SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ तत्रेदं कारणं यत् तस्यां वेलायां किमहं मृतकं गृहीत्वा गच्छेयमुताऽस्मै धनं वा प्रयच्छेयम् ? देव एव युक्तायुक्तमादिशतु । ततोऽपि दिनत्रयं लोकाचारे व्यग्रोऽहं धनं दातुं न शक्तवान् । अतः साम्प्रतं सर्वकार्यनिवृत्तोऽहं शीघ्रमेव धनमानीतवान् । गृह्णात्वेष निजं धनम्' । ततो राज्ञा मित्रानन्दो भणितः - 'गृह्णातु धनं भोः !! एष कारणवशाद् धनदाने चिरायितः । अतो नैतस्य दोषः' । मित्रानन्दोऽपि - 'अहोऽस्य धूर्तस्य धूर्तता' इति चिन्तयन् काकलीं विधाय धनं गृहीतवान् । ततो गते श्रेष्ठिनि राज्ञा कौतुकेनैष पृष्टः - 'भो भद्र ! कथयतु तावत्, कथं भवताऽऽरात्रि मार्युपद्रुतं मृतकं रक्षितम् ?' तदाऽनेनोक्तं – 'स्वामिन् ! तस्यां रात्रौ तु यज्जातं तस्य तु निर्वचनेऽपि भयं भवति । तथाऽपि कथयामि । तदा हि प्रथमं तावद्रात्रिरासीत्, द्वितीयं तु मृतकस्य रक्षणं, तृतीयं तु मारीहतं तदिति सर्वतो भयमासीत् । तच्च कथं निस्तरणीयमिति चिन्तयन्नहं विचारितवान् यदप्रमत्तस्य भयं नैव सम्भवेदिति । ततश्चाऽऽबद्धपरिकरश्छरिकाहस्तो दशाऽपि दिशोऽवहिततया विलोकयन् स्थितः । रात्रेः प्रथमे प्रहरे समाप्ते एव मया शिवानां दारुणो रोदनशब्दः श्रुतः । ततो यावत् पश्यामि तावता सर्वतः कपिलवर्णा ज्वालाकरालवदना शृगाल्यः फेत्कारं कुर्वत्यः समागच्छन्त्यो दृष्टाः । कातरनराणां तु तासां दर्शने हृदयमेव स्थगितं स्यात् । किन्तु मया साहसमवलम्ब्य तत्रैव स्थितमतो बिभीषिकास्वरूपास्ताः क्षणेनैव विद्युल्लतेव कुत्राऽपि विलीना जाताः। अथ द्वितीये प्रहरेऽत्यन्तं बीभत्सस्वरूपा विकरालरूपा वेताला किलिकिलिशब्दं कुर्वाणा मत्समक्षं प्रकटीभूताः । तानप्यहमक्षुब्धतयैव यावन्निरीक्षितवान् तावत् तेऽपि वाताहता जलधरा इवाऽदर्शनं प्राप्ताः । तृतीये प्रहरे भीमस्वरूपा अट्टाट्टहासं कुर्वत्यो डाकिन्यः समागताः । ता अपि निर्भीकतया पश्यति मयि क्षणादेव नष्टाः । रात्रेश्च पश्चिमे यामे यज्जातं तत्तु सर्वथाऽपूर्वमासीत् । इदानीमपि तदेव दृश्यं मम नेत्रसमक्षं नरीनृत्यते । सा ह्येकाऽप्सर:समानरूपा दिव्यांशुकसंवृत्ताङ्गी वराभरणभूषिता मुक्तकेशा विमुक्तसुप्रचण्डफेत्काररवा भयं जनयन्तीव मत्पार्वे समागता मां चाऽऽक्रोष्टमारब्धा – 'रे दुष्ट ! धृष्ट ! पापिष्ठ ! निष्ठुर ! अनिष्ट ! त्वमद्याऽपीहैव तिष्ठसि वा? एषाऽहं त्वां मारयामि' । तदाकर्ण्य मया निश्चितं यदेषैव सा मारी। ततो यावत् सा मम समीपमागता तावता मया वामकरण तस्या वामकरो गृहीतो दक्षिणकरेण च च्छुरिका उत्पाटिता । तच्च दृष्ट्वा साऽपि मम हस्तं निर्मोच्य गच्छन्ती मयाच्छुरिकया सहसा दक्षिणोरौ लाञ्छिता। तस्याश्च वामहस्तस्थितं कटकं मम हस्ते समागतं, सा च पुण्यक्षये लक्ष्मीरिव झटित्यदर्शनं प्राप्ता । तदनन्तरं च स्तोकेनैव कालेन सूर्योदयो जातः । ततश्च यज्जातं तत्तु भवतोऽपि विदितमेव' । ___ एतन्निशम्य चित्ते चमत्कृतो राजा चिन्तितवान् – 'अहो आश्चर्यजनकं चरितमस्य खलु !' ततस्तेन पृष्टोऽसौ – 'दर्शयतु तावत् तत् कटकं यन्मारीहस्तात् भवता गृहीतम्' । तदा तेन कोषान्निष्कास्य कटकं राजहस्ते प्रदत्तम् । तच्च यावत् राजा निरीक्षते तावत् निजनामाङ्कितं दृष्टम् । स चिन्तितवान् – 'अहो ! किमेतदतीवाऽघटमानं? यतो मया हि कटकमेतत् वत्सायाः करे आरोपितमासीत् । तत् किं कटकमेतत् ९२
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy