________________
जिनाञ्चितश्रीभटसूरिपादयोः, समर्पितात्मा जगृहे च संयमम् । उपेयिवान् स्वान्यकृतान्तकौशलं, नमोऽस्तु तस्मै हरिभद्रसूरये ॥५॥
स्फुरन्मतिः सूरिपुरन्दरश्च यो, दृढव्रतः क्ष्मातललोक पूजितः । सर्वागमज्ञानकलाकलाधरो,
नमोऽस्तु तस्मै हरिभद्रसूरये ॥६॥ श्रुताब्धिमुन्मथ्य विचक्षणो महान्, व्यरचद् वेदयुगाब्धिभूमिताः (१४४४) । कृती कृतीमुक्तिपथप्रदर्शिका नमोऽस्तु तस्मै हरिभद्रसूरये ॥७॥
यदीयवागार्हतदर्शनालयप्रवेशने द्वारमिवाऽस्ति साम्प्रतम् । भवार्तितापार्दितशान्तिदायिने,
नमोऽस्तु तस्मै हरिभद्रसूरये ॥८॥ इत्थं स्तुतः श्रीहरिभद्रसूरिः, पुण्याभिधानः स्तवनाष्टकेन । श्रीनेमिसूरेरमृताख्यसूरेहेमेन्दुनाऽऽसाद्य गुरुं च देवम् ॥॥