________________
एतच्छ्रुत्वा देवधरेण सानन्दं कथितं - 'गुर्वाज्ञैव मे प्रमाणं प्रभो !, अहमवश्यं बालकमिमं स्वीकरिष्ये तत्पालनं च स्वपुत्रवदेव करिष्ये' ।
ततश्च हृष्टचित्तेन कुलपतिना तस्य स बाल: समर्पितः, तेनाऽपि पन्या सह सप्रमोदं स्वीकृतः । देव्यपि च जातसन्तोषा चित्तसमाधिना मृत्युं प्राप्ता । देवधरोऽपि च स्वनगरं प्रति प्रस्थितः सपरिवारः। मार्गे एव तेन निजः समग्रोऽपि परिजनः शपथेन शप्त्वाऽऽदिष्टं यद् – 'उज्जयिनीं प्राप्य सर्वैरपि - श्रेष्ठिपत्न्या युगलं प्रसूतमित्येवं वक्तव्यम्' । परिजनोऽपि 'एवं करिष्यामः' इति तदङ्गीकृतवान् ।
ततो गृहं प्राप्य तेन सवर्धापनकं द्वयोरपि नामकरणोत्सवः कृतः, तत्र च बालस्य नामाऽमरदत्त इति बालिकायाश्च सुरसुन्दरीति स्थापितम् । द्वावपि वर्धमानौ यथोचितं कलाकलापं ग्राहितौ श्रेष्ठिना ।
इतश्च तत्रैव नगरे सागरनामा श्रेष्ठी वसति, तस्य मित्रश्री म भार्या, तयोश्च मित्रानन्दाभिधः सुतोऽस्ति । सोऽपि चाऽमरदत्तेन तुल्यवयास्तस्य सवया जातः । ततश्च द्वावपि सहैव पठतः सहैव क्रीडतः सहैव च सर्वत्राऽप्यटतः स्म ।
अथाऽन्यदा ताभ्यां चिन्तितं यदत्रैवाऽवस्थानेन किमर्थं व्यर्थतया कालो गम्येत? देशान्तरं गत्वा किमिति स्वभागधेयपरीक्षा च क्रियेत ?
ततो द्वावपि स्वस्वपितरौ कथमपि विप्रतार्य रात्रावेव नगरान्निर्गतौ अनवरतप्रयाणैश्च पाटलीपुत्रनगरं प्राप्तौ । नगराद् बहिरेवैकं विविधवृक्षसमूहेन रमणीयमुद्यानमेकमासीत् । तत्र चोद्याने एकं मनोहरमुत्तुङ्गप्राकारशोभितं सुचारुशिल्पपरिमण्डितमेकं देवभवनमासीत् । देवभवनसमीप एवैका दीर्घिकाऽऽसीत् । तस्या निर्मलेन जलेन स्नात्वा प्रवासश्रममपनीय च द्वावपि सकौतुकं देवालये प्रविष्टौ । तत्र चोत्कीरितानां रमणीयशिल्पानां सौन्दर्यं विलोकयन्तौ द्वावपि परमाश्वासं प्राप्तौ ।
अथ चैतावताऽमरदत्तस्य दृष्टिरेकस्यामत्यन्तसुन्दरायां शालभञ्जिकायां पतिता । उद्भटलावण्ययौवनगुणाढ्यां सुपुष्टाङ्गोपाङ्गमनोहरां प्रत्यक्षं रतिमिव तां शालभञ्जिकां विलोकयन् कुमारस्तत्क्षणमेव सञ्जातमन्मथोन्माथस्तस्या देहात् क्षणमपि दृष्टिं नोत्सारयति स्म । अत्राऽन्तरे मित्रानन्देन कथितं – 'भो मित्र ! चलतु नगरं प्रति, भोजनवेलाऽतिक्रान्ताऽस्ति, पश्चात् किमपि नैव लप्स्येत' । कुमारेणोक्तं - 'क्षणं तिष्ठतु, इमां शिल्पसुन्दरीमातृप्ति विलोकयामि तावत्' ।
ततः कञ्चित् कालमतिवाह्य पुनरपि तेन प्रेरितोऽसौ कथितवान् – 'मित्र ! भवते सत्यं वदामि चेत् - अहं क्षणमपि एतत्सकाशादपसर्तुं नैव शक्नोमि' । 'किन्तु बन्धो ! निश्चेष्टायामस्यां कथं वा भवत एतावानभिष्वङ्गः? भवादृशे विवेकशालिने एतन्नैव कर्तुमुचितम्' । तदा तेनोक्तं – 'यद्यहमेतस्याः पार्वात् कथमप्यपसरेय तदा मे हृदयमवश्यं शतधा विदीर्णं भविष्यति । यदि च भवान् बलान्मामितोऽपसारयेत् तदा निजहस्तेनैव मे काष्ठानि ददातु' । एतन्निशम्याऽत्यन्तं दुःखितान्तःकरणोऽसौ सशब्दं रोदितुमारभत । तद् दृष्ट्वा कुमारोऽपि तथैवाऽऽक्रन्दितुं प्रवृत्तः ।