________________
रङ्गमञ्चः
विरञ्चिवञ्चनम् प्रा. अभिराजराजेन्द्रमिश्रः
(प्रविशति धर्मासनस्थो यमराजः सचित्रगुप्तः) यमराजः (चित्रगुप्तं प्रति)
भो चित्रगुप्त ! किमद्यतनं कार्यजातम् ? चित्रगुप्तः स्वामिन् ! भवदादेशमनुसृत्य प्रयागवास्तव्यो बाघम्बरीमार्गाभ्यस्तः कपालीनामा
कविरद्याऽऽनीतः । किं तस्य करणीयम् ? श्रुत्वा देवः प्रमाणम् । यमराजः (स्मृति नाटयन्)
हंहो ! स एव कपाली, यत्प्रणीतं यमधिक्कृतिशतकं क्वचित् पत्रिकायां प्रकाशितञ्च भवता
प्रदर्शितमासीत् ? चित्रगुप्तः देव ! अथ किम् ? स एव कपाली ! अतीवाऽसहिष्णुः स्वाभिमानपरायणश्चाऽयमासीत् । यमराजः तदकाले मृतः काले वा ? चित्रगुप्तः देव ! किमत्र कथयानि ? ह्यस्तने सान्ध्यकाले कस्याञ्चित् काव्यगोष्ठयां स्वोपज्ञां गलज्जलिकां श्रावयन्नासीत् -
शाम्यन्त्वकारणवैरिणां यदि बुद्धिदुर्भावाः क्वचिदपगते मयि केवलं तन्मरणमेव वृणे ॥ कस्याऽपि राज्यारोहणे यदि विघ्नभूतोऽहम् । तर्हि तं विघ्नं निहन्तुं मरणमेव वृणे । यदि यशश्चन्द्रस्य कस्याऽप्यस्मिराहुरहम् । तर्हि धिङ् मे जीवितत्वं मरणमेव वृणे ।। पुनर्जननं मे ध्रुवं मरणेन का हानि: ? किन्त्विमे सुखिनो भवेयुर्मरणमेव वृणे !!