SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये" | मुग्धभावेन अहं तत्र अपश्यम् । विंशतिप्राया वृद्धा धवलवस्त्राणि धारयित्वा गीतं गायन्त्यो गच्छन्ति - "श्रीकृष्ण ! गोविन्द ! हरे ! मुरारे ! हे नाथ ! नारायण ! वासुदेव !" "हर हर महादेव !" "जय जगदीश हरे !" इत्याद्यनेकविधम् । अस्य रम्यप्रत्यूषस्येयं मधुमयी स्वरलहरी यथा मनस्यानन्दं ददाति, तथाऽऽनन्दमहं कदाऽपि न प्राप्तवान् । इदं मम मातृभूमेः सङ्गीतं यत् प्रतिहिन्दुरक्तं चमत्करोति । अज्ञातभावेनाऽहं चीत्कृतवान् - इयमेव मम मातभमिः, यस्या धुलिकणेष सम्मिलितं ममैकान्तिक्यभिलाषा । सहसाऽहं सैनिकवेशं दरे प्रक्षिप्य सागरजलेऽमज्जम् । मुखे भगवतः पावननाम – "जय जगदीश हरे !" अधुना काऽपि महत्त्वाकाङ्क्षा पुनर्न बाधते माम् । केवलं प्रार्थये कश्चन जीवन्मुक्तो हिन्दुरिव - न वै प्रार्थ्यं राज्यं न च कनकमाणिक्यविभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रथमपतिना गीतचरितो जगन्नाथस्वामी नयनपथगामी भवतु मे ॥ ___ दूरे श्रीमन्दिरे मङ्गलरात्रिकस्य घण्टानादेन सह श्रूयते स्म दशावतारस्तोत्रांशः – “जय जगदीश हरे !...." १०३
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy