SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 'तर्हि किं स उदरपूरमन्नं न प्रयच्छति वा ?' 'न स्वामिन् !, स पर्याप्तं भोजनं प्रदत्ते' ।। 'तदा किं त्वं पर्याप्तमात्रया वस्त्राणि न लभसे ?' 'तान्यपि पर्याप्ततया लभेऽहम्' । 'एवं, तर्हि स किं त्वयाऽत्यधिकं कार्यं कारयति ?' 'न प्रभो ! एवमपि वक्तुं न शक्यम्' । 'तर्हि किं ते निजस्वामिनं प्रति काचिदन्याऽऽपत्तिरस्ति वा ?' 'न महाशय ! मम स्वामी तद्गृहजनाश्चाऽत्यन्तं दयालवो वत्सलाश्च सन्ति' । एतदाकर्ण्य विस्मितेन न्यायाधीशेन कथितं – 'भोः ! यदि ते स्वामी त्वां न ताडयति, पर्याप्तमन्नवस्त्रादिकं ददाति, अत्यधिकं कार्यं न कारयति, दयालुर्वत्सलश्चाऽप्यस्ति तहि किमर्थं त्वं सुखमिदं त्यक्त्वा पलायितः ?' कञ्चित् कालं तूष्णीं स्थित्वा तेनोक्तं – 'तहि प्रभो !, तत् स्थानमितोऽपि रिक्तमेवाऽस्ति, भवानपि तद् ग्रहीतुमर्हति..... !!' । (५) एष तु मम भ्राताऽस्ति.... पर्वतस्याऽऽरोहणं कठिनमासीत् । सर्वेऽपि यात्रिकाः श्रममनुभवन्तो निजं सर्वमपि भारमुपस्करं चाऽपनीयैवाऽऽरोहन्त आसंस्तथाऽपि वेगेन श्वसनं कुर्वाणाः श्लथीभूताऽदृश्यन्त । यात्रिकेष्वेका द्वादशवर्षदेशीया बालिकाऽप्यासीद् यस्या अङ्के चतुर्वर्षदेश्यो बाल आसीत् । साऽपि बालिका पर्वतमारोहन्त्यासीत्, किन्त शनैः शनैः । अथ च तामेवमारोहन्तीं दृष्ट्वा दयालुतां प्रदर्शयन् कश्चन पृष्टवान् - 'अयि बालिके! एनं लघुबालमुत्पाट्याऽऽरोहसि, तत् किं भारो नाऽनभयते वा ?' तया मधुरतयोक्तं - 'भारो ? नैव भोः !, अयं तु मम भ्राताऽस्ति.... !!' । ७६
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy