SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पत्रचर्चा प्रा. किशोरचन्द्रः पाठकः करुणावरुणालयैर्भवद्भिः प्रेषितः 'नन्दनवनकल्पतरोः'३०तमोऽङ्को यथाकालं सम्प्राप्तः । भृशमनुगृहीतोऽस्मि । __ अङ्केऽस्मिन् प्रकाशितः 'मौनं सर्वार्थः साधनम्' इति लेख: पठितः । पारतन्त्र्यनिगडिते राष्ट्र क्रमशो विनष्टासु सर्वासु शिक्षणपरम्परासु, स्वातन्त्र्यप्राप्तावपि विगतेषु च बहुषु वर्षेष्वपि अद्यावधि मोहकलिले वन्ध्ये शिक्षणतन्त्रे निष्फले च शासने विद्यालयेषु प्रायः सर्वासु विद्याशाखासु विशेषतः प्राच्यविद्याशाखासु जीविकैकचक्षुष्कानां मूलोच्छिन्नानां स्वाध्यायविमुखानां वृद्धमानिनामध्यापकानां तेभ्यश्चाऽधीतविद्यानां विद्यार्थिनां स्वेषु स्वेषु विषयेष्पीदृश्येव शोचनीया स्थितिः प्रायो अत्र तत्र सर्वत्र दरीदृश्यते । अतो भवद्भिः प्रकाशितमुदाहरणं नैकतमं नाऽतीवाऽऽश्चर्यकरमिति । इमां शोचनीयामवस्थां दृष्ट्वा दीर्यते हृदयं दूयते च मनः । का गतिः ? निरालम्बा सरस्वतीत्यलम् । १०६
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy