपत्रमिदमवलोकयामि तेन समस्तजीवनमेव ते
सङ्कटाक्रान्तं परिलक्ष्यते । त्वया सुखलेशोऽपि नोऽवाप्तः । कपाली प्रभो ! जन्मपत्रिकेयं भगवता विरञ्चिना रचिता । सैव भवद्धस्ते विराजिता । परन्तु मत्पार्वे
वर्ततेऽन्या काऽपि जन्मलग्नपत्रिका मे । इयं मयैव लिखिता । एतदनुसारेणैव मयाऽत्मजीवनं
यापितम् । पश्य तावदिमाम् । आद्यन्तं मङ्गलमयीयम् । (इति पत्रिका प्रदर्शयति) यमराजः (साश्चर्यम्) तव पार्श्वे त्वन्निर्मिता जन्मपत्रिका ? किमिदमुच्यते ? तत्रभवान् विरञ्चिरपि
वञ्चितस्त्वया? इयती ते शक्तिः? किमत्राऽऽश्चर्यं प्रभो ? किन्न श्रुतं भवता वाग्देवतावतारवचनम् - नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। किञ्च, अपारे खलु संसारे कविरेव प्रजापतिः ।
यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ।। देव ! परिभूः स्वयम्भूः सर्वतन्त्रस्वतन्त्रः कविः क्व निबध्यते विरञ्चिनिर्मितया जन्मलग्नपत्रिकया?
स एवाऽस्म्यहम् !! यमराजः तत् सार्धद्वयवर्षावस्थायामपि यद् भवान् पितृसौख्यवञ्चितो जातस्तन्नाऽऽसीत् महद्दौर्भाग्यम् ?
तद्विधानं तु विरञ्चेरेवाऽऽसीन्न ते ! कपाली प्रभो ! सौभाग्यदौर्भाग्ययोनिर्णयो जटिलः प्रतीयते । लक्षमिता जातका भवन्ति येषां पितरो
जन्मदातारो मद्यपाः खण्डितवृत्ता वेश्यागामिन आततायिनश्च भवन्ति । कीदृशं सौभाग्यं ते रचयन्ति स्वसन्ततीनाम् ? वस्तुतः पिता भवति संरक्षणहेतुः । असुरक्षितोऽहं जातो जनकाभाव
इत्यनुभवामि । परन्तु पित्रभावमात्रं न मन्ये दौर्भाग्यम् । यमराजः तज्जनकोचितसौख्यस्य पूर्तिः कथमिव जाता ? कपाली मातृसंरक्षणेन प्रभो ! यथा व्याघ्री स्वशिशूनप्रमादेन सेवते तथैव सेवितः संरक्षितः पालितः
पोषितश्चाऽहं, मम सहोदरौ च जनन्याऽभिराज्या । लिखितं मया, अभिराजी नाम्नाऽसि जननि ! तस्मादहमप्यभिराजः । त्वमसि मदर्थं यमुना गङ्गा भरतधराऽचलराजः ॥
७९
Page #88
--------------------------------------------------------------------------
________________
यत्किञ्चिदपि कुतोऽपि कदाऽपि क्वचिदपि ममाऽनुकूलम् । भूतभाविभवतां ननु तेषां त्वमसि जननि ! शुभमूलम् ॥
यमराजः (सप्रणयम्) साधु कपालिन् ! साधु । प्रशस्या ते मातृनिष्ठा । परन्तु कृतघ्नैर्निचिता भवज्जीवनयात्राऽवलोक्यते । प्रतिपदं तदाचरितं शाठ्यं, प्रवञ्चनं, विश्वासघातः, गोपितापाकरणं, शतमिताहितं च । तेभ्यः कथं मुक्तिरवाप्ता ?
I
कपाली प्रभो ! सर्वज्ञः सन्नपि कथं पृच्छति भवान् ? तथाऽपि स्वानुभवं वक्ष्यामि । कृतघ्नान् न जानामि, न परिचिनोमीति न । ते सर्वेऽपि मां निकषा मन्निर्मित एव भवने नक्तन्दिवं सुखं विलसन्ति । परन्तु ममोपजीविनस्ते वराकाः किं कुर्युः ?
यमराजः नाऽवगतो भवदभिप्रायः !
कपाली प्रभो ! यथा काष्ठे जन्म गृहीतवन्तः कीटाः काष्ठमेव स्वाश्रयभूतं कृन्तन्ति, भक्षयन्ति तथैव मदाश्रयाः कृतघ्नाश्चाऽपि मामेव भक्षितवन्तः । यथा काष्ठकीटा अनन्यगतिका विवशाश्च तथा कर्तुं तथैवेमे कृतघ्ना अपि । काऽपरा युक्तिर्देया मया ?
यमराज: अहो नु सहिष्णुत्वं ते ? कपालिन् ! चकितोऽहम् ।
कपाल देव ! तत एव कस्याञ्चिद् गलज्जलिकायां लिखितं मया -
देहि यस्मै त्रिवेणीकवेर्जीवितम्
तं सहिष्णुं विधेहीति सम्प्रार्थये इति ।
यमराजः कपालिन् ! देवा अपि प्रतीकारपरायणाः श्रूयन्ते । कार्तघ्न्यं तेऽपि न सहन्ते । यतो हि कृतघ्नता दहति हृदयं, लघयति च जिजीविषाम् । त्वया किमाचरितम् ?
कपाली
युक्तमाह देव: । परन्तु यथा कवचमण्डितं योद्धारं शत्रुनाराचा न व्यद्धुं शक्नुवन्ति तथैव हरिभक्तिकवचमण्डितं मां कृतघ्नता न व्यद्धुं शशाक । किञ्च कृतघ्नानहं तत्कृतघ्नताप्रकाशनक्षणे एव अकालमृतान् अनुभूय, तेभ्यस्तिलाञ्जलिं दत्तवान् । मम जीवनपञ्जिकायां तन्नामवन्ति पृष्ठान्येव न वर्तन्ते । तेषां कोऽप्यनुभव एव न वर्तते । अनुभव एव दुःखस्य भवत्येकमात्रं कारणमिति सुष्ठु जानन्ति देवपादा अपि ।
I
यमराज: (सविमर्शम्) कपालिन् ! गूढाभिप्रायं ते वचनम् ।
कपाली प्रभो ! नाऽत्र काचिद् गूढता । शास्त्राणामुपदेशामृतमिदम् । अपूरणीया आकाङ्क्षैव दुःखस्य मूलम् । यदि तादृशीमाकाङ्क्षामेव न कोऽप्यनुभवेत् तर्हि कथं नु दुःखमुत्पद्येत ? तन्निहतैव सर्वसुखमूलम् । देव ! यथा मयाऽपूरणीयाऽऽकाङ्क्षा नाऽनुभूता तथैव कृतघ्नानामस्तित्वमपि । अत एव न मे तज्जन्यं दुःखम् ।
यमराजः साधु कपालिन् साधु ! तद् भवान् स्वर्गं न कामयते ?
कपाली प्रभो ! विरञ्जिरचितं स्वर्गं न कामये । तेन स्वर्गेण न मे तृप्तिः ।
८०
Page #89
--------------------------------------------------------------------------
________________
यमराजः (प्रहस्य) कपालिन् ! किमपरोऽपि स्वर्गः वर्तते? स्वर्गस्तु विरञ्चिरचित एव । कपाली मैवं देव ! अपरोऽपि स्वर्गो वर्तते यो हि मया स्वयमेव रचितः । स वर्तते मदीयं जीवनम् ।
तस्मिन् स्वर्गेऽपि वर्तते परितोषस्यैरावतगजः । काव्यप्रतिभाया उच्चैःश्रवा अश्वः । साहितीवैभवस्य नन्दनवनम् । मधुस्वप्नानामाकाशगङ्गा !
तज्जीवनं तु मर्त्यलोक एव सम्भवति । अत एव स्वराष्ट्र भारतमेव गन्तुमिच्छामि । यमराजः (सकैतवम्) परन्तु भारतं तु सुविशालं राष्ट्रम् । कुत्र भवान् जिगमिषति ? कपाली (सङ्कटमिवाऽनुभवन्) युक्तमाह देवः । औदीच्यास्तु कृतघ्ना एव । प्राच्या गर्हितभक्ष्याः ।
प्रतीच्या मरुशुष्का देवमातृकाश्च । दाक्षिणात्याः पुनः धर्माचरणशुचयो रसिकाश्च । तद्
दक्षिणमेव मह्यं रोचतेतराम् । यमराजः (चित्रगुप्त प्रति) चित्रगुप्त ! एनं कवितल्लजं कावेरीतटवतिनि कस्मिंश्चिद् विद्याविनयकवित्व
सम्पन्ने द्विजगृहेऽद्यैव प्रेषय । मा खन्वयम् (इत्य|क्ते)..... कपाली मैवं मैवं भगवन् । क्षम्यतामयं मूढः । अतितरां रुचितेऽपि दक्षिणे नाहं जन्म ग्रहीतुमिच्छामि । यमराजः कपालिन् ! तत् किमिच्छसि ? अहं तु तवैव प्रियं कर्तुमिच्छामि । कपाली (अश्रूणि मोचयन्) प्रभो ! कृतघ्नसमवायसङ्कुले तस्मिन् औदीच्य एव प्रेषय माम् । किञ्च,
तस्मिन्नेव स्यन्दिकातटवतिनि द्रोणीपुरस्थद्विजाग्रहारे ममैव पूर्वजानां मम च गृहे सकृत्पुनर्मा
सम्भावय। कृतार्थो भविष्यामि । यमराजः (सप्रसादम्) वत्स कपालिन् ! परां प्रीतिमुपगतोऽस्मि त्वदीयं स्वजन्मभूमिप्रणयं दृष्ट्वा । तत्
स्वकाव्यरसेन मां मत्परिकरांश्च सन्तर्प्य गच्छ । कपाली यथाऽऽज्ञापयति देवः । (इति गायति) -
जगन्निर्वर्ण्य पाषाणोऽस्मि जातः अमृत्वैवाऽऽप्तनिर्वाणोऽस्मि जातः ॥
समे ज्ञातुं यतन्ते शुद्ध्यशुद्धी
सुवर्णानां कृते शाणोऽस्मि जातः । शिवोऽहं गल्लवादनमात्रतुष्टः क्षणेनाऽर्पितपरित्राणोऽस्मि जातः ।
पठित्वा देववाणीमिह धरित्र्याम्
मनुष्येष्वद्य गीर्वाणोऽस्मि जातः । शयेऽहं शारदोत्सङ्गे सलीलम् ।
तदङ्गुलिजन्यनिक्वाणोऽस्मि जातः ।। यमराजः (सालादम्) साधु साधु कपालिन् ! सम्प्रति गच्छ स्वकीयाग्रहारे, स्वकीय एव गृहे ।
समाज
८१
Page #90
--------------------------------------------------------------------------
________________
स्वतपोबलेन सम्यग्जानाम्यहं यत्तव भ्रातृव्यपत्नी सम्प्रति परिपक्वगर्भाऽऽसन्नप्रसवा च वर्तते । अद्यैव ब्राह्मे मुहूर्ते तद्गर्भादवतर । इयमेव ममाऽऽशीः । नूतनं ते जीवनं निष्कृतघ्नं मङ्गलमयं च स्यात् (इत्यपक्रान्तः) ।
(नेपथ्ये श्रूयते)
मङ्गलं मङ्गलं मङ्गलम् । भो भोः प्रतिवेशिनः ग्रामवासिनः ! श्रूयतां श्रूयताम् । इयं हि भोजशीतल-काशीराम-दुलार- रामानन्द - दुर्गाप्रसाद - देवेन्द्रमिश्रकुलवधूः पुष्करप्रिया सावित्री जातकं प्रसूतवती ससुखम् । सूतगृहगीतानि गीयन्ते सुवासिनीभिः । नृत्यन्ति च कुमारिकाः । वंशवृद्धिरियं गौतमगोत्रवतां भभयानाम् ।
॥ इति पटाक्षेपः ॥
॥ इति श्रीमद्गौतमगोत्रोत्पन्नदुर्गाप्रसादाभिराजीमध्यमतनूजन्मना देवेन्द्रसुरेन्द्रमध्यमसहोदरेण हर्षविषादादिसर्वयुग्ममध्यस्थेनाऽभिराजराजेन्द्रेण विरचितमेकाङ्कं विरञ्चिवञ्चनमवसितम् ॥
दोहावली-संस्कृतम् रचयिता प्रकाशकः
-
-
प्रा. स्वामिनाथपाण्डेयः
अभिव्यक्तिप्रकाशनम्
—
O
ग्रन्थपरिचयः
१-२/१/५३, आनन्दबाग, कनीगंज, अयोध्या, फैजाबाद (उ.प्र.)
पृष्ठानि
६२, मूल्यम् - रू. १५१/- प्रकाशनवर्षम् ई. २०१३
ग्रन्थेऽस्मिन् गोस्वामितुलसीदासविरचिता दोहावली सरलसंस्कृतेनाऽनुष्टुप् श्लोकैरनूदिताऽस्ति । आहत्य ५७३श्लोकाः सन्ति । भाषा सरला हृदयङ्गमा च वर्तते । एतादृशेन कार्येण संस्कृतवाङ्मयं समृद्धीकुर्वाणाय लेखकाय धन्यवादाः ।
८२
Page #91
--------------------------------------------------------------------------
________________
कथा
क्षमा
मुनिधर्मकीर्तिविजयः
दगडुः शकीलश्चेति नाम्ना द्वे मित्रे आस्ताम् । एकस्यां प्रतोल्यामेव तौ वसतः स्म । दगडोः पिता मृत आसीत् । ततो विधवाया मातुर्दगडुरेक एव पुत्र आसीत् । शकीलस्य पिता जीवति स्म किन्तु व्यसनी क्रोधी क्लेशी चाऽऽसीत् । कदाचित्तु स मासपर्यन्तं गृहे एव नाऽऽगच्छति स्म, यदाऽऽगच्छेत्तदा मद्यं पीत्वैवाऽऽगच्छेत् ।
दगडोर्माता 'काशीमा' तथा शकीलस्य जननी 'रहीमा' - इति द्वे अपि जनन्यौ समदुःखिन्यौ आस्ताम् । ततो द्वे अपि ते मीलित्वा कार्यं सुखदुःखयोर्वार्तालापं च कुरुतः स्म ।
८३
Page #92
--------------------------------------------------------------------------
________________
द्वयोरपि पुत्रौ न पठितवन्तौ । ततो दुर्भाग्यादुन्मार्गगामिनौ तौ जातौ । एकदा द्वयोर्मध्ये कलहो जातस्तेन तौ द्वौ परस्परं वैरिणौ जातौ । अनेकशो द्वयोर्मध्येऽभूद् युद्धमपि । एवं सत्यपि द्वयोर्जनन्योः सम्बन्धः प्रेमभावश्च तथैवाऽऽस्ताम् । प्रतिदिनं परस्परं संभूय वार्तालापं ते कुरुतः स्मैव ।
एकदा रहीमा गृहे एकाकिन्येवाऽऽसीत् । तदा दगडुशकीलयोर्मध्ये भयङ्करं युद्धं प्रवृत्तमिति तत्र च दगडुना शकीलो मारित इति च सा ज्ञातवती । दीनवदना साऽधः पश्यन्ती गृहे स्थिताऽऽसीत् । मार्गे जना 'नश्यन्तु-नश्यन्तु' इति वदन्त इतस्ततः प्रधावन्ति स्म । समीपवर्तिनो गृहजना झटिति गृहद्वारं पिधाय गृहे प्रविविशुः । इतो रहीमा यदा गृहद्वारि गतवती तदैव दगडुर्धावन् आगतवानुच्चैरुक्तवाँश्च - मातर् ! मातर् ! मां रक्षतु, आरक्षका मां ग्रहीतुं प्रत्यागच्छन्ति ।
रहीमा तत्क्षणं तं गृहे प्रावेशयत् । गृहान्तः प्रकाशरहिते लघ्वपवरके निगूहितः स । सा तु द्वारि गत्वा स्थितवती । तदैव प्रधावन्त आरक्षका आगतवन्तः । तैः पृष्टं - मातर् ! दगडुर्दृष्टो भवत्या ? कमपि मारयित्वा नंश्यन् स एतां दिशमागच्छन्नस्माभिर्दृष्टः, तत् कुत्राऽपि दृष्टः सः ?
रहीमा मुखं धुन्वाना - नाऽत्र कोऽप्यागतवानित्युक्तवती । स अत्रैव कुत्रचिदस्ति, मातर् ! सत्यं वद - इत्युक्तमारक्षकैः । गृहं पश्यन्तु, अत्र न कोऽप्यागतवानेव - इत्युक्तवती रहीमा ।
रहीमायाः कथनं सत्यं मन्यमानास्ते आरक्षका अन्यां दिशं वलितवन्तः । यतस्ते जानन्ति – यद्, रहीमा न कदाऽपि दगडुं रक्षेत् । दगडुस्तु तत्पुत्रस्य शत्रुरासीदतः ।
- इतः काशीमा रहीमा च प्रतिदिनमिव रात्रौ संमीलिते । अद्य प्रथमवारं दगडु-शकीलयोः चर्चा कृतवत्यौ ते जनन्यौ । दुष्टो निर्गुणश्च पुत्रः कथं रक्षितस्त्वया ? स त्वारक्षकाणां ताडनस्यैवाऽधिकार्यासीत्, इति रहीमां तर्जितवती काशीमा ।
___रहीमाऽवोचत् - काशि ! एवं भवेत्तर्हि को लाभ: स्यात् ? केवलमेकाऽन्या जननी पुत्रविहीना भवेत् । आवयोर्मध्ये एक एव पुत्रोऽस्ति । अस्माकं इस्लामधर्मे दयाया (रहेम) अतीव महिमाऽस्ति । अल्लाह: परमदयालुरस्ति । सोऽपराधिनामपराधान् क्षाम्यति । तेन कथिते मार्गे ये चलन्ति ते शान्तिमवाप्नुवन्ति ।
__ [दुर्भाग्येनाऽस्मदीयेषु चलच्चित्रेषु वृत्तपत्रेषु च प्रतिशोधनवृत्तिर्वीरकृत्यरूपेण वर्ण्यते । प्रतिशोधको महान् मन्यते । वस्तुतोऽनुकम्पा क्षमा करुणा चैव शर्म ददति, हृदयं पवित्रीकुर्वन्ति, तथा परमं सुखं च यच्छन्ति ।]
८४
Page #93
--------------------------------------------------------------------------
________________
कथा
अध्यात्मगोष्ठी
मुनिधर्मकीर्तिविजयः
सूफीपरम्परायां 'राबिया' इत्यस्या नामाऽतीव प्रसिद्धम् । तस्या जीवनं सरलं निर्दम्भं च तथा प्रवृत्तिरपि निराडम्बराऽऽसीत् ।
एकदा चिन्तकैः सह सा ज्ञान-ध्यान-अध्यात्मादिगोष्ठीषु संलीनाऽऽसीत् । तत्र 'हसन'नामा साधकोऽपि विद्यते स्म । स तां राबियां कथितवान् - आवां द्वावपि तडागस्य जलोपर्युपविश्याऽध्यात्मगोष्ठी कुर्याव ।
हसनस्य चित्ते सूक्ष्मोऽहङ्कारो वर्तते इति राबिया ज्ञातवती । ततस्तयोक्तम् - भवान् मयैकयेव सह चर्चयितुमिच्छेत् तर्हि चलतु, आवां द्वौ गगने स्थित्वा चर्चा कुर्याव ।
हसनस्तु चकितो जातः । स उक्तवान् - भवत्या सहाऽहं चर्चयितुं न शक्तः, यत उड्डयनस्य गगने स्थिरतायाश्च शक्तिर्न मयाऽद्यावधि प्राप्ता ।
राबिया गदितवती - हसन ! जले स्थिरतायाः शक्तिं तु मीनोऽपि धारयति । मक्षिका मशकाश्चाऽपि उड्डयनस्य शक्तिं धारयन्ति । एताः शक्तयश्च न सत्यप्राप्तेः प्रमाणीभूताः सन्ति । एतास्तु केवलमहंतायाः स्पर्धायाश्च प्रदर्शनरूपाः सन्ति । एताभिः सह नाऽध्यात्मस्य कोऽपि सम्बन्धोऽस्ति ।
एतच्छ्रुत्वा हसनो लज्जितो जातः ।
८५
Page #94
--------------------------------------------------------------------------
________________
कथा
अमरदत्त-मित्रानन्दम् मुनिकल्याणकीर्तिविजयः
अस्ति किलोज्जयिन्यां पुर्यां देवधरो नाम श्रेष्ठी । स खलु न्यायोपार्जितवित्तवान् सद्वृत्तवान् दीनोद्धरणैकव्यसनः सज्जनसङ्गमैकविलसनश्चैकदा हर्षपुरात् निजपत्न्या सह स्वनगरं प्रतिनिवर्तमान आसीत् । देवसेना हि तदवसर एव पुत्रीमेकां प्रसूतवत्यासीदतो देवधरस्तां विशेषेण संभालयन् प्रवासं कुर्वन्नासीत् ।
अपि च, देवधरस्तापसभक्त आसीत् । मध्येमार्गं च तापसानामाश्रमो विद्यते स्म । अतः सभार्यो देवधरस्तापसवन्दनार्थमाश्रमान्तर्गतः कुलपतिमन्यांश्च तापसान् यावद् वन्दते स्म तावत् कुलपति चिन्ताचान्तवदनं लक्षयित्वा सविनयं चिन्ताकारणं पृष्टवान् । कुलपतेरपि तस्मिन् स्नेहो विश्वासश्चाऽऽसीदतः स किञ्चिदिवाऽऽश्वस्तो जातः स्वचिन्ताकारणं च कथितवान् -
'अस्ति तावदिहैव भारते वर्षे सुरतिलकं नाम वरनगरम् । तत्र च मकरध्वजो नाम राजाऽस्ति । तस्य च पट्टराज्ञी मदनसेना नाम । तयोश्च पुत्रः पद्मकेसराभिधोऽस्ति । स च राजा सुनीतिकलितः प्रीत्या प्रजाः पालयति । तत्पुत्रश्चाऽपि सुगृहीतकलाकलापो यौवनस्थः परिणायितोऽस्ति राजकन्यकाभिः ।
अथैकदा राज्या सहोपविष्टो राजा नालापादिभिस्तन्मनोरञ्जयति स्म तावता राज्ञः केशकलापं समारयन्ती राज्ञी पलितमेकं दृष्ट्वा नर्मोक्त्या कथितवती – 'स्वामिन् ! अवधीयतां, दूतः समागतोऽस्ति किल!' । एतच्छ्रुत्वा चित्ते चमत्कृतस्तारतरलनेत्रश्च राजेतस्ततो विलोकयन्नुभ्रान्त इव । तच्च विलोक्योच्चैः परिहासं कुर्वती राज्ञी कथयति स्म - 'नाथ ! शूरोऽपि सपराक्रमोऽपि बहसमरलब्धविजयोऽपि "दूतः" इति शब्दमात्रं श्रुत्वाऽपि भीतोऽस्ति वा भवान् ?'
राज्ञोक्तं – 'नैव भद्रे !, नाऽहं दूतशब्दं श्रुत्वा भीतोऽस्मि, किन्तु, दूतविषये न केनाऽपि चरेण मम कथितं, नाऽपि प्रतिहारेण निवेदितं, न चाऽपि विलोकयामि कञ्चन दूतमत्र भवने, तथा - मम नयनाभ्यामपि भवत्या दृष्टिनिर्मलतराऽस्तीत्यपि न; ततश्च भवत्या मुखाद् दूतशब्दं श्रुत्वा विस्मयाकुलो जातोऽस्मि' ।
देव्योक्तं - 'स्वामिन् ! मम तात्पर्य तत्र नाऽऽसीत् !' 'तहि किमेवं मां विप्रतारयसि ?'
८६
Page #95
--------------------------------------------------------------------------
________________
'मा मैवं वदतु स्वामी, नाऽहमलीकभाषिणी विप्रतारिका वा; किन्तु, भवतो शीर्षे पलितरूपेणाऽयं धर्मदूतः समागतोऽस्ति इत्यत्र मम तात्पर्यमासीत्' ।
-
एतच्छ्रुत्वा राजा सहसा चिन्तासमुद्रनिमग्नो नेत्रे निमील्य चिन्तयति स्म - 'हा ! कथमहमेतावन्तं कालं विषयकर्दमसेवनासक्तो धर्माचरणाद् वञ्चित: ? इदानीं वार्धक्ये समागते किं वाऽहं करिष्ये ?' तदाऽविज्ञातनृपमनोगततया राज्ञी पुनरपि परिहासमुखेन कथितवती – 'स्वामिन् ! वार्धक्येन भवान् यद्येतावल्लज्जते तर्हि समस्तेऽपि नगरे पटहवादनपूर्वकं घोषयिष्यामो यद् - यो हि नृपतिं वृद्धं कथयिष्यति तस्य महान् दण्डो भवितेति !' । 'अहो ! अविवेकिनां युक्तमेतद्' इति राज्ञोक्ते तया गदितं – 'यद्येवं तर्हि किमर्थमियती चिन्ता ? कथं चैतावानुद्वेगः ?'
-
राज्ञोक्तं – ‘चिन्ताकारणमिदं यन्मयाऽद्यपूर्वपुरुषाचीर्णो मार्गो लङ्घितोऽस्ति । मम वंशे सञ्जाता राजानोऽदृष्टपलिता एव तपोवनं गच्छन्ति स्म । अहं पुनरेतावन्तं कालं भोगासक्त: सन् राज्ये एव स्थित: । अतोऽधुनाऽपि पद्मकेसरं राज्येऽभिषिच्याऽऽरण्यको मुनिरहं भवितेत्यत्र नाऽस्ति सन्देहः' ।
एतच्छ्रुत्वा राज्ञी वज्राहतेव तत्क्षणं मूर्च्छिताऽभवत्, शीतोपचारैश्च चैतन्यं प्राप्य किञ्चिदाश्वस्ता सती राजानं कथितवती - 'नाथ ! किमिति भवानेवं कथयति ? मया तु परिहासेन कथितं भवान् सत्यतया किमिति गृह्णाति ?' राज्ञोक्तं - 'हास्येनाऽपि शोभनं यद्वचनं कथ्यते तद् ग्रहीतव्यमेव । तत एष मया भवत्यै मे निश्चयः कथितः । अहं श्व एव तापसव्रतं ग्रहीष्यामि' |
'स्वामिन् ! यदि भवतोऽयमेव निश्चयस्तदाऽहमपि भवता सहैव तापसव्रतमङ्गीकरिष्ये तपश्चाऽऽचरिष्ये' इति देव्योक्ते नृपेण कथितं – 'युक्तमिदं देवि ! भवत्या विवेकस्य' ।
-
ततः पुत्रं राज्येऽभिषिच्य राजा तया सह तपोवनमागत्य तापसव्रतमङ्गीकृतवान् । देव्यपि पत्या सह यथोचितं व्रतं परिपालयति यावत्, तावत् तस्याः पूर्वसंभूतो गर्भो वर्धितु प्रवृत्त: । एतद् दृष्ट्वा राज्ञा पृष्टं – 'किमिदं भद्रे ! ?' तयोक्तं- 'पूर्वमेव मम गर्भ आसीत्, किन्तु तदा व्रतान्तरायभयेन मया भवते नैव कथितम्' । 'भवत्याऽयुक्तं कृतं तत् । भवतु, किन्त्वधुनाऽपि कुलपतेरेतत् निवेदनीयमन्यथाऽऽवयोरवर्णवादो भविता' इति राज्ञा कथिते ताभ्यां मम सर्वमपि निवेदितम् । मयाऽपि - 'किं क्रियतामधुना ? यज्जातं तज्जातमेव' इति कथयित्वा तापसीजनस्य तत्पालनाय निर्देशः कृतः ।
तापसीभिर्यथोचितं पाल्यमाना साऽन्यदा सुरकुमारसदृशं तेजस्विनं पुत्रं पसूतवती । प्रसवानन्तरं चाऽनुचिताहारात् तस्या दारुणो रोगः सञ्जातः । तापसीवर्गेण तस्या औषधादिका बह्वी चिकित्सा कृता तथाऽपि रोगस्तु वृद्धिङ्गत एवाऽधिकतया । एतेन सर्वेऽपि वयमत्र चिन्ताकुला जाताः स्म यत् – कथमेष लघुर्बालो रक्षितव्य इति ।
-
अथ च भवान् समागतोऽस्ति, भवत्पत्नी चाऽपि नवप्रसूताऽस्ति - इत्यतो वयमिमं बालं भवते दातुमिच्छामो येनाऽपगतचिन्ता भवेम' |
८७
Page #96
--------------------------------------------------------------------------
________________
एतच्छ्रुत्वा देवधरेण सानन्दं कथितं - 'गुर्वाज्ञैव मे प्रमाणं प्रभो !, अहमवश्यं बालकमिमं स्वीकरिष्ये तत्पालनं च स्वपुत्रवदेव करिष्ये' ।
ततश्च हृष्टचित्तेन कुलपतिना तस्य स बाल: समर्पितः, तेनाऽपि पन्या सह सप्रमोदं स्वीकृतः । देव्यपि च जातसन्तोषा चित्तसमाधिना मृत्युं प्राप्ता । देवधरोऽपि च स्वनगरं प्रति प्रस्थितः सपरिवारः। मार्गे एव तेन निजः समग्रोऽपि परिजनः शपथेन शप्त्वाऽऽदिष्टं यद् – 'उज्जयिनीं प्राप्य सर्वैरपि - श्रेष्ठिपत्न्या युगलं प्रसूतमित्येवं वक्तव्यम्' । परिजनोऽपि 'एवं करिष्यामः' इति तदङ्गीकृतवान् ।
ततो गृहं प्राप्य तेन सवर्धापनकं द्वयोरपि नामकरणोत्सवः कृतः, तत्र च बालस्य नामाऽमरदत्त इति बालिकायाश्च सुरसुन्दरीति स्थापितम् । द्वावपि वर्धमानौ यथोचितं कलाकलापं ग्राहितौ श्रेष्ठिना ।
इतश्च तत्रैव नगरे सागरनामा श्रेष्ठी वसति, तस्य मित्रश्री म भार्या, तयोश्च मित्रानन्दाभिधः सुतोऽस्ति । सोऽपि चाऽमरदत्तेन तुल्यवयास्तस्य सवया जातः । ततश्च द्वावपि सहैव पठतः सहैव क्रीडतः सहैव च सर्वत्राऽप्यटतः स्म ।
अथाऽन्यदा ताभ्यां चिन्तितं यदत्रैवाऽवस्थानेन किमर्थं व्यर्थतया कालो गम्येत? देशान्तरं गत्वा किमिति स्वभागधेयपरीक्षा च क्रियेत ?
ततो द्वावपि स्वस्वपितरौ कथमपि विप्रतार्य रात्रावेव नगरान्निर्गतौ अनवरतप्रयाणैश्च पाटलीपुत्रनगरं प्राप्तौ । नगराद् बहिरेवैकं विविधवृक्षसमूहेन रमणीयमुद्यानमेकमासीत् । तत्र चोद्याने एकं मनोहरमुत्तुङ्गप्राकारशोभितं सुचारुशिल्पपरिमण्डितमेकं देवभवनमासीत् । देवभवनसमीप एवैका दीर्घिकाऽऽसीत् । तस्या निर्मलेन जलेन स्नात्वा प्रवासश्रममपनीय च द्वावपि सकौतुकं देवालये प्रविष्टौ । तत्र चोत्कीरितानां रमणीयशिल्पानां सौन्दर्यं विलोकयन्तौ द्वावपि परमाश्वासं प्राप्तौ ।
अथ चैतावताऽमरदत्तस्य दृष्टिरेकस्यामत्यन्तसुन्दरायां शालभञ्जिकायां पतिता । उद्भटलावण्ययौवनगुणाढ्यां सुपुष्टाङ्गोपाङ्गमनोहरां प्रत्यक्षं रतिमिव तां शालभञ्जिकां विलोकयन् कुमारस्तत्क्षणमेव सञ्जातमन्मथोन्माथस्तस्या देहात् क्षणमपि दृष्टिं नोत्सारयति स्म । अत्राऽन्तरे मित्रानन्देन कथितं – 'भो मित्र ! चलतु नगरं प्रति, भोजनवेलाऽतिक्रान्ताऽस्ति, पश्चात् किमपि नैव लप्स्येत' । कुमारेणोक्तं - 'क्षणं तिष्ठतु, इमां शिल्पसुन्दरीमातृप्ति विलोकयामि तावत्' ।
ततः कञ्चित् कालमतिवाह्य पुनरपि तेन प्रेरितोऽसौ कथितवान् – 'मित्र ! भवते सत्यं वदामि चेत् - अहं क्षणमपि एतत्सकाशादपसर्तुं नैव शक्नोमि' । 'किन्तु बन्धो ! निश्चेष्टायामस्यां कथं वा भवत एतावानभिष्वङ्गः? भवादृशे विवेकशालिने एतन्नैव कर्तुमुचितम्' । तदा तेनोक्तं – 'यद्यहमेतस्याः पार्वात् कथमप्यपसरेय तदा मे हृदयमवश्यं शतधा विदीर्णं भविष्यति । यदि च भवान् बलान्मामितोऽपसारयेत् तदा निजहस्तेनैव मे काष्ठानि ददातु' । एतन्निशम्याऽत्यन्तं दुःखितान्तःकरणोऽसौ सशब्दं रोदितुमारभत । तद् दृष्ट्वा कुमारोऽपि तथैवाऽऽक्रन्दितुं प्रवृत्तः ।
Page #97
--------------------------------------------------------------------------
________________
एवं च द्वावपि क्रन्दन्तौ तत्रैव स्थितौ । तावतैव तस्य देवभवनस्य निर्माता रत्नाकरो नाम श्रेष्ठी तत्राऽऽगतौ देवपूजार्थम् । स च द्वावपि रोदनं कुर्वन्तौ दृष्ट्वा विस्मितश्चिन्तयति स्म – 'अहो ! देवकुमारतुल्यावेतौ किमिति स्त्रीजनवद् रुदतः स्मः?' अतस्तेन पृष्टं तदुभयोरपि । तदा मित्रानन्देन तदीयां सौम्यां गभीरां चाऽऽकृति वीक्ष्य सर्वोऽपि वृत्तान्तः कथितः । तदा श्रेष्ठिनाऽपि कोमल-मधुरया गिराऽमरदत्तो बोधितो यथा – 'वत्स ! अस्यां पाषाणनिर्मितायां पुत्तलिकायां कस्तेऽभिष्वङ्गः? बालोऽपि जानाति यदियं सर्वथा निश्चेष्टा सुखलवमपि दातुमशक्ता, तर्हि शास्त्रार्थकोविदो बिचारचतुरश्च त्वं किमर्थमत्र मुह्यसि ? निवर्तस्वैतस्मान्निष्फलाद रागात् । तदा कुमारेणोक्तं - 'तात ! यदि भवान् मामेतस्याः पार्वादपसारयेत् तदा ममाऽग्निरेव शरणम्' ।
तन्निशम्य खिन्नेन श्रेष्ठिना चिन्तितं – 'नूनं मोहस्य विजृम्भितमतिविषमम् । किन्तु यदि प्रत्यक्षसुन्दरी काचनाऽत्र स्यात् तदा तु युक्तमप्येतत् स्यात्, अत्र तु यज्जातं तद्धि सर्वथाऽपूर्वमद्भुतं च' ।
श्रेष्ठी यावच्चिन्तयति स्म तावता मित्रानन्देन स आहूतः - 'किं तात ! एवं स्थितोऽस्ति भवान् ? कमप्युपायं चिन्तयतु तावत्' । श्रेष्ठिनोक्तं - 'नैव वत्स !, अत्र विषये मम कोऽप्युपायो न स्फुरति । यदि त्वमेव किञ्चन विचारयितुं क्षमस्तदा कथय । तेनोक्तं - ‘एवं, तर्हि कथयतु तावत् केन शिल्पिनैषा पुत्तलिका निर्मितेति, तत उपायं कथयेयम्' । तदा श्रेष्ठिनोक्तं – 'भो ! मयैवैतत् देवभवनं कारितमस्ति, इत्यतो जानामि यदस्य सशिल्पस्य देवभवनस्य निर्माता कोङ्कणदेशीयो विश्रुतो स्थपतिः सुरदेवनामाऽस्ति, सम्प्रति च स तत्रैव देशे सोपारकनगरे निवसति । इदानीं कथय को वाऽस्त्यत्रोपायः ?'
मित्रानन्देनोक्तं - 'उपायोऽयमस्ति यत् प्रथमं तावत् तं स्थपतिं पृच्छामो यदियं शालभञ्जिका तेन प्रतिच्छन्दतो निर्मिता स्वमत्या वा - इति । यदि कस्याश्चित् सुन्दर्याः प्रतिच्छन्देन निर्मिता स्यात् तदा तामेव कथमप्यत्राऽऽनेष्यामस्ततश्चाऽस्माकं कार्यं सिद्धमेव । अतस्तात ! भवता मे भ्राताऽयं सम्यक् प्रतिचरितव्यस्तावद् यावदहं कार्यं समाप्य समागच्छेयम्' । तन्निशम्याऽमरदत्तोऽकथयत् सहसा – 'मा मा मित्र ! मैवं वद, यदि कथमपि तवाऽपायं शृणोमि तदा मम जीवितं नैव सम्भवेत् । तदा मित्रानन्देनोक्त - "मित्र ! मासद्वयात्मकं कालं यावद् धैर्य धारयत् । यदि तावता कालेनाऽहं न समागच्छेयं तहिं जानात् यदयं मे मित्रं नास्तीति' ।
___ ततश्च महता कष्टेन तं श्रेष्ठिसकाशे संस्थाप्य मित्रानन्दोऽखण्डप्रयाणैः सोपारकनगरं प्राप्तः । तत्र च स्वीयमङ्गलीयकं विक्रीय प्राप्तेन धनेन महार्धवस्त्रादिकं गृहीत्वा परिधाय च ताम्बूलादिकोपायनव्यग्रहस्तः सुरदेवस्थपतिगृहं प्राप्तः । तमागच्छन्तं दृष्ट्वा सुरदेवोऽपि तस्योचितां प्रतिपत्तिं कृतवान् पृष्टकुशलवृत्तश्चाऽऽगमनकारणं पृष्टवान् । मित्रानन्देनोक्तं - 'देवभवननिर्माणेच्छुरहं भवतः कीति निशम्याऽत्राऽऽगतोऽस्मि' । शिल्पिनोक्तं- 'तत्तु युक्तमेव । किन्तु कीदृशं किंरूपं च देवभवनं कारयितुमिच्छति भवान् ?' अनेनोक्तं – 'भवता कुत्राऽपि देवभवनं विरचितं वा, यद् दृष्ट्वाऽहं तादृशं तद्रूपं वा रचयितुं भवते निदिशेयम् ?' तदा तेनोक्तं - 'अस्त्येव तादृशं देवभवनं पाटलिपुत्रनगरे रत्नसार श्रेष्ठिकारितं, मया
८९
Page #98
--------------------------------------------------------------------------
________________
निर्मितमस्ति तत् । किं भवता दृष्टं वा ?' मित्रानन्देनोक्तं – 'आम् दृष्टमेव । किन्तु तत्राऽमुकस्थाने एका शालभञ्जिकाऽस्ति, सा प्रतिच्छन्दतो निर्मितोत कल्पिताऽस्ति ?' स्थपतिना किञ्चिद् विचिन्त्योक्तं - 'अहो ! सा तु मयोज्जयिनी-राजस्य महासेननृपस्य सुतायाः प्रतिच्छन्देन निर्मिताऽस्ति' ।
एतन्निशम्य 'नूनं मम कार्य सिद्धमेवाऽधुने'ति विचिन्त्य चित्ते हृष्टः स स्थपतिमुक्तवान् – 'भवता तद् देवभवनं सर्वथोत्कृष्टकलाकलितं कृतमस्ति । अस्माकमपि तादृशमेव कारयितव्यमिति हार्दिकीच्छाऽस्ति । अतोऽहं दैवज्ञमापृच्छय दिवसादिकं निश्चित्य समागमिष्यामि' । 'बाढ'मिति स्थपतिना भणिते मित्रानन्दस्ततो निर्गत्य विपणि प्राप्तः । तत्र च वस्त्रादिकं विनिवर्त्य ततो लब्धेन द्रव्येण सम्बलं क्रीतवान् ।।
तत उज्जयिनीं प्रति प्रस्थितोऽखण्डप्रयाणैः प्रवसन् विकाले तत्र प्राप्तः, नगरद्वारासन्न एव देवकुले च रात्रिवासार्थं स्थितः । तावता सपटहशब्दं तेन घोषणा श्रुता यद् – 'रात्रेश्चतुरोऽपि प्रहरान् यो मृतकमिदं रक्षेत् तस्य दीनारसहस्रं दीयेते'ति । ततस्तेन द्वारपालः पृष्टः – 'किमर्थमेतावन्मात्रे कार्ये एतावद् धनं दीयते?' द्वा:स्थेनोक्तं – 'पथिक ! नगरीयं मार्योपद्रुताऽस्ति सम्प्रति । एतं च मार्योपहतं कञ्चन तद्गृहस्वामी यावन्निष्कासयेत् तावता सूर्योऽस्तमितो नगरद्वाराणि च पिहितानि । मारीहतमिति भयान्न कोऽपि मृतकं रक्षेत् खलु !' । श्रुत्वैतत् तेन चिन्तितं यद् – 'द्रव्यरहितानां कार्याणि नैव सिध्यन्ति । अत एतद्रक्षित्वा धनं च लब्ध्वा निजबन्धुभ्यः प्रच्छन्नतयैव कार्यं साधयामि तावत्' ।
ततस्तेन पटहं स्पृष्ट्वा मृतकरक्षणमङ्गीकृतमत: श्रेष्ठिना तस्मै दीनारपञ्चशतं प्रदत्तं. शेषं च प्रभातकाले दास्यते इति कथयित्वा गतः श्रेष्ठी । अनेनाऽपि चाऽऽबद्धपरिकरेण तन्मृतकं रात्रौ रक्षितम् । सूर्योदये च जाते तत्स्वजना आगत्य मृतकं यावन्नयन्ति स्म तावदनेन 'शिष्टं दीनारपञ्चशतं दीयता'मिति कथिते 'अरे ! पञ्चशतानि तु ते दत्तान्येव, किमिदं प्रलपसि?' इत्युक्त्वा बलात् तन्मृतकं नीत्वा गतास्ते । तदेषोऽपि 'यदि महासेनोऽत्र राजाऽस्ति तदाऽवश्यं ग्रहीष्यामि' इत्युक्त्वा विपणिं प्राप्तः । तत्र च दीनारशतव्ययं कृत्वोत्तमवस्त्रालङ्कारादि क्रीत्वा परिधाय च राज्ञश्चामरधारिण्या वसन्ततिलकाख्याया गणिकाया भवनं गतः ।
प्रविशत्येव तस्मिन् सा तत्स्वागतमकरोत् । कुट्टनी च तमन्तरनयत् । तेनाऽपि हस्तस्थिता धनग्रन्थिस्तस्यै प्रदत्ता । तया च तामुद्घाट्य विलोकितं यावत् तावद्दीनारचतुःशतं प्रत्यक्षीकृतम् । 'अहो ! उदारोऽयं कश्चन महानुभावः' इति विचिन्त्य स्वपुत्री भणिता - 'पुत्रि ! सगौरवमयं महानुभावः परिचरितव्यः' । तयाऽपि तत् प्रतिपन्नं तस्य च स्नान-विलेपन-भोजनादिकं कारितम् । रात्रौ च वासभवने नीतोऽसौ 'न विषयलुब्धानां कार्याणि सिध्यन्ती'ति चिन्तयन्नसौ सर्वामपि रात्रिं स्वेष्टदेवध्यानेन व्यतीतवान् । प्रभाते च स्वपुत्री तथैवाऽलङ्कृतां दृष्ट्वाऽक्कया पृष्टे तयाऽपि यथावृत्तं कथितम् ।
एवमेव दिनत्रये व्यतिक्रान्तेऽक्कया पृष्टोऽसौ - 'वत्स ! राज्ञामपि दुर्लभां मे पुत्रीं किमिति न प्रतिपद्यसे?' तेनोक्तं - 'सर्वमपि करिष्ये, किन्तु मदीयमेकं कार्यं भवत्या कर्तव्यम्' । तयोक्तं 'करिष्यामि' । 'एवं तर्हि कथमपि राजभवने प्रविश्य रत्नमञ्जरी राजकन्यां गत्वा कथय यद्भवत्या वल्लभस्याऽमरदत्त
९०
Page #99
--------------------------------------------------------------------------
________________
कुमारस्य भवत्या यो लेखः प्रेषित आसीत् तस्योत्तरं गृहीत्वा तन्मित्रमागतमस्ति' इति तेनोक्ते सा सत्वरं राजभवनं प्राप्ता कुमारी च सहर्षं कथितवती – 'पुत्रि ! भवत्या वल्लभस्य वृत्तं कथयितुं समागताऽस्मि' इति । ततो यथोक्तं सर्वं कथितं तस्यै । कुमार्या चिन्तितं – 'मच्चित्ते तावन्न कोऽपि पुरुषो वल्लभतया प्रतिष्ठितोऽस्ति । एवं स्थिते किमिदं स्यात् ? ततो जानामि किमत्र तत्त्व'मिति तयोक्तं – 'अद्य तं पुरुषं मत्पावें आनय' । ततः साऽपि कुट्टनी हृष्टचित्ता गृहमागता मित्रानन्दं च कथितवती - 'पुत्र ! त्वत्कार्य सिद्धम् । अद्य त्वया राजभवनं गन्तव्यम्' । तेनाऽपि तदङ्गीकृतम् ।
ततो रात्रौ स तया सह राजमन्दिरं गन्तं प्रवृत्तः । तदा तयोक्तं - 'पुत्र ! हर्षवशान्मया मुख्यवार्ता तु नैव कथिता तव । राजमन्दिरं प्राकारसप्तकस्याऽन्तःस्थितं, सप्तस्वपि च प्राकारेषु रक्षणार्थं सैन्यस्थानकान्यपि सन्ति । एवं स्थिते त्वं कथं कुमारीसमीपे गमिष्यसि ?' तेनोक्तं - 'अम्ब ! कुमार्या भवनं कुत्राऽस्तीति कथयतु तावत् । पश्चात् सर्वमपि करिष्ये' । तयाऽपि तद् दर्शितम् । ततस्तेन सा गृहं प्रति प्रेषिता । साऽपि च प्रच्छन्नं स्थित्वा यावत् 'किमसौ करोती'ति पश्यति तावत् स विद्युत्क्षिप्तकरणेन प्रथम प्राकारमुल्लङ्घ्य द्वितीयप्राकारं प्राप्तः । ततः सन्तुष्टा सा 'नूनं सपराक्रम एष सत्पुरुषः कार्यसिद्धि प्राप्नुयादेवे'ति चिन्तयन्ती गृहं गता ।
असावपि क्षणार्धेनैव सप्ताऽपि प्राकारानुल्लङ्घ्य गवाक्षमार्गेण राजकुमारीभवनं प्राप्तः । साऽपि च वीरचर्ययाऽऽगतं तं दृष्ट्वा 'किमसौ करोती'ति विलोकयितुं कपटसुप्ता । असौ च तां सुप्तां दृष्ट्वा तस्या वामकरात् राजनामाङ्कितं कटकं लघुहस्ततया गृहीतवान् दक्षिणोरौ च स्वीयच्छुरिकया लाञ्छनमेकं कृतवान् । ततः पूर्वोक्तेनैव क्रमेण ततो निर्गत्य देवकुलं गत्वा सुप्तवान् ।
इतश्च सा राजकन्या चिन्तितवती – 'अहो दक्षत्वमस्य ! यो मम कटकं गृहीत्वा लाञ्छयित्वा च मामेवं त्वरया निर्गतः । मयैतत् सुष्ठ न कृतं यदयं सम्भाषितोऽपि न' । एवं च चिन्तनाकुला सा विनिद्रैव रात्रिमतिवाह्य प्रभाते सुप्ता ।।
तदा चाऽयं निद्रातः समुत्थाय सत्वरं राजकुलं प्राप्तो द्वारदेशे च स्थित्वा चीत्कर्तुमारब्धो यथा - 'अहो मुषितोऽहं लुण्टितोऽहं, किमत्र कोऽप्यस्ति यो मे न्यायं दास्यति ?'
एतच्छ्रुत्वा राज्ञा द्वारपाल आहूतः पृष्टश्च – 'किमस्त्यत्र भोः!?' द्वारपालेनोक्तं - 'देव ! कोऽपि सुपुरुषः केनाऽपि पराभूत इव भवदर्शनमाकाङ्क्षति' । राज्ञोक्तं – 'प्रवेशय तमन्तः' । 'यथाऽऽज्ञापयति देव!' इत्युक्त्वा तेन मित्रानन्दो राजसमीपे नीतः । असावपि सविनयं राजानं प्रणम्य राज्ञाऽऽदिष्ट आसने उपविष्टः । 'किं जात'मिति पृष्टश्च नृपेण स मृतकरक्षण-दीनारपञ्चशतप्राप्त्यादिकं वृत्तं कथयित्वा विज्ञप्तवान् - 'देव ! अद्य चतुर्थो दिनो जातोऽस्ति, तेन श्रेष्ठिनाऽद्याऽपि यावत् मे शिष्टं धनं नैव प्रदत्तम् । अत्राऽर्थे च नगरद्वारस्थो द्वारपाल: साक्ष्यस्ति । भवान् तं प्रष्टुमर्हति' । राज्ञा सोऽप्याहूय पृष्टः । तेनाऽपि 'सत्यमेत'दित्युक्ते कुपितो राजा 'तं दुराचारं बद्ध्वाऽत्राऽऽनयते'ति यावदादिष्टवान् तावत् तज्ज्ञात्वा स श्रेष्ठी धनं गृहीत्वा शीघ्रमेव तत्राऽऽगतवान् विज्ञप्तवांश्च राजानं - 'देव ! तदा खल्वस्य मार्गयतोऽपि यन्मया धनं न प्रदत्तं
९१
Page #100
--------------------------------------------------------------------------
________________
तत्रेदं कारणं यत् तस्यां वेलायां किमहं मृतकं गृहीत्वा गच्छेयमुताऽस्मै धनं वा प्रयच्छेयम् ? देव एव युक्तायुक्तमादिशतु । ततोऽपि दिनत्रयं लोकाचारे व्यग्रोऽहं धनं दातुं न शक्तवान् । अतः साम्प्रतं सर्वकार्यनिवृत्तोऽहं शीघ्रमेव धनमानीतवान् । गृह्णात्वेष निजं धनम्' । ततो राज्ञा मित्रानन्दो भणितः - 'गृह्णातु धनं भोः !! एष कारणवशाद् धनदाने चिरायितः । अतो नैतस्य दोषः' ।
मित्रानन्दोऽपि - 'अहोऽस्य धूर्तस्य धूर्तता' इति चिन्तयन् काकलीं विधाय धनं गृहीतवान् । ततो गते श्रेष्ठिनि राज्ञा कौतुकेनैष पृष्टः - 'भो भद्र ! कथयतु तावत्, कथं भवताऽऽरात्रि मार्युपद्रुतं मृतकं रक्षितम् ?' तदाऽनेनोक्तं – 'स्वामिन् ! तस्यां रात्रौ तु यज्जातं तस्य तु निर्वचनेऽपि भयं भवति । तथाऽपि कथयामि । तदा हि प्रथमं तावद्रात्रिरासीत्, द्वितीयं तु मृतकस्य रक्षणं, तृतीयं तु मारीहतं तदिति सर्वतो भयमासीत् । तच्च कथं निस्तरणीयमिति चिन्तयन्नहं विचारितवान् यदप्रमत्तस्य भयं नैव सम्भवेदिति । ततश्चाऽऽबद्धपरिकरश्छरिकाहस्तो दशाऽपि दिशोऽवहिततया विलोकयन् स्थितः । रात्रेः प्रथमे प्रहरे समाप्ते एव मया शिवानां दारुणो रोदनशब्दः श्रुतः । ततो यावत् पश्यामि तावता सर्वतः कपिलवर्णा ज्वालाकरालवदना शृगाल्यः फेत्कारं कुर्वत्यः समागच्छन्त्यो दृष्टाः । कातरनराणां तु तासां दर्शने हृदयमेव स्थगितं स्यात् । किन्तु मया साहसमवलम्ब्य तत्रैव स्थितमतो बिभीषिकास्वरूपास्ताः क्षणेनैव विद्युल्लतेव कुत्राऽपि विलीना जाताः।
अथ द्वितीये प्रहरेऽत्यन्तं बीभत्सस्वरूपा विकरालरूपा वेताला किलिकिलिशब्दं कुर्वाणा मत्समक्षं प्रकटीभूताः । तानप्यहमक्षुब्धतयैव यावन्निरीक्षितवान् तावत् तेऽपि वाताहता जलधरा इवाऽदर्शनं प्राप्ताः ।
तृतीये प्रहरे भीमस्वरूपा अट्टाट्टहासं कुर्वत्यो डाकिन्यः समागताः । ता अपि निर्भीकतया पश्यति मयि क्षणादेव नष्टाः ।
रात्रेश्च पश्चिमे यामे यज्जातं तत्तु सर्वथाऽपूर्वमासीत् । इदानीमपि तदेव दृश्यं मम नेत्रसमक्षं नरीनृत्यते । सा ह्येकाऽप्सर:समानरूपा दिव्यांशुकसंवृत्ताङ्गी वराभरणभूषिता मुक्तकेशा विमुक्तसुप्रचण्डफेत्काररवा भयं जनयन्तीव मत्पार्वे समागता मां चाऽऽक्रोष्टमारब्धा – 'रे दुष्ट ! धृष्ट ! पापिष्ठ ! निष्ठुर ! अनिष्ट ! त्वमद्याऽपीहैव तिष्ठसि वा? एषाऽहं त्वां मारयामि' । तदाकर्ण्य मया निश्चितं यदेषैव सा मारी। ततो यावत् सा मम समीपमागता तावता मया वामकरण तस्या वामकरो गृहीतो दक्षिणकरेण च च्छुरिका उत्पाटिता । तच्च दृष्ट्वा साऽपि मम हस्तं निर्मोच्य गच्छन्ती मयाच्छुरिकया सहसा दक्षिणोरौ लाञ्छिता। तस्याश्च वामहस्तस्थितं कटकं मम हस्ते समागतं, सा च पुण्यक्षये लक्ष्मीरिव झटित्यदर्शनं प्राप्ता । तदनन्तरं च स्तोकेनैव कालेन सूर्योदयो जातः । ततश्च यज्जातं तत्तु भवतोऽपि विदितमेव' ।
___ एतन्निशम्य चित्ते चमत्कृतो राजा चिन्तितवान् – 'अहो आश्चर्यजनकं चरितमस्य खलु !' ततस्तेन पृष्टोऽसौ – 'दर्शयतु तावत् तत् कटकं यन्मारीहस्तात् भवता गृहीतम्' । तदा तेन कोषान्निष्कास्य कटकं राजहस्ते प्रदत्तम् । तच्च यावत् राजा निरीक्षते तावत् निजनामाङ्कितं दृष्टम् । स चिन्तितवान् – 'अहो ! किमेतदतीवाऽघटमानं? यतो मया हि कटकमेतत् वत्सायाः करे आरोपितमासीत् । तत् किं कटकमेतत्
९२
Page #101
--------------------------------------------------------------------------
________________
मारीहस्ते समागतमुत सैव मारी सञ्जाता ?' ततः शरीरचिन्तामिषेण स कुमारीसमीपे गतो यावत् पश्यति तावत् प्रसुप्तायास्तस्या वामकरः कटकरहितोऽस्ति, दक्षिणोरौ च व्रणपट्टिका बद्धति दृष्टम् । एतेन वज्राहत इव राजाऽतीव दुःखसन्तप्तः स चिन्तितवान् – 'यदि मृगाङ्कादशनिपातः सम्भवेत् तदा एतस्याः सकाशादेतत् प्रपतेत् । अथवा किं चिन्तया? अयमेवाऽस्ति दृढप्रत्ययः । हा हा ! अनया पापिन्या मे वंशः कलङ्कितः । तदेतस्याः शीघ्रमेव निग्रहं करोमि यावदेषा सर्वेषां नगरीजनानां विनाशं न कुर्यात्' ।
ततः प्रतिनिवर्त्य सिंहासने । उपविष्टोऽसौ मित्रानन्दं पृष्टवान् – 'कि केवलं साहसेनैव भवता मृतकं रक्षितमुताहो काचिन्मन्त्रसिद्धिरप्यस्ति ?' तेनोक्तं - 'मम कुलक्रमागतो मन्त्रोऽप्यस्ती'ति । तदा राज्ञा लोकमपसार्य तस्य कथितं - 'भद्र ! एषा मे दुहितैव मारीरूपाऽस्तीत्यत्र नास्ति सन्देहः । ततश्च भवतो यदि काऽपि शक्तिरस्ति तदाऽस्या निग्रहं करोतु' । अनेनोक्तं – 'प्रभो ! पश्यामि तावत् किमेषा मम साध्यऽसाध्या वेति । ततो यथोचितं करोमि' । 'भवत्वेव'मिति राज्ञोक्ते एष कुमारीपार्वे गतः । साऽपि तदा प्रबुद्धा तं दृष्ट्वा विचारयति स्म – 'किमेष मत्पार्श्वमागतः ? अथवा तातेन प्रेषितः स्यात् । कथमन्यथाऽत्र पुरुषागमः सम्भवेत् ?' ततस्तयाऽस्मै आसनं प्रदत्तम् । तत्रोपविष्टः स कथयति स्म - 'कुमारि ! केनचित्कार्येणाऽऽगतोऽस्म्यहम्' । 'किं कार्यमस्ति भोः !?' इति तया पृष्टे तेनोक्तं – 'कुमारि ! अहं स एव येन भवद्धस्तात् कटकं गृहीतम् । अत्र परमार्थस्त्वेष यन्मया राज्ञः समक्षं भवत्यां मारीविषयमतिमहत् कलङ्कमारोपितमस्ति । राजा च भवती मेऽर्पयिष्यति । यदि भवत्यास्तदनुमतं तदा भवती गृहीत्वा नयेयं, यदि च नाऽनुमतं तहि कथयतु सद्भावम् । अहं भवत्याः कलङ्कमपनेष्यामि । मम पुनर्जलाञ्जलिं ददातु' ।
एतदाकर्ण्य कुमारी चिन्ताब्धिनिमग्ना जाता - 'अहो ! कथमेतेनैवं कृतम् ? मम कृते तु व्याघ्रतटीन्यायः - उभयतः पाशा रज्जुश्च समागते । कथं वा निस्तरणीयमेतत् ? अथवा, यदपि भवेत् तद् भवतु, महीमण्डलमण्डनमिमं महाभागमवश्यं रक्षामि' इत्येवमालोच्य तयोक्तं - 'महानुभाव ! भवतो जीवितमेव मेऽभिमतम् । अतो यत्कर्तव्यं समादिशतु' । एतेन सन्तुष्टः स कथितवान् – 'यदा राजा भवतीं मेऽर्पयेत् तदा मया "हुं फट्" इति भणिते सर्षपक्षेपे च कृते हुङ्कारमात्रं करोतु' । एवं तां समवबोध्य स राज्ञः पार्वे आगतः, 'मम मन्त्रसाध्यैवैषा मारी'ति कथयित्वा 'किन्तु, मह्यमेकमतिशीघ्रवाहनं ददातु येन रात्रावेव देशसीमातो बहिर्नयेयम् । यतो यदि देशमध्य एव स्थितायास्तस्याः कथमपि सूर्योदयो भवेत् तदा त्वेषा मारी तथैवाऽवस्थिता भवेदत्र' ।
ततो राज्ञा तद्वचोऽङ्गीकृत्य मारीरूपां राजकन्यां देशाद् बहिर्नेतुमादिष्टं तदर्थं च स्वीया प्राणप्रिया वडवाऽपि तस्य समर्पिता ।
सन्ध्याकाले च जाते राज्ञा स्वकन्या केशैर्गहीत्वा हारं कर्वती मित्रानन्दस्य समक्षमानीता । तेनाऽपि यव-सर्षपिदिक्षेपपूर्वकं "हुं फट्" इति मन्त्रं च भणता स्ववशे कृत्य वडवापृष्ठे आरोपिता स्वयं च तामग्रतः कृत्वा पट्ट्यामेव चलितः । राजाऽपि नगरद्वारपर्यन्तं तावनुव्रजत् द्वाराण्युद्घाटितवान्, बहिनिर्गतयोश्च
ददातु ।
९३
Page #102
--------------------------------------------------------------------------
________________
तयोः स्थगयित्वा हर्ष-विषादाकुलो राजमन्दिरं प्रतिनिवृत्तः ।
कुमार्यपि वडवारूढा गच्छन्ती मित्रानन्दं कथितवती - 'भो ! महाभाग ! भवानपि वडवामारोहतु' । तेनोक्तं – 'कञ्चित् कालमहं पदातिरेव गमिष्यामि' । ततो देशसीम्नि पुनरपि तयोक्तं – 'किमर्थं भवान् नाऽऽरोहति ?' तेनोक्तं - 'कुमारि ! न मया भवती मदर्थं नीयमानाऽस्ति किन्तु मम परमसुहृद् अमरदत्तनामाऽस्ति । स भवत्याः प्रतिच्छन्दरूपां शालभञ्जिकां दृष्ट्वा भवत्यामनुरक्तोऽस्ति । तस्य कृत एव मयैतत् सर्वं व्यवसितमस्ति । मित्रपत्न्या च सहैकस्मिन् वाहने आरुह्य गमनं नैवोचितमत एव पदभ्यां गच्छन्नस्मि' ।
साऽपि चाऽमरदत्तेति नाम श्रुत्वाऽतिहष्टा चिन्तयति स्म - 'अहो ! अस्य महापुरुषत्वं, महानुभावत्वं, मित्रवत्सलत्वं, परोपकारकरणरसिकत्वं च ! नूनं ममाऽपि जन्म सफलमेव यदेताभ्यां मे संयोगो जातः । यद्यपि मे कलङ्कलम्भो जातो मदीयपूर्वदुष्कृतफलत्वेन तथाऽपि सुपुरुषयोरनयोर्योगेनाऽहं कृतार्था जाता' । एवं च तावुभावप्यनवरतप्रयाणैः पाटलिपुत्रं प्रति प्रस्थिताः ।
इतश्च सोऽमरदत्तोऽनुराग-मित्रविरहदुःखाभ्यामन्तः प्रज्वलन् श्रेष्ठिना सयत्नं प्रतिचर्यमाणस्तद्गृहे च निवसन् दिनानि गणयन्नास्ते । यदा च मासद्वयात्मकस्याऽवधेरन्तिमं दिनं समागतं तदा तेन श्रेष्ठिन उक्तं – 'तात ! अद्य पूर्णोऽवधिर्जातोऽस्ति । अद्ययावन्मित्रानन्दस्य न कोऽपि समाचारः प्राप्तः । ततो यावदस्य किमप्यश्रोतव्यं न शृणुयां तावत् काष्ठानि प्रज्वालयतु, येन तत्र प्रविश्याऽऽत्मानं विनाशयामि' । एतदाकर्ण्य दुःखभरपीडितः श्रेष्ठी नगराद् बहिः काष्ठचितां समारचयामास । सर्वोऽपि नागरजनस्तज्ज्ञात्वा दुःखितः संस्तत्र समागतः । अथ च कुमारे चितायां प्रवेष्टुमुद्यते क्रन्दन् नागरजनः सश्रेष्ठी तं विज्ञपयामास - 'मा कुमार ! साहसं करोतु । अद्याऽपि वर्ततेऽवधिः । प्रतिपालय सूर्यास्तमनं यावत् । यदि ततोऽपि मित्रानन्दो नाऽऽगच्छेत् तदा कामं प्रविशत्वग्निम्' ।
ततस्तदनुमत्य भूमिगतदृष्टिर श्रूणि चाऽनवरतं मुञ्चन् कुमारः स्थितः । लोकोऽपि च वृक्षादिषूच्चोच्चस्थलेषु समारुह्य दूर दूरं विलोकयितुमारब्धः । अपराह्नकाले तु दूरादश्वेन सह समागच्छन्तं मित्रानन्दं विलोक्य परस्परं वदन्ति जना यथा - 'एष एकोऽश्वारोही एकेन पदातिना पुरुषेण सहाऽऽगच्छन् विलोक्यते' । यावच्च जना अमरदत्तं तद् वदेयुस्तावच्च वेगेन मित्रानन्दः सकुमारीकस्तत्र समागतो मित्रपार्वं च गत्वा सानन्दं कथितवान् – 'भोः प्रियमित्र ! एषाऽऽनीता मया भवतश्चित्तापहारिणी'ति । एतन्निशम्याऽमरदत्तो यावन्मुखमुन्नम्य विलोकितवान् तावता कुमार्या सहाऽऽगतं निजमित्रं दृष्टवान् ।
ततो हर्षभरापूरितमानसो बाष्पक्लिन्ननेत्रश्च सहसा समुत्थाय मित्रमालिङ्गितवान् । श्रेष्ठी नागरजनश्चाऽपि तद् विलोक्याऽऽनन्दाश्रुपूर्णलोचन: - 'अहो ! शोभनमेतज्जात'मिति वदन् काष्ठाग्नि विध्याप्याऽपसार्य च तत्रैव मङ्गलरवपूर्वकममरदत्त-रत्नमञ्जर्योः पाणिग्रहणं कारितवान् । रत्नमञ्जर्याश्च रूपं विलोक्य सर्वोऽपि जनः सविस्मयं कथयति स्म – 'एतादृश्या रूपवत्याः कृते यदयं प्राणत्यागपणं कृतवान् तत्र नाऽऽश्चर्यम्' ।
९४
Page #103
--------------------------------------------------------------------------
________________
अथ च पाटलिपुत्रस्य राजा पूर्वतनदिन एवाऽपुत्रो मृत आसीत् । अतो राजपुरुषैः पञ्च दिव्यान्यधिवासितानि । तेषु च तत्रैव स्थितेषु सत्सु तानि अमरदत्तसमीपं प्राप्तानि । मङ्गलगीतानि गायन्तो जना यावत् किञ्चिद् विचारयेयुस्तावताऽश्वेन हेषारवः कुतः, हस्तिना बृंहितं, छत्रं स्वयमेव कुमारोपरि स्थितं, चामरे च स्वयमेव वीजयितुमारब्धे, कलशेन च स्वयमेव कुमारमस्तकोपरि जलमभिषिक्तम् । ततो हस्तिना शुण्डादण्डेन कुमार उत्पाट्य निजस्कन्धे आरोपितः । सर्वत्र तूर्यनिनादः समुच्छलितो जयजयारावश्च लोकैः कृतः । मन्त्रीभिस्तस्य राजपदस्वीकारार्थं विज्ञप्तिः कृता । तेनाऽपि सा विज्ञप्तिः सहर्ष स्वीकृता। ततः सर्वेऽपि समङ्गलनादं नगरं प्रविष्टा ।
ततो राजभवनद्वारे कृतमङ्गलोपचारोऽमरदत्त: प्रधानपुरुषैरास्थानमण्डपे प्रवेशित: सिंहासने चोपवेशितः । तस्य वामपार्श्वे रत्नमञ्जरी समुपविष्टा, दक्षिणपार्वे च मित्रानन्दः । ततो मन्त्रि-सामन्तादिभिः सम्मील्याऽमरदत्तस्य राज्याभिषेकः कृतः, रत्नमञ्जर्याः पट्टराज्ञीत्वेऽभिषेक: कृतो मित्रानन्दश्च मन्त्रिमण्डलप्रधानो विहितः । ततोऽन्येऽपि ये योग्या आसंस्ते सर्वेऽपि विविधेषु पदेषु स्थापिताः ।
एवं च न्यायेन प्रजाः पालयन् राजाऽमरदत्तः समित्रः सुखी जातः । प्रान्ते च गुरुभगवतां पार्वे धर्मं श्रुत्वा व्रतानि चाऽङ्गीकृत्य यथावत्पालनं च कृत्वा सद्गतिं प्राप ।
(कथामूलं - आ.श्रीदेवचन्द्रसूरिविरचितं प्राकृतभाषामयं श्रीशान्तिनाथचरितम्)
Page #104
--------------------------------------------------------------------------
________________
| विश्लानि संस्कारमूल्यानि मुनिः अक्षयरत्नविजयः*
(१) महाऱ्या गुरुदक्षिणा कश्चिद् भिक्षुरासीत् । स परमो भगवद्भक्त आसीत् । परमः शास्त्रविदपि आसीत् । नैकानि पुस्तकानि तेन लिखितानि, मुद्राक्षरैरङ्कितानि अपि कृतानि । बहूनां पुस्तकानामावृत्तयः (संस्करणानि) अपि जाताः ।
एकदा वय:परिपाकवशात् तस्य चक्षुःपटलं कलुषीभूतम् । अतः पुस्तकसंशोधनाय तेन कश्चिद् वैतनिकः संशोधक आरक्षितः ।
___ तदनु एकं वर्ष समाप्तम् । गुरुपूर्णिमाया वासर आगतः । तस्मिन् दिने स भिक्षुस्तस्य पुस्तकसम्माजकस्य गृहं गतवान् । भिक्षुस्तत्करे दशरूप्यकमितं धनं प्रदाय प्राह - "भवान् मल्लेखनं गवेषयति । मदीयं लेखनं निर्दोषं करोति । तत् सम्मायत्यपि । अतो भवान् गुरुदक्षिणार्होऽस्ति । यतोऽस्मद्दोषान् यः सम्मायति, स गुरुसमो भक्तिपात्रं चाऽस्तीति आप्तवचनम् । ततो भवान्नपि मद्गुरुः । अद्यतने दिवसेऽहं तुभ्यं लध्वीं गुरुदक्षिणां समर्पयामीमाम् । कृपया स्वीकरोतु ताम् ।"
पुस्तकसम्माजकस्य लोचने सजले जाते श्रुत्वेदम् । कीदृशमद्भुतमासीद् भारतवर्षीयाया जीवनप्रणाल्या नमस्कार्यं माहात्म्यम्..... !
(२) आत्मनो राजा एकदा 'डेमोस्थीनीस'इत्याख्यो ग्रीसदेशीयतत्त्वचिन्तको 'राजगुरु' पदस्य समर्पणाय राज्ञा निमन्त्रितः । डेमोस्थीनीसेन सविनयं तद् राजकीयं निमन्त्रणमपाकृतम् । अतोऽन्येन केनचित्तत्वचिन्तकेन राजगुरोः पदं प्राप्तम् * आ.श्रीधर्मसूरीश्वरसमुदायवर्ती
Page #105
--------------------------------------------------------------------------
________________
कस्मिंश्चित् दिने स नूतनराजगुरुरुपडेमोस्थीनीसमागतवान् । तदानीं डेमोस्थीनीससदृशो महान् तत्त्वविचारकोऽपि पात्राणि मार्जयति स्मेति दृष्ट्वा राजगुरुः स्वमनस्यहसत् । तदृष्टिपथे डेमोस्थीनीसस्य मौर्यं रममाणमासीत् ।
शनकै राजगुरुणा डेमोस्थीनीसं प्रति सव्यङ्ग्यं हृद्गतमुक्तम् – “यदि राजसभायां नृपं भवानल्पं प्रशंसिष्यत्, तर्हि पात्रमार्जनस्येमानि दिनानि भवान्नाऽद्रक्ष्यत् ।"
इदं श्रुत्वा विवेकज्ञो डेमोस्थीनीसो निजचेतसि चिन्तितवान् 'नूतनो राजगुरुरीषद् बोधितव्यः' इति । अतः स गाम्भीर्यमालम्ब्य कथितवान् – “राजगुरो ! यदि भवानित्थं पात्रमार्जनमज्ञास्यत्, तर्हि एषां निःसारमनुजानां मिथ्या स्तुतिं कृत्वा मुखमलिनीकरणस्येमानि दिनानि नाऽद्रक्ष्यत्" ।
राजगुरुस्तु आत्मनो राज्ञ इव डेमोस्थीनीसस्य हृदयवेधिनी वाचं श्रुत्वा जडवद् बभूव लज्जया चाऽवनतोऽपि सञ्जातः ।
(३) महती न्यायप्रियता
अनुमानतो वर्षशतषट्काद् प्राग् घटितोऽयं प्रसङ्गः । न्याय-नीति-सदाचारप्रधानः स युगः ।
दिल्हीनगरीये राजसिंहासने कस्यचित् शासकस्य शासनमासीत् । तज्जीवनं नैकगुणैः शोभते स्म । परन्तु, मृगयानामोऽवगुणस्तज्जीवने समासीन आसीत् । एकदा राजा मृगयार्थं वनं गतः । तत्र चाऽनवधानतः स शरं क्षिप्तवान् । शरेण पशुमपहाय कस्यचिन्निर्दोषदरिद्रस्य पुत्रोऽविध्यत । क्षणादेव स मृतः । अतस्तस्य दरिद्रो दुःखी च पिता न्यायार्थं न्यायालयं गतः ।
न्यायाधीशो भयं परिहत्य नृपं प्रति अभियोगमचालयत् । स दरिद्रं पितरमुक्तवान् – “भ्रातः ! श्वो राजसभायामागन्तव्यम् । त्वं निश्चयतो न्यायपात्रं भवितासि" ।
स्तोकेन समयेन समग्रनगरे वार्तेयं वायुवत् प्रसृता । प्रातः राजसभा जनाकीर्णा जाता । असौ दरिद्रः पिता राजा चाऽऽगतौ । न्यायाधीशेनाऽनुयुक्तो नृपः - "भवानस्य दरिद्रजनस्य पुत्रमहनदिति सत्यं न वा ?"
राज्ञा प्रत्युक्तं - "सत्यं, मया साऽक्षम्या क्षतिः कृताऽस्ति । अहं नूनं दण्डमर्हामि । किन्तु, अद्यपरमेतादृशीं क्षति न करिष्यामीति विश्वासं ददामि । अतोऽहं सकृत् क्षम्य इति मे विज्ञप्तिरस्ति" ।
न्यायाधीशोऽवदत् - "न, अहं भवते क्षमां दातुं नाऽर्हः । स एव तस्य निर्धनपिता भवन्तं
९७
Page #106
--------------------------------------------------------------------------
________________
क्षन्तुमर्हति। तस्य क्षमा याच्यताम्' ।
राजा तस्याऽकिञ्चनस्य पार्श्वे क्षमामयाचत् । सनीरनयनो दरिद्रजनोऽपि राजानमक्षाम्यत् । समग्रलोकेन दृष्ट्वेदमनुपमं दृश्यं हर्षारवः कृतः ।
नृप उपन्यायाधीशमधावत्, सहसा चाऽऽश्लिष्य तं प्रोक्तवान् - "न्यायाधीशवर्य ! यदि अद्य ह्रिया भवानन्यायकर्ताऽभविष्यत्तर्हि मदीयोऽसिर्भवबन्धुर्नाऽभविष्यत् । अहं भवतो मस्तकं देहभिन्नमकरिष्यम् ।” न्यायाधीशश्चोक्तवान् – “राजन् ! भवान् यदि तस्माद् रङ्काद् क्षमां नाऽयाचिष्यत तर्हि दिल्हीनगरीये चत्वर उपस्थाप्य भवन्तमनेन दण्डेन प्राहरिष्यम् ।"
उभौ न्यायपरायणौ श्रुत्वेदं सुखिनावास्ताम् ।
इदं प्राक्तनीयं सत्यवृत्तममुं सूक्तिपदं स्मारयति सुविधं 'न्याय्यात्पथः प्रविचलन्ति पदं न धीराः '
इति ।
( ४ ) दु:साधः स्वप्नः
एकदा 'सोक्रेटीस' इत्याख्यस्य ग्रीसदेशीयस्यैव कस्यचित् तत्त्वचिन्तकस्य सन्मुखे चत्वारो युवानो विमर्शार्थमुपविष्टा आसन् ।
अस्मद्भावि किं ? इति चर्चा प्रचलन्त्यासीत् ।
युवा "अहं तु महद् वैज्ञानिकत्वं प्राप्तुं काङ्क्षामि” । द्वितीयोऽवदत् "अहं तु महतो लेखकत्वस्य प्राप्तेः स्वप्नं पश्यामि " । "अहं तु भविष्यति महत् तत्त्ववित्त्वं प्राप्तुमभिलषामि" .
-
एषां त्रयाणामुत्तराणि सोक्रेटीसस्तुरीययुवा चाऽशृणुताम् । किन्तु, तथाऽपि चतुर्थेन यूना किमपि नोक्तम् । स कस्मिँश्चिदतले चिन्तने निमग्न आसीत् । अतः सर्वे 'चतुर्थोऽयं किं वदेत् ?' इति तस्योत्तरं ज्ञातुमुत्सुका अभवन् ।
-
-
सोक्रेटीसस्तु पृष्टवानपि - " मित्र ! वद, त्वं किं भवितुमिच्छसि ?"
चतुर्थो युवा प्रत्यब्रवीत् – “सुहदः ! अन्यत् किमपि न, परन्तु मह्यं मनुष्यत्वं रोचते । " श्रुत्वेदं सोक्रेटीसः सहसा स्वासनं त्यक्त्वा करध्वनिं च कृत्वा कथितवान् – “रे ! अयं तु सर्वेभ्यो दुस्साधः स्वप्नोऽस्ति" इति ।
-
O
तृतीयेन यूना प्रोक्तम् ।
९८
Page #107
--------------------------------------------------------------------------
________________
सन्तोषो धनम् सा. संवेगरसाश्रीः
एकस्मिन्नदीतटे नाविक एकः स्वीयनौकासमीपे उपविष्ट आसीत् । तदैको धनिको वणिक् तत्राऽऽगतः, तं चोपविष्टं दृष्ट्वाऽकथयत् - 'किमिति त्वमत्रोपविष्टोऽसि ? किमिति च यात्रिकान् निजनौकयाऽपरं तीरं न प्रापयसि?' तेनोक्तं - 'अद्यतनदिनस्य कृते पर्याप्तं धनं मयाऽजितमस्ति । तेनैव मम सन्तोषः । अत उपविष्टोऽस्मि' ।
धनिकेनोक्तं – 'किन्त्वधुनाऽपि दिनास्तमने भूयान् कालोऽस्ति । एतावता कालेन त्वं द्वित्रवारं यात्रिकान् नेतुमानेतुं च शक्तः । तथा करणे च ते प्रभूतं धनमपि प्राप्येत' ।
नाविकेनोक्तं – 'तेन धनेनाऽहं किं वा कुर्याम् ?'
"एवं सञ्चितेन धनेन त्वमन्या अपि नौकाः क्रेतुं समर्थो भविता । ततश्चाऽधिकाधिकयात्रिकाणां यातायातेनेतोऽप्यधिकं धनं सञ्चितं भवेत्' ।
'ततस्ततः ?' 'ततस्त्वं नौकोद्योगमेव चालयितुं समर्थो भविष्यसि । ततश्चाऽतिप्रभूतधनस्य स्वामी भविष्यसि । 'तत: पश्चात् किं कर्तव्यं मया ?' 'अरे ! ततस्त्वया निश्चिन्ततया शान्त्या सुखेन च जीवनं यापयितव्यं खलु !'
तदा हसित्वा नाविकोऽवदत् - 'महाशय ! अहमधुनैव सुनिश्चिन्ततया शान्त्या सुखेन च जीवनं यापयन्नेवाऽस्मि । तद् भाविकाले तत्सर्वप्रापणार्थमिदानी किमर्थं क्लेशं दुःखं चाऽङ्गीकुर्याम् । सन्तोष एव मत्कृते धनं, तेनैव च मम जीवन सुखमयं शान्तिमयं चाऽस्ति । तं हारयित्वाऽन्येन धनेनाऽलम् ।
[सारः जीवनस्याऽमूल्यं कालं धनार्जने तत्सञ्चये तद्रक्षणे चैव व्ययीकुर्वाणा जनाः केवलं क्लेशं व्याधींश्चैव
प्राप्नुवन्ति, प्रान्ते च तत्सर्वमप्यत्रैव मुक्त्वा निःसहायतया परलोकं गच्छन्ति । सञ्चितं धनं न कदाऽपि मरणाद् व्याधिभ्यो वा तान् रक्षितुमलम् । अतः सन्तोषे एव मतिः कार्या ।]
Page #108
--------------------------------------------------------------------------
________________
मार्गद्वयम्
सा. मैत्रीयशाश्रीः
एको नृप आसीत् । स भृशं मृगयाव्यसन आसीत् । एकदा स एकाक्येव मृगयार्थं निर्गतो हरिणं चैकं मारयित्वा प्रतिनिवर्तमान आसीत् । किन्तु गहनत्वादरण्यस्य मार्ग विस्मृतवान् स इतस्ततो विलोकयन्नटश्चाऽऽसीत् । तावता तेनैको गोपालो वेणुं वादयन् दृष्टः । स तमाहूयाऽपृच्छत् – 'भ्रातः ! एष पन्थाः क्व गच्छति?' गोपालोऽवदत् - 'अत्र द्विधा मार्गोऽस्ति, एकः स्वर्गं प्रति गच्छति द्वितीयश्च नरकं प्रति । भवान् केन मार्गेण गन्तुमिच्छति ?'
नृपेण कथितम् – 'भोः ! सत्यं ब्रूहि, अहं नगरं गन्तुमिच्छामि' ।
गोपालः कथितवान् – 'अहं सत्यमेव वच्मि । जीवानां हिंसा हि नरकस्य पन्थाः, जीवानां दया रक्षणं च स्वर्गस्य मार्गोऽस्ति - इत्येवं गुरुभिः कथितमस्माकम् । भवतः कः पन्था अनुमतः ?'
एतदाकर्ण्य नृपश्चिन्तामग्नो जातः । गोपवचनानि तस्य हृदयं पर्यवर्तयत् । स हरिणशरीरं तत्रैव त्यक्त्वा गोपालस्य चोपकारं मत्वा कथितवान् – “मित्र ! इतः परमहं मृगयां सर्वथा त्यक्ष्यामि हिंसां च नैव करिष्ये । भ्रातः ! मां भवतो गुरोः समीपे नयतु येनाऽहमपि ततो धर्मं श्रुत्वा यथाशक्ति स्वीकुर्यामाचरेयं च' ।
गोपालस्तं गुरुपायें नीतवान्, ततश्च धर्मश्रवणं कृत्वा यथाशक्यं व्रतग्रहणं कृतवान् । ततोऽहिंसामयं धर्ममाजीवनं पालयित्वा प्रान्ते च समाधिना मृत्वा सद्गतिमाश्रयत् ।
[सारः गोपालस्य वचनैर्यदि नृपस्य जीवनपरिवर्तनं जायेत तर्हि सर्वदा गुरुवचनानि शृण्वतामस्माकं
जीवनपरिवर्तनमवश्यं भवेदेव खलु ! अतो वयं गुरुवचनैर्धर्मं ज्ञात्वा यथावत् प्रपाल्य चाऽहिंसामयं निर्मलं च जीवनं जीवेम मनुजजन्मसाफल्यं च प्राप्नुयाम ।]
१००
Page #109
--------------------------------------------------------------------------
________________
"....जय जगदीश हरे !"
कथा
डॉ. नारायणदाशः
"...केशवधृतदशविधरूप, जय जगदीश हरे!"
अहो उदात्ताध्यात्मिकी भावना । कश्चिद् भक्तः श्रीजयदेवस्य गीतगोविन्दं गायन् देवदेवीनां मङ्गलमारात्रिकं निवर्तयति । मनः सम्मोहितम् । प्राणाः पुलकिताः । मम कश्चन अर्धदृष्टः स्वप्नः सम्पूर्णो भवितुं गच्छति । इयं मम मातृभूमेः परिचिता स्वरलहरी कियन्न अन्विष्टा ?
तद्दिनमिदानीमपि विस्मृतिपथं न गतं, यदा अस्माकं पिता सीमान्तसैन्यविभागे नियुक्तः । शिशुप्राणेषु नूतन: पुलक: मनसि पक्षयुक्ता अस्फुरन्ती आशा । उच्चशिक्षा समाप्य निरुद्योगी अहं पितुः समीपे स्थित्वा वाणिज्यं प्रारब्धवान् । कामपि परिणीय सुखमयं परिवार लालितवान् । तथापि सुखसम्भोगस्य प्राचुर्यमध्ये कश्चनाऽभावबोधो दूनोति मे चेतः । पूर्वपुरुषाणां जन्ममृत्तिकायाः सजलस्मृतिर्मम मानसं पीडयति । किन्तु पित्रोः सुमधुरा स्नेहधारा तत्र बन्धनमासीत् । शेषभागे पिता मम काश्मीरसीमान्ते नियुक्तः । काश्मीरभूमेः सुश्यामला वनलता नदनद्यश्च नित्यनूतनतया आनन्दं प्रयच्छन्ति । किन्तु सर्वत्र श्मशानशून्यता । सन्त्रासवादिनामत्याचारेण लुप्तप्रायाः काश्मीर-पण्डिताः । श्यामलकोमलवनलतासु केनाऽपि तप्ततरलाभा प्रक्षिप्ता । अमरवीराणां स्मृतिशुभ्रः काश्मीरो मम प्रणामाञ्जलिषु देवायते । परन्त्वयं सुखभोगो न दीर्घकालिकः । मदीयः पिता कारगिलयुद्धे दिवंगतः । युद्धे प्राणान् हुतवतां वीरस्य सम्मानेन अवनता त्रिरङ्गपताका । करुणमर्मदाहेन सहाऽहं पितुरुद्योगं गुर्जरसीमान्ते सर्वकारीयभूमिं च प्राप्तवान् । सर्वकारस्य परिमितभूमौ जीवनं यापयन्नपि पल्लीमातुः कोमलोत्सङ्गं प्रत्यागन्तुमिच्छामि स्म । इयं मम अन्तिमजीवनस्य शेषेच्छा नास्ति । पत्न्याः कटाक्षतले, पुत्रकन्यानां मधुरवचनकणेषु, वल्गुहासेषु वा अहं तस्याः प्रियभूमेः स्मरणं करोमि, यस्या वयं बलिहताः स्याम । यस्याः स्निग्धसमीरणो मम पञ्चप्राणेषु वहति, नदनदीनां स्नेहसुधाधारा मम जीवनशक्तिं पुष्णाति । कस्मिन्नपि कालेऽहं तां विस्मर्तुं न पारयामि । प्रतिप्रातः प्रणते पुत्रे अनुभवामि - अहं मदीयन्मभूमेः बहुदूरे तिष्ठामि । न जाने कथमहं धनसम्पद
१०१
Page #110
--------------------------------------------------------------------------
________________
उत्तुङ्गशिखरे तिष्ठन्नपि मातृभूमेर्भग्नकुटीरं, मात्रा परिविष्टं क्षालितान्नं, भर्ज, पित्राजितां स्वल्पमितां भूमि स्मृत्वा दुःखं प्राप्नोमि ।
परन्तु मे सुखसौधो महावात्याविपत्पातेन भूमिसाज्जातः । वङ्गोपसागरस्य नीललहरीमाला चक्रवातेन आलोडिता ग्रामेषु प्रविष्टा । लक्षशो जना मृताः । वृक्षलता मूलोत्पाटिताः । कृषिक्षेत्रं नष्टभ्रष्टम् । ग्रामाः प्लाविताः । अस्माकं सीमान्तवाहिनी तत्रोद्धारकार्ये नियुक्ता । मार्गे गलितशवानां समारोहः । सम्पूर्णपरिसरो जलप्लावितः । कुत्र ग्राम आसीदिति सर्वकारीयमानचित्रान्निरूप्य वयं तत्र प्राप्तवन्तः । तत्र मम स्वप्नस्य कुटीरं जलसाज्जातमासीत् । अवशिष्टा ग्रामवासिनो मुक्ताकाशतले कस्यचन विद्यालयस्य प्राङ्गणे आश्रिता जातिवर्णधर्मनिर्विशेषा आबालवृद्धवनिता एकत्र भोजनं कुर्वन्ति । ग्रामस्य पुनर्निर्माणेऽस्माकं दलं नियुक्तम् । वयं ग्रामवासिभिः सह मिलित्वा ग्रामस्य गृहाणि, विद्यालयं, मार्ग, चिकित्सालयं च निर्मितवन्तः । आगामिनि साधारणतन्त्रदिवसे सर्वेषां लोकार्पणं विधास्यति मुख्यमन्त्री ।
२००१ ईसवीयसंवत्सरस्य जनवरीमासे २६ दिनाङ्कः । स्वाधीनभारते गणपर्व साधारणतन्त्रदिवसः । मुख्यमन्त्रिणं प्रतिपालयन्तो वयं वार्ता प्राप्तवन्तः - प्रबलभूकम्पेन गुर्जरप्रदेशो विध्वस्तः । त्रिरङ्गामुडापयन्तो वन्दे मातरं गायन्तः प्रभातपरिक्रमां कुर्वन्तः शिशवः शिक्षकाश्च प्रस्तरसौधतले समाधिं गताः । द्वितलत्रितलप्रासादानां ध्वंसावशेषेषु अगणिता जना मृताः । सम्पूर्ण विश्वं स्तब्धम् । कार्यक्रमाः स्थगिताः । दूरभाष्यसम्पर्कः छिन्नः । गृहं प्राप्य दृष्टवान्, प्रासादतले मे परिवारो विध्वस्तप्रायः । व्रणितां पत्नी कनिष्ठं पुत्रं चाऽरक्षद् ईश्वरः । अन्ये सर्वे मृताः । तत्रोद्धारकार्ये पुनर्नियुक्ताऽस्माकं चमूः । ततोऽवकाशं स्वीकृत्य समेषामौर्द्धदेहिकसंस्कारार्थं प्रसिद्धमाघमेलायां प्रयागे आगतस्य मम पत्नी क्व गतेति न जाने। कुलस्यैकमात्रदीपकस्य कनिष्ठपुत्रस्य मुखं पश्यन् दुःखशतं विस्मर्तुं प्रारब्धवान् ।।
अग्रे निरुत्सवः पूजावकाशः । आतङ्कवादिभिः अमेरिकादेशस्य कृते उपायनीकृतो विश्ववाणिज्यसंस्थाया अत्युच्चप्रासादस्य ध्वंसावशेषः । आतङ्कवादिनां विरुद्धममेरिकाराष्ट्रपतिना युद्धं घोषितम् । आतङ्कवादिभिः प्रेरिता “आन्थ्राक्सजीवाणवः" । तत्र हतो मे कुलस्य शेषदीपकः । अहो विधातः ! किं सर्वं दुःखं मम मुण्डोपरि पातनीयमासीत् ? बन्धुं परिजनं पुत्रं कन्यां हारितवतो मे जीवनं नरकायितम् । त्यागपत्रं प्रदाय कुत्राऽपि गमनीयमिति मितिरभवत् । एकदा एवमेव रेलयानमारूढः । सर्वशेष-रेलनिस्थाने अवतीर्य दृष्टवान्, सर्वधर्मसमन्वयकस्य देवदेवजगन्नाथस्य पुरीनगरे अवतीर्णोऽस्मि । अज्ञाततिथेः विमलज्योत्स्नातले सागरवेलाबालुकासु उपविश्य "किं करिष्यामि" इति दरिद्रपञ्चाक्षरमन्त्रं जपन्नासम् । अयि देव ! जगन्नाथ ! पतितपावन ! किं मे अपराधः? इदानीं यावदहं त्वत्तो बहुदूरे पितृपुत्रजननीजायानां प्रणयपाशेन निगडित आसम्, किन्तु अधुना कोऽस्ति मम? रक्षको भक्षकस्त्वमेकस्त्वमेकः । एवं विचिन्त्य कदा अहं निद्रितो न जाने ।
समयः प्रातःप्राय: । दूरे उच्चारिता काचित् सुमधुरस्वरलहरी निद्रां चोरयति । अहं मम कर्णयोः विश्वासं न कृतवान् । इदानीं यावदहं सागरवेलायां सुप्तः सन् शृणोमि कस्यचन मधुरं गायनं - "प्रातः
१०२
Page #111
--------------------------------------------------------------------------
________________
समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये" | मुग्धभावेन अहं तत्र अपश्यम् । विंशतिप्राया वृद्धा धवलवस्त्राणि धारयित्वा गीतं गायन्त्यो गच्छन्ति - "श्रीकृष्ण ! गोविन्द ! हरे ! मुरारे ! हे नाथ ! नारायण ! वासुदेव !" "हर हर महादेव !" "जय जगदीश हरे !" इत्याद्यनेकविधम् । अस्य रम्यप्रत्यूषस्येयं मधुमयी स्वरलहरी यथा मनस्यानन्दं ददाति, तथाऽऽनन्दमहं कदाऽपि न प्राप्तवान् । इदं मम मातृभूमेः सङ्गीतं यत् प्रतिहिन्दुरक्तं चमत्करोति । अज्ञातभावेनाऽहं चीत्कृतवान् - इयमेव मम मातभमिः, यस्या धुलिकणेष सम्मिलितं ममैकान्तिक्यभिलाषा । सहसाऽहं सैनिकवेशं दरे प्रक्षिप्य सागरजलेऽमज्जम् । मुखे भगवतः पावननाम – "जय जगदीश हरे !" अधुना काऽपि महत्त्वाकाङ्क्षा पुनर्न बाधते माम् । केवलं प्रार्थये कश्चन जीवन्मुक्तो हिन्दुरिव -
न वै प्रार्थ्यं राज्यं न च कनकमाणिक्यविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रथमपतिना गीतचरितो
जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ___ दूरे श्रीमन्दिरे मङ्गलरात्रिकस्य घण्टानादेन सह श्रूयते स्म दशावतारस्तोत्रांशः – “जय जगदीश हरे !...."
१०३
Page #112
--------------------------------------------------------------------------
________________
मर्म-नर्म
कीर्तित्रयी
आरक्षकः
मद्यपः
(मध्यरात्रे) (मद्यपं) भोः ! क्व गच्छति भवान् ? मद्यपानेन जायमानानां हानीनां विषये प्रवचनं श्रोतुम् । प्रवचनम् ? अस्यां वेलायाम् ? को वा दास्यति ? मम माता पत्नी च !!
आरक्षकः
मद्यपः
रमणः
चिकित्सको मासत्रयं यावद् विश्रामकरणार्थं निर्दिष्टवानस्ति, तदर्थं च काश्मीरप्रदेशं स्विट्झरलेन्डदेशं वा गन्तव्यमित्यपि साग्रहं कथितवान् । एवं? तर्हि क्व गमिष्याव आवाम् ? अन्यचिकित्सकपार्श्वे !!
रमणी
रमणः
।
अज्ञानं नाम किम् ? यदा भवान् किञ्चिद् विषयं न जानाति - इत्येतत् कश्चन जानीयात् !!
+
विदग्धः दुर्विदग्धः विदग्धः
भवत उद्योगः किमर्थं निष्फलोऽभवत् ? प्रभूतानि विज्ञापनानि प्रदत्तानीत्यतः ! विज्ञापनानि ? मया त्वेकमपि न दृष्टं भवदुद्योगस्य विज्ञापनं किल ! किन्त्वस्माकं प्रतिस्पधिभिः कियन्ति विज्ञापनानि प्रदत्तानि खलु !!
१०४
Page #113
--------------------------------------------------------------------------
________________
दम्पत्योः कलहो जातः, फलतश्च परस्परं वाग्व्यवहार स्थगितोऽभवत् । पतिः पत्न्या भृशमनुनयं कृतवान् किन्तु पत्नी सर्वथा नैव भाषितवती । अतः पत्या किञ्चिद् विचार्य दीप एक प्रज्वालितः, तं च गृहीत्वा स किञ्चिदन्वेषणं कर्तुमारब्धः । इतस्ततोऽन्वेषयन्तं तं विलोक्य पत्न्या सहसा पृष्टम् – 'किं वाऽन्वेषयति भवान् ?'
पत्या सस्मितमुक्तं – 'भवत्या जिह्वामन्वेष्यन्नासम् । झटित्येव सा प्राप्तेति हर्षस्य विषयोऽयम् !!
पुत्रः
मातः ! अस्माकं गृहे विशिष्टभोजनसमारम्भस्य कृते भाजनानां या चतुर्विंश्यस्ति तां भवती स्मरति वा? आम् वत्स ! । किन्तु किमितीदानीं त्वं तत् पृच्छसि ? अन्यत् किमपि नास्ति मातः !, केवलं सा चतुर्विंश्यद्य पञ्चविंशी जाता !!
माता
पुत्रः
सुप्रभातं भगिनि !, अहं पियानोवाद्यसमारचकः । क्वाऽस्ति भवत्याः पियानोवाद्यम् ? किन्तु मया तु पियानोवाद्यसमारचनार्थं न कोऽप्याहूतः किल ! जानाम्यहं तत् । परं भवत्याः प्रतिवेशिभिः संभूयाऽऽहूतोऽहमस्मि खलु !!
एकस्मिन् महिलोपयोगिवस्तुनामापणे फलकमेकमुल्लम्बितमासीत् – “यदि दशनिमेषाभ्यन्तर एव भवत्याः क्रयणं समाप्येत तदा दश प्रतिशतं मूल्यं न्यूनं दातव्यम् !"
पुत्रः
पिता
पितः ! अहमेकं प्रश्न प्रष्टमिच्छामि । किमिति त्वं निजमातरमेव न पृच्छसि ? अहो पितः !, अहं संक्षिप्तमेवोत्तरमिच्छामि, अतः !!
पुत्रः
१०५
Page #114
--------------------------------------------------------------------------
________________
पत्रचर्चा
प्रा. किशोरचन्द्रः पाठकः
करुणावरुणालयैर्भवद्भिः प्रेषितः 'नन्दनवनकल्पतरोः'३०तमोऽङ्को यथाकालं सम्प्राप्तः । भृशमनुगृहीतोऽस्मि ।
__ अङ्केऽस्मिन् प्रकाशितः 'मौनं सर्वार्थः साधनम्' इति लेख: पठितः । पारतन्त्र्यनिगडिते राष्ट्र क्रमशो विनष्टासु सर्वासु शिक्षणपरम्परासु, स्वातन्त्र्यप्राप्तावपि विगतेषु च बहुषु वर्षेष्वपि अद्यावधि मोहकलिले वन्ध्ये शिक्षणतन्त्रे निष्फले च शासने विद्यालयेषु प्रायः सर्वासु विद्याशाखासु विशेषतः प्राच्यविद्याशाखासु जीविकैकचक्षुष्कानां मूलोच्छिन्नानां स्वाध्यायविमुखानां वृद्धमानिनामध्यापकानां तेभ्यश्चाऽधीतविद्यानां विद्यार्थिनां स्वेषु स्वेषु विषयेष्पीदृश्येव शोचनीया स्थितिः प्रायो अत्र तत्र सर्वत्र दरीदृश्यते ।
अतो भवद्भिः प्रकाशितमुदाहरणं नैकतमं नाऽतीवाऽऽश्चर्यकरमिति । इमां शोचनीयामवस्थां दृष्ट्वा दीर्यते हृदयं दूयते च मनः । का गतिः ? निरालम्बा सरस्वतीत्यलम् ।
१०६
Page #115
--------------------------------------------------------------------------
________________
पचर्चा
- प्रा. कमलेशकुमारः चोकसी
(२)
भवद्भिः नन्दनवनकल्पतरोः विगते त्रिंशत्तमे अङ्के षट्सप्ततितमे पृष्ठाङ्के संस्कृतलेखनस्य अर्हत्ताविषयिकी या चिन्तनीया अवस्था प्रकटिता सा वास्तविकी वर्तते । वस्तुतस्तु योग्यानां परीक्षकानामभावे केचन पुरस्कार-प्रख्यातिरूपस्य स्वार्थस्य साधनाय संस्कृते प्रचुरं लिखन्ति । परस्परं भावयन्तश्च परस्परं प्रशंसन्ति । अनेन प्रसिद्धि-पुरस्कारादिस्वार्थसाधनाय कृतेन पारस्परिकेन व्यवहारेण एतादृशाः संस्कृताध्यापकाः संस्कृतभाषानैपुण्ये न किमपि परिश्रमं कुर्वन्ति न च तत्त्वतो यथार्थं लिखन्ति ।
किमत्र करणीयमित्युक्ते यावत्पर्यन्तमेतादृशानां तथाकथितसंस्कृतज्ञानां नामसंकीर्तनपूर्वकं तटस्थं परीक्षणं न भवति, तावत्पर्यन्तं ते लेखने विवर्धमानाः परस्परं भावयन्तः कविपदारूढाः - यदस्माभिलिख्यते तत् संस्कृतसाहित्याकाशे नवीनतममाधुनिकं चाऽस्तीति जपन्तो प्रथमं स्वयमेव स्वात्मानं महति कविपदे प्रतिष्ठापयन्ति । तत: परिमितां संस्कृतभाषामवगच्छन्तो मित्रभूता अन्ये प्राध्यापका एतान् तादृशे कविपदे प्रतिष्ठापयन्ति । एवं परम्परा प्रचलति तत्र न कोऽपि बाधको भवतीति अधुनातनी वास्तविकता ।
अपरञ्चाऽत्र संस्कृतभाषानैपुण्यायाऽपेक्षितः प्रयत्नोऽपि विधेयो भवति । परन्तु प्रयत्नस्याऽस्य कर्ता कः भवेदिति यक्षप्रश्नः । ज्ञानलवभारेण भरिताः कमप्यन्यं स्वतोऽधिकं संस्कृतभाषाज्ञं न मन्यन्ते । अत एतस्मिन् विषये भवादृशाः संस्कृताराधकाः प्रेरका भवन्तु इति मे निवेदनम् । संस्कृताध्यापकपदे नियुक्तान् संस्कृतभाषानैपुण्याय प्रयत्नरतान् कर्तुं भवादृशाः सामर्थ्यशालिनः स्व-पर-पक्षतो विमुक्ताः विद्वांसः एव समर्थाः सन्ति । नाऽन्य: कश्चित् तत्र सफलतामर्हतीति मे स्वकीयोऽभिप्रायः ।
O
१०७
Page #116
--------------------------------------------------------------------------
________________
प्राकृतविभागः
कथा
पाइयविन्नाणकहा
आ. विजयकस्तूरसूरि :
( १ ) असंतोसे निद्ध भिक्खुस्स कहा लच्छीदेवीपसाएण, लद्धं धणं पि नस्सइ । संतोसाभावओ नायं, निद्धणो भिक्खुओ इह ॥
एगो भिक्खुओ, धम्मकज्जपरंमुहं परुवयाररहिअं केवलं धणज्जणतल्लिच्छं संतोसविरहिअं कं पि धणिगवरं दट्ठूणं चिंतेइ 'नत्थि मम घरं खेत्तं दव्वं अन्नं च किंपि सारवत्युं । जइ एआरिसो धणवंतो हं होज्जा, तया संतोसेणं चिट्ठामि, धम्मपरो परुवयारसीलो अ होज्जामि' एवं चितमाणो भिक्खत्थं च भममाणो पुराओ बाहिरं निग्गओ ।
तया गयणमग्गेण गच्छंती सिरिदेवी तस्स हिययभावं नाऊण परिक्खत्थं समीवं आगच्च कहेइ - “हे भिक्खु ! तुज्झ हिययभावो मए जाणिओ, तेण दयाइ तुज्झ किं पि दव्वं दाउं इच्छामि, तुमं वत्थं पसारेसु, तत्थाऽहं दीणारे पक्खिवेमि । जया तुम्ह संतोसो होज्जा, तया अलाहि त्ति वएज्ज । परंतु पक्खिवमाणेसु दीणारेसु जइ एगो वि दीणारो भूमीए पडिस्सइ, तया सो कक्करो होही "त्ति कहित्ताणं सा लच्छी देवी पसारिए तस्स जिण्णवत्थंमि दीणारे पक्खिविडं लग्गा । सो भिक्खू लोहग्गत्थो अलं अलं ति न निवारइ । दीणारेहिं तेहिं वत्थं समंता परिपुण्णं संजायं पि सो न निसेइ । पुणो वि कहेइ एत्थ पंच दीणारे पक्खिवेसु, ते वि पक्खिवित्ताणं उत्तं 'किं तुज्झ संतोसो न जाओ ?' असंतोसेण सो पुणो पुणो वि मग्गेइ । एवं पक्खिवमाणाणं दीणाराणं बहुभारेण जिण्णत्तणेण य वत्थं भिण्णं, ते सव्वे दीणारा भूमीए पडिया, तया सो भिक्खू हाहारवं कुणंतो अवणमिऊण भूमीए पडिए दीणारे पासेउं लग्गो । तया सव्वे दीणारा कक्कररूवा संजाया । जया उद्धं पासेइ, तया लच्छी वि अदंसणं पत्ता । तओ सो निब्भग्गसेहरो अप्पाणं निंदंतो दुहिओ संजाओ । एवं असंतोसेण जीवो दुहं पावे || उवएसो -
-
निद्वणत्थिजणस्सेह, कज्जवज्जियभावणं ।
जाणित्ता 'थोवदव्वे वि, संतोसं माणसे धरे ॥ असंतोसे निद्धणभिक्खुस्स कहा समत्ता ॥
-
गुज्जरकहाए (२) परासुहचिंतणे सुंदरी कहा
'परस्स चिंतिअं जं तु, सस्स तं जायए धुवं' ।
भज्जा चिंति हिंसा, तीए अप्पंमि साऽऽगया ॥
ओहिनाणजुत्तो वरदत्तमुणीसरो विहरमाणो कोसंबीए पुरीए नयरुज्जाणे समागओ । महीवालनरिंदो
१०८
-
Page #117
--------------------------------------------------------------------------
________________
तह य पउरजणा य देसणासवणत्थं उज्जाणे समागया । उवएसदाणावसरे कहेइ - "साहवो सव्वत्थ सव्वेसिं चंदुव्व अल्हायगरा हुंति, सत्तुसु मित्तेसु वा, सावराहीसु निरवराहीसु वा समभावा हवंति" त्ति कहितो हसमाणो ठिओ। तया नरिंदो लोगा य पुच्छंति "भयवं ! तुमं निक्कारणं किं हससि?, साहूणमेयं अणुइअं" । तओ ओहिनाणी कहेइ - "एत्थ निंबरुक्खे संठिआ 'सवलिआपुव्वभववइरहेउणा कोहेण ममं हंतुमिच्छइ, इमीए अच्छेरजणगं चरियं ओहिणा दठूण मए हसिअं" | नरिंदपुच्छिओ मुणिवरो सहाजणाणं पडिबोहत्थं तीसे सवलीए वत्तंतं कहेइ -
"पुरा सिरिपुरनयरे धण्णसेट्ठी आसि । तस्स रूववई अवि सीलभट्ठा सुंदरी भज्जा अस्थि । पइं वंचिऊण जारपुरिसघरं गच्छइ । एगया जारो तीए भत्तारभीओ कहेइ – “तुमए मम गेहे कया वि न आगंतव्वं, जओ तुम्ह पइत्तो बीहेमि" । सा कहेइ – “हे पिय ! तुमं निच्चितो भवेसु, हं तह काहं, जह तुम्ह भयं न होही" । तओ सा जारपुरिसरत्ता पइमारणत्थं विसमिस्सिअपयपत्तं भरिऊण अववरए एगंते ठवेइ । भोयणावसरे तीए भत्ता जया भोयणत्थमुवविट्ठो तया सा खीरमाणेउं अब्भंतरं गया समाणा तत्थ उग्गविसविसहरेण दट्ठा संती उच्चयरं पुक्कारं काऊण पडिऊण पंचत्तं पत्ता । धण्णसेट्ठी ताए पडणसदं सोच्चा – “किं जायं" ति सहसा उत्थाय तत्थ गओ। तं मयं दळूणं तीए कुचरियं अजाणमाणो बहुं विलवेइ । तीसे मरणकिच्चं काऊण संसारत्तो विरज्जमाणो सत्तखेत्ताईसु धणं दाऊण पव्वइओ, कमेण य इक्कारसंगधरो संजाओ।
एगया गुरुत्तो आणं गहिऊण एगागी एगंमि वणे काउस्सग्गेण संठिओ । सा सुंदरी वि - "परस्स चिंतिअंजं तु, अप्पणो तं जायइ धुवं" ति नाएण सप्पदट्टा मरिऊण तंमि वणंमि सिंघो जाओ। तं मुणिं दठूण पुव्वभवब्भासाओ मुणिमि रुट्ठा तं वहीअ । सुहभावेण सो धण्णमुणी बारसमे अच्चुअदेवलोगे देवत्तणेण समुप्पण्णो । कमेण सो सिंघो मरिऊण चउत्थे नरगे समुप्पणो ।
सो धण्णजीवो देवो देवलोगाओ चविऊण चंपानयरीए दत्तसेट्रिस्स घरंमि तब्भज्जाए पत्तत्तणेण वरदत्तो नाम समुप्पण्णो । सो पुव्वभवब्भासाओ सम्मदिट्ठी दयावंतो आसि । सुंदरीजीवो चउत्थीए नरगाओ निग्गच्छित्ता अणेगं भवं भमिऊण वरदत्तस्स घरंमि दासीए पुत्तो संभूओ । पुव्वभवदोसाओ वरदत्तंमि पओसं धरंतो वि तस्स सिणेहसंपायणत्थं तेण सह धम्म पि कुणेइ । तेण वरदत्तो वि तं दासीपुत्तं बंधुत्तणेण मन्नेइ । लोगंमि सेट्ठिभायरो त्ति पसिद्धो जाओ। सो वि दासीपुत्तो तस्स वहोवायं सइ चिंतेइ । एगया विसमीसालियं तंबूलं वरदत्तस्स सो देइ, तया चउव्विहाहारपच्चक्खाणत्तणेण तं ऊसीसगे ठवेइ । पच्चूसकाले वरदत्तसेट्ठी जिणालए चेइअवंदणत्थं गओ । तया वरदत्तस्स भज्जाए तत्थ समागयस्स दासीपुत्तस्स - "हे दिअर ! एयं तंबूलं तुमं गिण्हेसु" त्ति कहिऊण दिण्णं । सो वि तीए महुररवंमि लुद्धो मूढो तं भक्खिऊण मरणं पाविऊण सवलिआ एसा जाया । दासीपुत्तं मयं जाणित्ता वेरग्गरंजियमणो वरदत्तसेट्ठी सत्तखेत्तेसु धणं वावरिऊण पव्वइओ, सो हं जाणियव्वो । तया सा सवलिआ मुणिवरमुहाओ तं वुत्तं सोच्चा, जाईसरणं पावित्ता मुणीसरचरणग्गे समागच्छित्ता, वंदित्ता नियावराहं खमावित्ता, अणसणं किच्चा सग्गं पत्ता । नयराहिवो पउरजणा य एयं सुणिऊण पासित्ता य जिणेसराणं दयामइअं सुद्धधम्म १. समडी इति भाषायाम् (शकुनिका) ।
१०९
Page #118
--------------------------------------------------------------------------
________________
ससम्मत्तं पत्ता । उवएसो -
सुंदरीवरदत्ताणं, नच्चा बोहप्पयं कहं ।
जइ 'सुहत्थिणो तुम्हे, पराणिटुं न चिंतह' ॥ परासुहचिंतणे सुंदरीए कहा समत्ता ॥ - उवएसपयाओ
(३) उज्जमस्स पहाणत्तणम्मि विउसवरदुगस्स कहा
सट्ठाणंमि वरा नेआ, कालाई पंच हेउणो ।
सव्वेसिं उज्जमो सेट्ठो, विउसा दोण्णि नायगं ॥ एगया भोयनरिंदस्स सहाए दुण्णि विउसा समागया, तेसु एगो नियइवाई - "जं भावी तं नऽन्नहा होइ" अओ सो उज्जमं विणा भावि चिय मन्नेइ । अन्नो पंडिओ - उज्जममेव फलदाणे पमाणेइ, जओ अलसा किं पि फलं न लहंति, जओ वुत्तं -
"उज्जमेण हि सिज्झंति, कज्जाइं, न पमाइणो" ।
न हि सुत्तस्स सिंघस्स, पविसंति मिगा मुहे ॥१॥ एवं बीओ उज्जमेण फलवाई अस्थि । भोयनरिंदेण ते दो वि आगमणपओयणं पुट्ठा । ते कहिंति - “विवायनिण्णयत्थं तुम्हाणमंतिए अम्हे आगया" । रण्णा वुत्तं - "तुम्हाणं जो विवाओ अत्थि तं कहेह" ! तया ते दुण्णि वि नियं मयं जुत्तिपुरस्सरं निवइणो पुरओ ठवेइरे । राया विआरेइ – “एत्थ किं परमत्थओ सच्चं?, तं च कहं जाणिज्जइ?" तया निण्णेउमसमत्थो कालीदासपंडिअं पुच्छइ - "एएसिं नाओ कहं किज्जइ? किं वा उत्तरं दिज्जइ?" कालीदासो कहेइ – “हे नरिंद ! जह दक्खाए रसो चक्खिज्जमाणो महुरो खट्टो वा नज्जइ, तह य एयाण विवाओ कसिज्जइ, तेण सच्चो असच्चो वा जाणिज्जई" । राया कहेइ – “कसणकिरियाए अत्थि को वि उवाओ? जइ सिया तया कसिज्जउ" |
कालीदासो तया ते दुण्णि विउसे बोल्लाविऊण तेसिं नेत्ताइं पडेण बंधित्ता, दुवे य हत्थे पिट्ठस्स पच्छा बंधिअ. पाए गाढयरं निअंतिअ अंधयारमए अववरगे ठवेड. कहेड य "जो दइव्ववाई सो दइव्वेण छटउ. जो उज्जमबाई सो उज्जमेण छुट्टेज्जा" एवं कहिऊण सो पच्छा नियत्तो । तओ जो नियइवाई सो "जं भावि तं होहिइ" त्ति मन्नमाणो निच्चितो समाणो सुहेण तत्थ सुत्तो । उज्जमवाई जो, सो छुट्टणाय बहुं उज्जमं कुणेइ, हत्थे पाए अ भूमीए उवरिं इओ तओ घंसेइ, परंतु गाढयरबंधणत्तणेण जया सो न छुट्टिओ, तया तं नियइवाई विउसो कहेइ - "कि मुहा उज्जमकरणेण, एसो निविडो बंधो कया वि न छुट्टिहिइ, निप्फलेण बलहाणिकरणायासेण किं? खुहापिवासापीलिआणं पि अम्हाणं नियईए सरणं चिअ वरं"।
एवं सोच्चा वि उज्जमवाइपंडिओ छुट्टणपयासं न चएइ । छुट्टणाय अईव पयासं कुणेइ । एवं तेसिं दुवे दिणा अइक्कंता । भोयणाभावेण सरीरं पि ताणमईव झीणं संजायं, कज्जकरणे वि असमत्थं जायं, तह वि उज्जमवाई पयासहीणाववरगे इओ तओ भममाणो बंधणाओ मोअणाय जत्तं न मुंचेइ । नियइवाई तं वएइ - "अहुणा परमेसरस्स नाम गिण्हसु, किमायासकरणेण फलरहिएण?" । तया सो १. घर्षति ।
११०
Page #119
--------------------------------------------------------------------------
________________
उज्जमवाई कहेइ - "समावन्ने वि मरणे उज्जमसीलेण जणेण होयव्वं" । नियइवाई बोल्लेइ - "जइ एवं ता अंधारिए एयंमि अववरगे पाए हत्थे अ घसमाणा भमंता चिट्ठेह, उज्जमो फलं दाही" । तह वि सो उज्जमवाई पंडिओ खीणसरीरबलो तइअदिणंमि भित्तिनिस्साए भमंतो हत्थे पाए य घसमाणो पडतो पुणरवि घसंतो भमंतो दइववसाओ अववरगस्स कोणगे तत्थ पडिओ, जत्थ उंदुरस्स बिलं वट्टइ। तस्स हत्था बिलोवरि समागया । तओ रंघमज्झट्ठिओ मूसओ बाहिरं निग्गंतुमचयंतो दंतेहिं तस्स हत्थबंधणं छिदेइ, तया सो छट्रिओ समाणो नेत्तपडं पायबंधणं च अवसारेइ । सो तया अववरगे गाढयरतमेण किमवि न पासेइ । अस्स अववरगस्स दारं कत्थ अत्थि त्ति भित्तिफासणेण निरिक्खंतेण तेण कमेण दारं लद्धं । बाहिरओ पिणद्धं तं पासिऊण कद्वेण तं दारं मूलाओ उत्तारिअ बाहिरं सो निग्गओ। पच्छा देव्ववाइं पंडिअं पि बंधणाओ मोएइ ।।
पच्छण्णठाणे ठिओ कालिदासो सव्वं निरूवेइ । जया ते दुवे बाहिरनिग्गए पासेइ, पासित्ता ते घेत्तूण नियघरंमि गओ । सम्मं अन्नपाणेहिं सक्कारित्ता सम्माणित्ता य निवसहाए ते विउसे गहिऊण समागओ । भोयनरिंदं-कहेइ - "उज्जमेण जिरं, नियईए पराइअं"ति । जओ उज्जमवाई पंडिओ उज्जमेण छुट्टिओ, अवरो उज्जमाभावाओ न छुट्टिओ । जो नियइमेव पहाणं मन्नेइ सो पमाई कहिज्जई' । जत्थ पमाओ तत्थ खुहा पिवासा दुक्खं मरणं च अवस्सं संभवेइ । जो उज्जमं कुणइ सो कयाइ दुक्खाओ मुच्चइ, किं पि य फलं पावेइ । नियइवाई उज्जमेण विणा फलं न लहेज्जा । तओ उज्जमो पहाणो णायव्वो। तओ भोयनरिंदो उज्जमवाइपंडिअंदव्व-वत्थासणेहिं सम्माणेइ ।
तत्तओ पंचकारणसमुदाएण कज्जनिप्फत्ती होइ, तच्चेवं - "तंतुणो पडनिप्पायणसहावो, सो पडो कालेण होइ, पडनिप्पायणपउत्ते वि भवियव्वयानिओगेण पडो होइ, अन्नहा विग्घा चिअ हविरे । तंतुवायस्स उज्जमेण पडो हवइ, जइ कम्मं अणुकूलं सिया तो कज्जफलस्स भोत्ता होज्जा । एवं कालनियइ-सहाव-उज्जम-पुव्वकम्मसरूवपंच-कारणसमवाए कज्जं जायइ । तओ कालाइ-पंचसु नियई बलवई, तओ वि उज्जमो बलवंतो णेओ" ।
नीइसत्थे वि हियं - उज्जमे नत्थि दालिदं । अओ उज्जमो कया वि न मोत्तव्वो ॥ उवएसो - उज्जमस्स फलं नच्चा, विउसदुगनायगे ।
'जावज्जीवं न छड्डेज्जा, उज्जम फलदायगं' ॥ उज्जमस्स पहाणतणम्मि विउसवरदुगस्स कहा समत्ता ॥ - भोयनरिंदकहाए
(४) इंदियाणं निग्गहे महप्प-सुगाणं कहा
‘दव्वयासं समुच्छेत्तुं, हेऊ इंदियनिग्गहो' । कोसंबीए नयरीए एगो धम्मिट्ठो धणड्डो सेट्ठिवरो आसि । सो सइ धम्मसत्थाई सुणंतो साहुजणचरणकमलसेवाए सुहेण कालं गमेइ । तेण एगो सुगो पालिओ अहेसि, सो पंजरमज्झट्ठिओ समाणो सेट्ठिस्स पासंमि धम्मसवणेण संतप्पा सद्धम्मसीलो जाओ । सेट्ठिणो वि तंमि सुगंमि गाढयरो रागो संजाओ। सोहणयरफलाइणा तं सम्मं पालेइ । सुगो वि सया परमेसरस्स नामं बोल्लिऊण सेटिस्स चित्तं
१११
Page #120
--------------------------------------------------------------------------
________________ अल्हाएइ / एवं ताणं दुण्हं कइ वि दिवसा गया / एगया नयरीए उज्जाणो को वि महप्पा परभावण्णू अणेगसीसगणपरिवारजुओ धम्मवएसदाणत्थं समागओ। पउरजणा य तस्स समीवे धम्मसवणत्थं समागच्छंति / तया तं सेट्टि तस्स महारिसिस्स पासे गच्छंतं पेक्खिऊण सुगो वएइ - "हे सेट्ठिवर ! जया तुम्हे तस्स साहुवरस्स समीवे वंदणत्थं गच्छिज्जाह तया सो महप्पा एवं पुच्छिअव्वो, मम बंधणाओ मोक्खो कहं होस्सइ ? सत्थेसु एवं सुणिज्जइ - परमेसरस्स अभिहाणकहणं पि जीवाणं मोक्खदायगं सिया / हं तु सया ईसरस्स नामं गिण्हंतो वि अज्ज जाव बंधणंमि कहं पडिओ म्हि ? छुट्टणोवाओ को अत्थि ? एवं मम एसो पण्हो तुम्हेहिं पुच्छियव्वो"। सो सेट्ठिवरो सुगस्स वयणं सुणिऊण अंगीकरिअ य साहुवरस्स समीवे गओ / उबएसं सुणिऊण पज्जंते सुगस्स पण्हो पुट्ठो / पराभिप्पायनाणकुसलो सो मुणिवरो अच्छीइं निमीलिऊण झाणंमि थिओ, न किं पि वएइ / तया सो सेट्ठी 'दोच्चं तच्चं पि पुच्छेइ, तया वि सो मुणिंदो मउणेण झाणेण य संठिओ, न किं पि बोल्लेइ / सेट्ठिवरो वि झाणत्थं महप्पं दठूण गिहमि आगओ। सुगो वि सेट्टि पइ उत्तरं पुच्छइ / सेट्ठी कहेइ - “हे पियसुग ! तव पण्डो मए जया साहुणो पुच्छिओ, तया सो नेत्ताई निमीलिअ झाणंमि संठिओ, न किं पि उत्तरं दासी। एवं दोच्चं तच्चं पि पुट्ठो, तह वि सो निच्चलो निच्चेट्ठो संजाओ न किंपि बोल्लीअ"। तया सुगो वि अवगयपरमत्थो पंजराओ छुट्टणाय रत्तीए नयणाई निमीलिऊण निच्चेट्ठो इव संजाओ। पच्चूसे सो सेट्ठी तं तहाविहं निच्चेटुं दट्टण, किमयं मओ त्ति निण्णेउं पंजराओ बाहिरं कड्ढिऊण हत्थेण तं पिअसुगं फासेइ, निच्चलं तं मयं ति नच्चा “हा! हा! एसो मच्चं पत्तो"त्ति बहं सोइऊण तस्स मरणकिच्चकरणत्थं गिहाओ बाहिं नेऊण, सुद्धभूमियले खड्डे किच्चा तम्मज्झम्मि तं ठविअ अणलमाणेउं घरम्मि गओ / तया सुगो वि गड्डाओ उड्डिऊण, रुक्खस्स साहाए उवविट्ठो / सेट्ठी आगओ समाणो तं सुगं तरुसाहुवविटुं पासिऊण कहेइ - "हे पियसुग ! किं तुमए कयं? कहं अहं वंचिओ म्हि ? कहं वा मओ व्व निच्चिट्ठो जाओ" / तया सुगो वि आह- "हे सेट्ठिवर ! तुमए तस्स महप्पस्स साहुवरस्स उत्तरं सम्मं नाऽवगयं, किंतु तेण महप्पणा अणेण पगारेण मम पण्हस्स उत्तरो दिण्णो / मए उ तव वयणं सोच्चा एवं चिंतिअं- सो महप्पा नेत्ताई निमीलिऊण झाणम्मि निमग्गो निच्चिट्ठो जाओ, तओ मोयणस्स उवाओ अयमेव त्ति / तेणाऽहं झाणत्थो इव इंदियाणं निग्गहं किच्चा चित्तंमि संलीणो निच्चेट्टो जाओ। तए अहं मच्चं पत्तो त्ति णच्चा चत्तो / एवं तेण साहुवरेण पंजरबंधणाओ जुत्तीए अहं उम्मोइओ। एवं इंदियाणं निग्गहकरणेण भवबंधणाओ जीवो वि छुट्टिज्ज, परमपयं च पावेइ / अहं पि वणम्मि गंतूण जहिच्छं पहुपायसरणेण जीवणं सहलं करिस्सामि''त्ति कहिऊण वणम्मि गओ सुहिओ य जाओ / / उवएसो - निग्गहो इंदियस्सेह, सुगस्स फलिओ जहा / तहा 'तुम्हे पयट्टेह, तंमि समाहिया सया' // इंदियाण निग्गहे महप्प-सुगाणं कहा समत्ता // -गुज्जरकहाए 1. द्विः त्रिरपि / 112