SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पचर्चा - प्रा. कमलेशकुमारः चोकसी (२) भवद्भिः नन्दनवनकल्पतरोः विगते त्रिंशत्तमे अङ्के षट्सप्ततितमे पृष्ठाङ्के संस्कृतलेखनस्य अर्हत्ताविषयिकी या चिन्तनीया अवस्था प्रकटिता सा वास्तविकी वर्तते । वस्तुतस्तु योग्यानां परीक्षकानामभावे केचन पुरस्कार-प्रख्यातिरूपस्य स्वार्थस्य साधनाय संस्कृते प्रचुरं लिखन्ति । परस्परं भावयन्तश्च परस्परं प्रशंसन्ति । अनेन प्रसिद्धि-पुरस्कारादिस्वार्थसाधनाय कृतेन पारस्परिकेन व्यवहारेण एतादृशाः संस्कृताध्यापकाः संस्कृतभाषानैपुण्ये न किमपि परिश्रमं कुर्वन्ति न च तत्त्वतो यथार्थं लिखन्ति । किमत्र करणीयमित्युक्ते यावत्पर्यन्तमेतादृशानां तथाकथितसंस्कृतज्ञानां नामसंकीर्तनपूर्वकं तटस्थं परीक्षणं न भवति, तावत्पर्यन्तं ते लेखने विवर्धमानाः परस्परं भावयन्तः कविपदारूढाः - यदस्माभिलिख्यते तत् संस्कृतसाहित्याकाशे नवीनतममाधुनिकं चाऽस्तीति जपन्तो प्रथमं स्वयमेव स्वात्मानं महति कविपदे प्रतिष्ठापयन्ति । तत: परिमितां संस्कृतभाषामवगच्छन्तो मित्रभूता अन्ये प्राध्यापका एतान् तादृशे कविपदे प्रतिष्ठापयन्ति । एवं परम्परा प्रचलति तत्र न कोऽपि बाधको भवतीति अधुनातनी वास्तविकता । अपरञ्चाऽत्र संस्कृतभाषानैपुण्यायाऽपेक्षितः प्रयत्नोऽपि विधेयो भवति । परन्तु प्रयत्नस्याऽस्य कर्ता कः भवेदिति यक्षप्रश्नः । ज्ञानलवभारेण भरिताः कमप्यन्यं स्वतोऽधिकं संस्कृतभाषाज्ञं न मन्यन्ते । अत एतस्मिन् विषये भवादृशाः संस्कृताराधकाः प्रेरका भवन्तु इति मे निवेदनम् । संस्कृताध्यापकपदे नियुक्तान् संस्कृतभाषानैपुण्याय प्रयत्नरतान् कर्तुं भवादृशाः सामर्थ्यशालिनः स्व-पर-पक्षतो विमुक्ताः विद्वांसः एव समर्थाः सन्ति । नाऽन्य: कश्चित् तत्र सफलतामर्हतीति मे स्वकीयोऽभिप्रायः । O १०७
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy