________________
एतदाकर्ण्य हृष्टा शतपदी कथितवती - 'अहो ! श्रेष्ठोऽयमुपायः प्रतिभाति । किन्त्वधुना चिक्रोडरूपेण परावर्तनं कथं प्राप्तव्यमित्यपि निर्दिशत्' ।
'एतत् सर्वं पृष्ट्वा मां मा पीडयतु । मम कार्यं तु केवलमुपायविचारणमेव । तत्कथं साधयितव्यमिति तु भवच्चिन्ताविषयः !!' इत्युक्त्वोलूकस्तूष्णीमभवत् ।
(३)
कुत्र गन्तव्यम् ? अद्यतन-तन्त्रविज्ञानस्योपलब्धिविषये पृष्टे गुरुणा निदर्शनमेकं प्रदत्तम् –
एकस्य शून्यमनस्कस्य प्राध्यापकस्यैकदाऽध्यापनार्थं गमने विलम्बो जातोऽतः स एकस्मिन् टेक्सि-याने झटित्युपविश्य चालकं समादिशत् – 'भोः ! त्वरस्व, पूर्णवेगेन चालय' ।
चालकोऽपि यानं पूर्णवेगेन चालितवान् । तदा प्राध्यापकेनाऽवगतं यत् कुत्र गन्तव्यमिति तु स चालकं नैवोक्तवानासीत् । अतः स उच्चस्तं पृष्टवान् - 'भोः ! किं त्वं जानाति - कुत्र मया गन्तव्यमिति?'।
'नैव महाशय !, किन्त्वहं यथाऽधिकेन वेगेन चाल्येत तथा चालयन्नस्मि !!' इति कथितवान् सः ।
(त्रयमप्येतत् One Minute Nonsense
इति पुस्तकाधारेण लिखितम्)
(४) तत् स्थानं रिक्तमस्ति.....
[पूर्वं किल अमेरिकादेशे दासक्रय-विक्रयप्रथाऽऽसीत् । कृष्णवर्णान् जनान् श्वेतवर्णीया स्वीयदासत्वेन क्रीणन्ति स्म, तैः पशुवत् कार्यं कारयन्ति स्म, भृशं च पीडयन्ति स्म । एतेन त्रस्तः कश्चन दासो यदि पलायेत तदा स निगृह्य कठोरतया दण्ड्यते स्म । एवंस्थितेऽपि जीवमात्रस्य स्वातन्त्र्याभिलाषित्वात् बहवो दासाः पलायन्ते स्म, गृहीताश्च दण्डमपि प्राप्नुवन्ति स्म ।]
एकदा पलायित एको दासो रक्षकैर्गृहीतो न्यायालये चोपस्थापितः । न्यायाधीशेन पृष्टः सः - 'किं ते स्वामी त्वां ताडयति ?'
तेनोक्तं - 'नैव प्रभो !' ।
७५