________________
यत्किञ्चिदपि कुतोऽपि कदाऽपि क्वचिदपि ममाऽनुकूलम् । भूतभाविभवतां ननु तेषां त्वमसि जननि ! शुभमूलम् ॥
यमराजः (सप्रणयम्) साधु कपालिन् ! साधु । प्रशस्या ते मातृनिष्ठा । परन्तु कृतघ्नैर्निचिता भवज्जीवनयात्राऽवलोक्यते । प्रतिपदं तदाचरितं शाठ्यं, प्रवञ्चनं, विश्वासघातः, गोपितापाकरणं, शतमिताहितं च । तेभ्यः कथं मुक्तिरवाप्ता ?
I
कपाली प्रभो ! सर्वज्ञः सन्नपि कथं पृच्छति भवान् ? तथाऽपि स्वानुभवं वक्ष्यामि । कृतघ्नान् न जानामि, न परिचिनोमीति न । ते सर्वेऽपि मां निकषा मन्निर्मित एव भवने नक्तन्दिवं सुखं विलसन्ति । परन्तु ममोपजीविनस्ते वराकाः किं कुर्युः ?
यमराजः नाऽवगतो भवदभिप्रायः !
कपाली प्रभो ! यथा काष्ठे जन्म गृहीतवन्तः कीटाः काष्ठमेव स्वाश्रयभूतं कृन्तन्ति, भक्षयन्ति तथैव मदाश्रयाः कृतघ्नाश्चाऽपि मामेव भक्षितवन्तः । यथा काष्ठकीटा अनन्यगतिका विवशाश्च तथा कर्तुं तथैवेमे कृतघ्ना अपि । काऽपरा युक्तिर्देया मया ?
यमराज: अहो नु सहिष्णुत्वं ते ? कपालिन् ! चकितोऽहम् ।
कपाल देव ! तत एव कस्याञ्चिद् गलज्जलिकायां लिखितं मया -
देहि यस्मै त्रिवेणीकवेर्जीवितम्
तं सहिष्णुं विधेहीति सम्प्रार्थये इति ।
यमराजः कपालिन् ! देवा अपि प्रतीकारपरायणाः श्रूयन्ते । कार्तघ्न्यं तेऽपि न सहन्ते । यतो हि कृतघ्नता दहति हृदयं, लघयति च जिजीविषाम् । त्वया किमाचरितम् ?
कपाली
युक्तमाह देव: । परन्तु यथा कवचमण्डितं योद्धारं शत्रुनाराचा न व्यद्धुं शक्नुवन्ति तथैव हरिभक्तिकवचमण्डितं मां कृतघ्नता न व्यद्धुं शशाक । किञ्च कृतघ्नानहं तत्कृतघ्नताप्रकाशनक्षणे एव अकालमृतान् अनुभूय, तेभ्यस्तिलाञ्जलिं दत्तवान् । मम जीवनपञ्जिकायां तन्नामवन्ति पृष्ठान्येव न वर्तन्ते । तेषां कोऽप्यनुभव एव न वर्तते । अनुभव एव दुःखस्य भवत्येकमात्रं कारणमिति सुष्ठु जानन्ति देवपादा अपि ।
I
यमराज: (सविमर्शम्) कपालिन् ! गूढाभिप्रायं ते वचनम् ।
कपाली प्रभो ! नाऽत्र काचिद् गूढता । शास्त्राणामुपदेशामृतमिदम् । अपूरणीया आकाङ्क्षैव दुःखस्य मूलम् । यदि तादृशीमाकाङ्क्षामेव न कोऽप्यनुभवेत् तर्हि कथं नु दुःखमुत्पद्येत ? तन्निहतैव सर्वसुखमूलम् । देव ! यथा मयाऽपूरणीयाऽऽकाङ्क्षा नाऽनुभूता तथैव कृतघ्नानामस्तित्वमपि । अत एव न मे तज्जन्यं दुःखम् ।
यमराजः साधु कपालिन् साधु ! तद् भवान् स्वर्गं न कामयते ?
कपाली प्रभो ! विरञ्जिरचितं स्वर्गं न कामये । तेन स्वर्गेण न मे तृप्तिः ।
८०