SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ४. जागरणम् यस्मिन्नुपवने पूर्णपुरुषो बुद्धोऽवस्थित आसीद् यत्र च स्वमित्रं गोविन्दोऽवस्थितस्तदुपवनान्निर्गतः सिद्धार्थोऽनुभूतवान् यत् 'तस्य पूर्वतनं जीवनं स तत्रैव त्यक्त्वा निर्गतोऽस्तीति । शनैः शनैः स्वमार्गे गच्छतस्तस्य मस्तिष्कमेतेनैव विचारेण पूरितं जातम् । यावदेषाऽनुभूतिस्तं पूर्णतयाऽऽक्रान्तवती तावत् स गभीरतया चिन्तितवान् । चिन्तयन्नेव स तं बिन्दुं प्राप्तो यत्र स हेतूनवगतवान् । तस्य प्रतिभातं यद् हेतूनवगन्तुं विचारा आवश्यकाः, विचारद्वारैव चाऽनुभूतयो ज्ञानतया परिणमन्ति नष्टाश्च नैव भवन्ति, किन्तु सत्याः परिपक्वाश्च भवन्ति । स्वमार्गेऽग्रेसरतः सिद्धार्थस्य मनसि गभीरं चिन्तनं प्रवर्तते स्म । सोऽनुभूतवान् यदिदानीं स नाऽस्ति तरुणो युवा वा, अपि तु स पुरुषः सञ्जातोऽस्ति । सोऽनुभूतवान् इदमपि यत् किञ्चिद् वस्तु तस्याऽस्तित्वान्निर्मुक्तमस्ति यथा हि सर्पशरीरात् कञ्चुकः । तत् किञ्चित् तस्याऽस्तित्वे नाऽऽसीदिदानीं यद्धयातारुण्यात् तदनुषक्तमासीत् - ननु यदस्तित्वस्य भागरूपमेवाऽऽसीत् । तद्ध्यासीद् गुरुप्राप्तेस्ततश्च ज्ञानप्राप्तेः स्पृहा । स्वजीवनस्याऽन्तिमं गुरुं महान्तं महाज्ञानिनं पवित्रतममपि च गुरुं - बुद्धं सोऽधुनैव त्यक्तवान् आसीत् । स तेन त्यक्तव्य एवाऽभवत्, तदुपदेशं स्वीकर्तुं स सोत्कण्ठो नाऽऽसीत् । शनैः शनैः स्वमार्गे गच्छन् स स्वमेव पृष्टवान् - 'तत् किमस्ति यत् त्वमुपदेशाद् गुरुभ्यश्च बोद्धुमिष्टवान् ? तथा, यद्यपि ते त्वां बह्वन्यच्छिक्षितवन्तस्तथाऽपि तत् किमासीत् यत् ते त्वां बोधयितुमक्षमा जाता: ?' चिन्तयता तेन ज्ञातम् – 'आम् - तद्ध्यासीत् मम आत्मा । अहं हि तस्यैव स्वभावं प्रकृतिं च ज्ञातुमुत्सुक आसीत् । अहं हि स्वात्मानं मोचयितुं - तं जेतुमिष्टवान्, किन्तु नाऽहं तं जेतुं क्षमो जात:, अहं केवलं तस्य वञ्चको जातः, केवलं पलायितः केवलं च ततोऽन्तर्हितो जातः । सत्यं, नाऽस्त्यस्मिन् जगति ततोऽन्यद् येन मम चित्ततन्त्रमाक्रान्तं स्यात् । आमियमेव प्रहेलिका, यदहं जीवामि, अहं एकलः, सर्वेभ्यश्चाऽन्येभ्योऽहं भिन्नो विच्छिन्नश्च, अहं सिद्धार्थः । तथाऽस्मिन् जगति अहं स्वं सिद्धार्थं मुक्त्वा नाऽन्यवस्तुविषये इयदल्पतरं जानामि' । चिन्तयन् गच्छंश्च स सहसैवाऽनेन विचारेण गृहीत इव तत्रैव स्तम्भितो जातः, एतस्माच्च विचारादन्योऽपि विचारस्तत्क्षणमेव समुद्भूतः, यथा - 'कथमहं स्वविषये इयदल्पं जानामि - कथं च सिद्धार्थो ममेयानपरिचितोऽज्ञातश्च - इत्यस्य कारणमेकमेव, केवलमेकं तदस्ति - अहं स्वस्मादेव भीत आसम्, स्वस्मादेव पलायनं कुर्वन्नासम् । अहं ब्रह्माऽन्विषन्नासम्, आत्मानं गवेषयन्नासम् – अज्ञातमन्तस्तमं, I सर्वेषां वस्तूनां मूलतत्त्वमात्मतत्त्वं, जीवनतत्त्वं, दिव्यतत्त्वं, नित्यतत्त्वं प्राप्तुम् । किन्तु, हन्त एतत् कुर्वन्नहं स्वमेव भ्रंशितवान् - अहं स्वमेव नाशयितुमिष्टवान् ।' - सिद्धार्थो दृष्टिमुन्नीय परितो विलोकितवान् । तन्मुखे स्मितं विलसितमीषत्, तत्क्षणमेव तस्य समग्रेऽप्यस्तित्वे दीर्घस्वप्नाज्जागरणस्य दृढाऽनुभूतिः प्रसृता । तत्कालमेव स ततोऽग्रेऽसरत्, त्वरितं, यथा ७१
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy