SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ स्वतपोबलेन सम्यग्जानाम्यहं यत्तव भ्रातृव्यपत्नी सम्प्रति परिपक्वगर्भाऽऽसन्नप्रसवा च वर्तते । अद्यैव ब्राह्मे मुहूर्ते तद्गर्भादवतर । इयमेव ममाऽऽशीः । नूतनं ते जीवनं निष्कृतघ्नं मङ्गलमयं च स्यात् (इत्यपक्रान्तः) । (नेपथ्ये श्रूयते) मङ्गलं मङ्गलं मङ्गलम् । भो भोः प्रतिवेशिनः ग्रामवासिनः ! श्रूयतां श्रूयताम् । इयं हि भोजशीतल-काशीराम-दुलार- रामानन्द - दुर्गाप्रसाद - देवेन्द्रमिश्रकुलवधूः पुष्करप्रिया सावित्री जातकं प्रसूतवती ससुखम् । सूतगृहगीतानि गीयन्ते सुवासिनीभिः । नृत्यन्ति च कुमारिकाः । वंशवृद्धिरियं गौतमगोत्रवतां भभयानाम् । ॥ इति पटाक्षेपः ॥ ॥ इति श्रीमद्गौतमगोत्रोत्पन्नदुर्गाप्रसादाभिराजीमध्यमतनूजन्मना देवेन्द्रसुरेन्द्रमध्यमसहोदरेण हर्षविषादादिसर्वयुग्ममध्यस्थेनाऽभिराजराजेन्द्रेण विरचितमेकाङ्कं विरञ्चिवञ्चनमवसितम् ॥ दोहावली-संस्कृतम् रचयिता प्रकाशकः - - प्रा. स्वामिनाथपाण्डेयः अभिव्यक्तिप्रकाशनम् — O ग्रन्थपरिचयः १-२/१/५३, आनन्दबाग, कनीगंज, अयोध्या, फैजाबाद (उ.प्र.) पृष्ठानि ६२, मूल्यम् - रू. १५१/- प्रकाशनवर्षम् ई. २०१३ ग्रन्थेऽस्मिन् गोस्वामितुलसीदासविरचिता दोहावली सरलसंस्कृतेनाऽनुष्टुप् श्लोकैरनूदिताऽस्ति । आहत्य ५७३श्लोकाः सन्ति । भाषा सरला हृदयङ्गमा च वर्तते । एतादृशेन कार्येण संस्कृतवाङ्मयं समृद्धीकुर्वाणाय लेखकाय धन्यवादाः । ८२
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy