SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ कश्चित् स्वकर्तव्यं जानानः शीघ्रतया गच्छेत् तथा । चिन्तनं तु प्रवर्तमानमेवाऽऽसीत् – 'आम्', दीर्घ श्वसन् स चिन्तितवान् – 'इतः परं, सिद्धार्थात् पलायितुं नाऽहं प्रयतिष्ये । आत्मविषयान् संसारदुःखविषयांश्च विचारान् नैव करिष्ये । खण्डगृहाणां रहस्यानि ज्ञातुं नाऽहं स्वं छिन्नभिन्नं नष्टं वा कर्तुं यतिष्ये । योगाध्ययनं वेदाध्ययनं श्रामण्याभ्यासमन्यं वा कञ्चिदभ्यासं नैव करिष्ये। अहं हि स्वस्मादेव शिक्षणं ग्रहीष्ये, स्वस्यैव शिष्यो भविष्यामि, सिद्धार्थस्य च रहस्यं ह्यहं स्वस्मादेवाऽवगमिष्यामि' । समग्रमपि विश्वं दिम्प्राथम्येन पश्यन्निव स परितो व्यलोकयत् । तत् सुन्दरमपूर्वं रहस्यमयं चाऽभासत । विश्वं ह्यत्र नीलमासीत् पीतमासीत् हरितं चाऽपि विलसदासीत्, आकाशं नदी वृक्षाः पर्वताः - सर्वमपि सुन्दरतमं रहस्यमयं मनोमोहकं, तन्मध्ये च सः - सिद्धार्थः - जागृतः - स्वात्मनो मार्गे गन्तुं सज्जः स्थित आसीत् । सर्वमप्येतत् - सर्वं पीतं सर्वं नीलं, नदी वृक्षाः आकाशं - सर्वमपि - ऐदम्प्राथम्येन तस्य नयनयोः पुरतः समागतम् । नाऽऽसीदिदं मारस्येन्द्रजालं, न चाऽपीदं मायाया आवरणमासीत्, नाऽऽसन्नेतेऽर्थहीना दैवकृताश्च जगतो नैकविधा आभासा ये हि वैविध्यविरोधिभिरद्वैतशोधकैश्च गभीरचिन्तनशीलैाह्मणैस्तिरस्कृता आसन् । नदी नद्येवाऽऽसीत् । तथा यदि सिद्धार्थात्मनि निगूढतया विद्यमानमैक्यं दिव्यत्वं च यदि नीले नभसि नद्यां च विद्यमानमासीत् तर्हि तत् केवलं दिव्या कला दिव्यश्च सङ्कल्प एवाऽऽसीद् यत् पीतेन नीलेन च भवितव्यमेव, तत्राऽऽकाशेन वृक्षैश्चाऽत्र च सिद्धार्थेन । अर्थो वास्तविकता च न कुत्रचिद् वस्तूनां पृष्ठतो निलीने किन्तु ते वस्तुष्वेव सङ्कलिते स्तः सर्वेष्वेव वस्तुषु । 'अहं कीदृशो मूों जडश्चाऽऽसम्' । शीघ्रं चलन् स व्यचारयत् । 'यदा कश्चिज्जनः किञ्चित् पिपठिषुस्तदधीते, तदा स तदक्षराणि विरामचिह्नानि वा नैवाऽवगणयति नाऽपि तानि भ्रमजालमाकस्मिकं व्यर्थं चेत्येवमुपेक्षते; किन्तु स तानि अक्षराणि पठति, सम्यगभ्यस्यति, प्रेम्णा चाऽऽत्मसात् करोति । किन्तु जगतः पुस्तकं पिपठिषुरपि, स्वीयप्रकृतेरभ्यासं चिकीर्षुरप्यहं तदक्षराणि विरामचिह्नानि चोपेक्षितवान् अविचारितया । साकारं जगदहं भ्रमणारूपेण निन्दितवान् । नेत्र-जिह्वादीन्यक्षाण्यहमाकस्मिकानि मन्वानोऽवधीरितवान् । परन्त्विदानीं तत्सर्वमवसितमस्ति । अहमुज्जागरितोऽस्म्यद्य, नूनमहमुज्जागरितोऽस्मि, अद्यैव च मया पुनर्जन्म प्राप्तमिव' । यदा चैते विचारास्तस्य चित्ते स्फुरिताः, स सहसा तत्रैव, सर्पं दृष्ट्वेव, स्थिरो जातः । अथ च तदैव सहसा तन्मनस्येतदपि स्पष्टं जातं यत् - येनोज्जागरणं नवजन्म वा प्राप्तमासीत्, तेन स्वजीवनमपि पूर्णतया पुनर्नवत्वेनैवाऽऽरब्धव्यमस्तीति । यद्यपि, यदा स पूर्णपुरुषस्य भगवतो बुद्धस्य निवासस्थानाद्-जेतवनान्निर्गत आसीत् तदा तस्य ध्येयं गृहगमनमासीत्, तथा वर्षाणां संन्यासानन्तरं पितृपार्वे गमनस्येच्छा तस्य सहजतयैवोचिता प्रतिभाताऽऽसीत् । तथाऽपि, यदा स तस्मिन् क्षणे सर्प दृष्टवानिव स्थिरोऽभवत् तदाऽन्योऽपि विचारस्तस्य ७२
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy