SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पाता । तदहमपि स्वीकरोमि । किन्तु स्वर्गलभ्यं किन्न वर्तते तत्र? कपाली तत्र वर्तते देवतात्मा हिमालयः । वर्तते तत्र दर्शनमात्रेण मुक्तिदायिनी सिद्धसिन्धुगंगा । वर्तते तत्र शम्भुत्रिशूलाग्रस्थिताऽविमुक्तक्षेत्रा काशी । साक्षान्निवसति तत्र तिरुपतिर्बालाख्यो नारायणः सपद्मावतीकः । पदे-पदे विलसन्ति तत्र शाक्तशैववैष्णवादितीर्थानि । का कथा मादृशां मानवानाम् ? देवाः स्वयमपि भारतभुवं तां निमेषमात्रमपि त्यक्तुं नेच्छन्ति । किमाह भवानत्र? यमराजः युक्तमाह भवान् । भारतं तु नारायणस्याऽपि प्रियं भूखण्डम् । परन्तु किं सुखमवाप्तं त्वया तत्र? कपालिन् ! यथाऽहं तव जन्मलग्नपत्रमिदमवलोकयामि तेन समस्तजीवनमेव ते सङ्कटाक्रान्तं परिलक्ष्यते । त्वया सुखलेशोऽपि नोऽवाप्तः । कपाली प्रभो ! जन्मपत्रिकेयं भगवता विरञ्चिना रचिता । सैव भवद्धस्ते विराजिता । परन्तु मत्पार्वे वर्ततेऽन्या काऽपि जन्मलग्नपत्रिका मे । इयं मयैव लिखिता । एतदनुसारेणैव मयाऽत्मजीवनं यापितम् । पश्य तावदिमाम् । आद्यन्तं मङ्गलमयीयम् । (इति पत्रिका प्रदर्शयति) यमराजः (साश्चर्यम्) तव पार्श्वे त्वन्निर्मिता जन्मपत्रिका ? किमिदमुच्यते ? तत्रभवान् विरञ्चिरपि वञ्चितस्त्वया? इयती ते शक्तिः? किमत्राऽऽश्चर्यं प्रभो ? किन्न श्रुतं भवता वाग्देवतावतारवचनम् - नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ।। किञ्च, अपारे खलु संसारे कविरेव प्रजापतिः । यथाऽस्मै रोचते विश्वं तथेदं परिवर्तते ।। देव ! परिभूः स्वयम्भूः सर्वतन्त्रस्वतन्त्रः कविः क्व निबध्यते विरञ्चिनिर्मितया जन्मलग्नपत्रिकया? स एवाऽस्म्यहम् !! यमराजः तत् सार्धद्वयवर्षावस्थायामपि यद् भवान् पितृसौख्यवञ्चितो जातस्तन्नाऽऽसीत् महद्दौर्भाग्यम् ? तद्विधानं तु विरञ्चेरेवाऽऽसीन्न ते ! कपाली प्रभो ! सौभाग्यदौर्भाग्ययोनिर्णयो जटिलः प्रतीयते । लक्षमिता जातका भवन्ति येषां पितरो जन्मदातारो मद्यपाः खण्डितवृत्ता वेश्यागामिन आततायिनश्च भवन्ति । कीदृशं सौभाग्यं ते रचयन्ति स्वसन्ततीनाम् ? वस्तुतः पिता भवति संरक्षणहेतुः । असुरक्षितोऽहं जातो जनकाभाव इत्यनुभवामि । परन्तु पित्रभावमात्रं न मन्ये दौर्भाग्यम् । यमराजः तज्जनकोचितसौख्यस्य पूर्तिः कथमिव जाता ? कपाली मातृसंरक्षणेन प्रभो ! यथा व्याघ्री स्वशिशूनप्रमादेन सेवते तथैव सेवितः संरक्षितः पालितः पोषितश्चाऽहं, मम सहोदरौ च जनन्याऽभिराज्या । लिखितं मया, अभिराजी नाम्नाऽसि जननि ! तस्मादहमप्यभिराजः । त्वमसि मदर्थं यमुना गङ्गा भरतधराऽचलराजः ॥ ७९
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy