SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ यमराजः (साश्चर्यम्) एवम् ? ततस्ततः ? चित्रगुप्तः स्वामिन् ! ततः किम् ? गलज्जलिकावसानेऽयं सविनयं सर्वानभिवाद्य मञ्चोपर्येव मुहूर्त निषण्णः हरिः ओमिति स्फुटमुच्चार्य स्वेहलीलासंवरणं कृतवान् । यमराजः (चकितस्सन्) अहो ! अद्भुतम्, अद्भुतम् । इतः प्राक् एतादृशं न मया श्रुतम् । तन्मन्ये नेदमकालमरणम् । कपाली समुचिततमे काले एव प्राणयात्रां पूरितवान् । इच्छामृत्युरयम् । चित्रगुप्तः युक्तमाह देवः । ममाऽपीदमेव चिन्तनम् । यमराजः तथाऽपि धिक्कारशतकैर्मी दूषितवन्तं तं सम्मुखमानय । तं विचित्रजीवं प्रत्यक्षीकर्तुमिच्छामि । चित्रगुप्तः यथाऽऽज्ञापयति देवः । (यमदूतानाज्ञापयति । ते च कपालिनमानयन्ति) चित्रगुप्तः (सङ्केतयन्) सोऽयं कपाली । पश्यत्वेनं देवः । (कपालिनं प्रति) भोः कपालिन् ! अयं हि त्रैलोक्यकर्मविपाकसंहितासूत्रधारो धर्मराजः । प्रणामेनाऽऽचारं प्रतिपद्यस्व तावत् । कपाली (सपारुष्यम्) भो मत्प्रणम्या तु केवलं पराम्बा भगवती योगमाया । तदङ्गभूतं मत्वैव धर्मराजमपि प्रणमामि [इति प्रणमति] । चित्रगुप्तः भोः पराम्बाभक्तः प्रतीयसे । अस्ति कश्चिद् विशेषः ? कपाली अथ किम् ! पराम्बा तावत् परा अम्बा । समेषामम्बा । समेषामम्बा । समेषां जीवानामम्बा । सा करुणामयी, ममतामयी, वात्सल्यमयी। सैवैका भक्तानामाति पश्यति, शृणोति, निवारयति चित्रगुप्तः पराम्बया किमुपकृतं तव ? कपाली चित्रगुप्त ! पृच्छ तावत्, किं नोपकृतम् ? बभक्षायां तयैव भोजितोऽस्मि । अनिद्रायां तयैव शायितोऽस्मि । सङ्कटे तयैव रक्षितोऽस्मि । यमराजः भद्र कपालिन् ! किं पराम्बाकृपागर्ववशादेव मां निन्दितवानसि धिक्कृतिशतकैः? । कपाली प्रभो ! अलम्मामन्यथा सम्भाव्य । धिक्कृतिशतकं तावद् व्यङ्ग्यकाव्यम् । तत्र भवान् विडम्बित: कविना । तथाऽपि न भवान् तत्र धिक्कृतीनां साक्षाद् विषयः । लोकरावणान् चिरायुष्कान्, समाजमङ्गलविधातूंश्चाऽनवसरमृतानवेक्षमाणः कविः कमन्यमुपालभेत ? जीवनमृत्युसन्दर्भे तु भवन्त एव प्रमाणम् । यमराजः (प्रह्वीभूय) साधु साधु ! अपगता मे भ्रान्तिः । परं प्रीतोऽस्मि ते । सम्प्रति ब्रूहि किं वाञ्छति भवान् ? स्वर्गे विश्रामं, मर्त्यलोके पुनर्जन्म वा ? कपाली प्रभो ! देवकाम्यं भूतलरत्नं भारतं विहाय किमपटोऽपि कोऽपि स्वर्गो वर्तते? तत्रैव पुनर्गन्तु मिच्छामि । यमराजः भद्र ! पारमाथिकं स्वर्ग न दृष्टवानसि । तत एव ब्रवीष्येवम् । भूतलरत्नं तु वर्तते भारतम् । ७८
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy