SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ यमराजः (प्रहस्य) कपालिन् ! किमपरोऽपि स्वर्गः वर्तते? स्वर्गस्तु विरञ्चिरचित एव । कपाली मैवं देव ! अपरोऽपि स्वर्गो वर्तते यो हि मया स्वयमेव रचितः । स वर्तते मदीयं जीवनम् । तस्मिन् स्वर्गेऽपि वर्तते परितोषस्यैरावतगजः । काव्यप्रतिभाया उच्चैःश्रवा अश्वः । साहितीवैभवस्य नन्दनवनम् । मधुस्वप्नानामाकाशगङ्गा ! तज्जीवनं तु मर्त्यलोक एव सम्भवति । अत एव स्वराष्ट्र भारतमेव गन्तुमिच्छामि । यमराजः (सकैतवम्) परन्तु भारतं तु सुविशालं राष्ट्रम् । कुत्र भवान् जिगमिषति ? कपाली (सङ्कटमिवाऽनुभवन्) युक्तमाह देवः । औदीच्यास्तु कृतघ्ना एव । प्राच्या गर्हितभक्ष्याः । प्रतीच्या मरुशुष्का देवमातृकाश्च । दाक्षिणात्याः पुनः धर्माचरणशुचयो रसिकाश्च । तद् दक्षिणमेव मह्यं रोचतेतराम् । यमराजः (चित्रगुप्त प्रति) चित्रगुप्त ! एनं कवितल्लजं कावेरीतटवतिनि कस्मिंश्चिद् विद्याविनयकवित्व सम्पन्ने द्विजगृहेऽद्यैव प्रेषय । मा खन्वयम् (इत्य|क्ते)..... कपाली मैवं मैवं भगवन् । क्षम्यतामयं मूढः । अतितरां रुचितेऽपि दक्षिणे नाहं जन्म ग्रहीतुमिच्छामि । यमराजः कपालिन् ! तत् किमिच्छसि ? अहं तु तवैव प्रियं कर्तुमिच्छामि । कपाली (अश्रूणि मोचयन्) प्रभो ! कृतघ्नसमवायसङ्कुले तस्मिन् औदीच्य एव प्रेषय माम् । किञ्च, तस्मिन्नेव स्यन्दिकातटवतिनि द्रोणीपुरस्थद्विजाग्रहारे ममैव पूर्वजानां मम च गृहे सकृत्पुनर्मा सम्भावय। कृतार्थो भविष्यामि । यमराजः (सप्रसादम्) वत्स कपालिन् ! परां प्रीतिमुपगतोऽस्मि त्वदीयं स्वजन्मभूमिप्रणयं दृष्ट्वा । तत् स्वकाव्यरसेन मां मत्परिकरांश्च सन्तर्प्य गच्छ । कपाली यथाऽऽज्ञापयति देवः । (इति गायति) - जगन्निर्वर्ण्य पाषाणोऽस्मि जातः अमृत्वैवाऽऽप्तनिर्वाणोऽस्मि जातः ॥ समे ज्ञातुं यतन्ते शुद्ध्यशुद्धी सुवर्णानां कृते शाणोऽस्मि जातः । शिवोऽहं गल्लवादनमात्रतुष्टः क्षणेनाऽर्पितपरित्राणोऽस्मि जातः । पठित्वा देववाणीमिह धरित्र्याम् मनुष्येष्वद्य गीर्वाणोऽस्मि जातः । शयेऽहं शारदोत्सङ्गे सलीलम् । तदङ्गुलिजन्यनिक्वाणोऽस्मि जातः ।। यमराजः (सालादम्) साधु साधु कपालिन् ! सम्प्रति गच्छ स्वकीयाग्रहारे, स्वकीय एव गृहे । समाज ८१
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy