SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ चोपदेशं श्रुत्वा प्रसन्नो भवति स्म, तेषामेकतमोऽपि तं स्वर्गलोकं न पूर्णतया प्राप्तवान् कदाचित्, नाऽपि च तदीया तृट् शान्ता जाता किल । ___ अथाऽन्यदा यथापूर्वं सिद्धार्थो गोविन्दमाहूतवान् – “गोविन्द ! मया सह वटवृक्षसमीपमागच्छतु, आवां तत्र ध्यानाभ्यासं करिष्यावः" । तौ गतौ । वटवृक्षस्य चाऽधस्तात् परस्परं किञ्चिद् दूरमुपविष्टौ । तत ओङ्कारस्योच्चारणात् पूर्वं सिद्धार्थो मृदुस्वरेण श्लोकमेनमुदितवान् - प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ।। ततो द्वावपि ध्यानमग्नौ बभूवतुः । यदा च ध्यानस्य निश्चितः कालः पूर्णोऽभवत् तदा गोविन्दः स्वासनादुत्थितः । सन्ध्याकालः सन्निहित आसीदतः सान्ध्यविधिमाचरितुं समयोऽयमिति विचिन्त्य तेन सिद्धार्थ आहूतः । किन्तु स नैवोदतरत् । स हि ध्याने गाढं लीन आसीत् । तदक्षिणी दूरतमं किञ्चन लक्ष्यं पश्यतीव स्थिरे आस्ताम् । जिह्वाग्रं च दन्तयोर्मध्ये मनाग् दृश्यते स्म, श्वासोच्छ्वासौ चाऽत्यन्तं सूक्ष्मीभूतौ । एवं च स ओङ्कारस्य ध्याने सर्वथा मग्न आसीत्, तस्य चाऽऽत्मा शर इव ब्रह्म प्रति प्रेषित इव प्रतिभाति स्म । इत्थं च तत्प्रवृत्तयो बहुतरामन्तर्मुखा अभवन् । अथैकदा केचन श्रमणाः सिद्धार्थस्य नगरे विहरन्तः समागता आसन् । ते हि त्रयः पर्यटकास्तापसा आसन् - अतीव कृशदेहा: क्लान्ता मध्यमवयसश्च । तेषां स्कन्धौ मलमलिनौ रक्तक्लिन्नौ चाऽऽस्तां, शरीरं च नग्नप्रायं सूर्यातपेन च दग्धमिवाऽऽताम्रवर्णमासीत् । ते एकाकिनो विलक्षणा जगद्विमुखाश्च सन्तो मनुजसमाजेऽवसन्नाः शृगाला इव प्रत्यभासन्त । तेषां परित उपशान्तभावस्योच्छिन्नदेहोपचारस्य निर्दयात्मसंयमस्य चाऽऽभा विलसमानाऽऽसीत् । तस्मिन् सायङ्काले ध्यानं समाप्य सिद्धार्थो गोविन्दमकथयत् - "वयस्य ! श्वः प्रातः सिद्धार्थः श्रमणैः सह गमिष्यति । स श्रमणो भविष्यति" । सिद्धार्थस्य कृतनिश्चयं वदनं दृष्ट्वा, धनुषः शर इव तन्मुखान्निर्गतांस्ततश्चाऽप्रतिनिवर्तमानान् शब्दांश्चैतान् श्रुत्वा गोविन्दः स्तब्धो जातः । मित्रस्य मुखं विलोक्यैव स ज्ञातवान् यद् – “अयमारम्भो जातोऽस्ति । सिद्धार्थः स्वनिश्चिते मार्ग एव गन्तुमुत्कोऽस्ति । तस्य भावि स्वयमेवोद्घटमानमासीत्, तेन च सह गोविन्दस्य स्वीया नियतिरपि" । तन्मुखं शुष्ककदलीफलत्वच इव विवर्णं जातम् । स उच्चैः पृष्टवान् – “किन्तु सिद्धार्थ ! भवत: पिताऽत्राऽर्थेऽनुमंस्यते वा ?" सहसा प्रतिबुद्ध इव सिद्धार्थस्तत्समक्षं विलोकितवान् । विद्युद्वेगेन तेन तत्र गोविन्दस्य चित्तं, तच्चिन्ता, निजेच्छानुवर्तनप्रगुणता च पठिता । स मृदुतयोक्तवान् – “गोविन्द ! आवां वृथैव शब्दानां व्ययं न करिष्यावः । अयं हि मे निर्णयोऽस्ति यत्, श्वस्तने प्रभातेऽहं श्रमणजीवनं प्रारप्स्ये । इतः परमस्य चर्चा
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy