________________
तत्र । तेषां गतिः सर्वत्राऽप्रतिहताऽऽसीत् - जगतः सृष्टिः, वाच उत्पत्तिः, अन्नं, श्वासोच्छ्वासाः, इन्द्रियाणां समारचनं, देवानां कार्याणीत्यादिषु सर्वत्र । तैर्हि सङ्ख्यातीतानि वस्तूनि ज्ञातानि । एवं सत्यपि यदि तैरेकमेव परमं वस्तु नैव ज्ञातं तर्हि सर्वेषामप्येतेषां वस्तूनां ज्ञानस्य किं वा मूल्यं स्यात् ?'
'वेदानां बहूनि सूक्तानि विशेषतश्च सामवेदस्योपनिषद इदमान्तरतमं तत्त्वमेव वर्णयन्ति स्म । "आत्मैव जगदिदं सर्वम्" इति तत्र वर्णितमस्ति । "मनुष्यः सुषुप्तावन्तःकरणं प्रविश्याऽऽत्मन्येव निवसति' इत्यपि तत्र कथितमस्ति । एतानि सूक्तानि ह्यद्भुतया विद्यया पूर्णान्यासन् । मधुमक्षिकाभिः शुद्धं मधु इव ऋषिभिः सर्वमपि विज्ञानं मधुरया भाषया तत्रैव सगृहीतमासीत्' ।
'नैव नैव नैव, विदुषां ब्राह्मणानां सुज्ञया परम्परया सङ्ग्रहीतं संरक्षितं चेदमप्रमेयं ज्ञानं नैवाऽस्त्युपेक्षाहम् । किन्तु क्व सन्ति ते ब्राह्मणाः पुरोहिता विपश्चितश्च यैरिदं परमज्ञानं न केवलं सफलतया प्राप्तमेव अपि त्वनुभूतमपि? क्व वा ते विद्यावन्तः कृतसंस्कारा वा सन्ति ये सुषुप्तावात्मानमुपलभ्य जागृतावपि तं धारयितुं समर्थाः ? आजीवनं, मनसो वाचः कायस्य कर्मकालेऽपि !
सिद्धार्थो बहून् गुणवतो ब्राह्मणान् जानाति स्म । सर्वेषामप्युपरिष्टात् तु तत्र पवित्र आदरणीयो बहुश्रुतो विद्वान् तस्य पितैवाऽऽसीत् । तद्व्यक्तित्वमनुपमं चरितं च शान्तमुदात्तं चाऽऽसीत् । तस्य जीवनं निर्दोषमासीत् । तस्य वाणी वैदग्ध्यपूर्णाऽऽसीत्, उत्तमाः सुन्दराश्च विचारास्तन्मस्तिष्कमधिष्ठितवन्तः । 'किन्तु तादृशः प्रज्ञावानपि स किं सानन्दं जीवति स्म वा ? तदन्तःकरणे शमानुभूतिर्भवति स्म वा ? किं सोऽपि तत्त्वान्वेषको नाऽऽसीत् ? किं तस्याऽप्यतृप्ति व पीडयति स्म वा ?' _ 'कयाचिदतृप्ततृष्णयैव किं सोऽपि पवित्रतीर्थस्थानानि वारं वारं न पर्यटति स्म? यागान् नाऽऽचरति स्म? शास्त्राणि न परिशीलयति स्म वा ? ब्राह्मणानां च परिसंवादेषु भागं न वहति स्म? किमर्थम्? किमर्थं ननु तादृशेन निष्पापवृत्तेनाऽपि तत्पित्रा प्रत्यहं स्वीयपापानि क्षालयितुं स्वं च स्वच्छयितुं प्रयतितव्यम् ? तत् किं तदभ्यन्तरे आत्मा नाऽऽसीद वा? अथवा किं स आत्मानं नैव जानाति स्म वा? किं तस्य हृदये निरालम्बसुखस्य स्रोतो नाऽऽसीद् वा ? वस्तुतः स्वेन स्वात्मन्येव तत् स्रोतोऽन्वेष्टव्यं प्राप्तव्यं च । ततोऽन्यद्धि सर्वमप्यस्ति भ्रमणं व्यामोहश्च' ।
एते एतादृशाश्चाऽन्ये विचाराः बहुशः सिद्धार्थस्य चित्ते उद्भवन्ति स्म ये तच्चित्ते काञ्चनाऽतोषणीयां तषं गभीरं च विषादं जनयन्ति स्म ।
नैकशः स छान्दोग्योपनिषदो वचनमेतदावर्त्तयति स्म मनसि -
"स वा एष आत्मा । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति । अहरहर्वा एवंचित् स्वर्गलोकमेति' ।
एवं चाऽऽवर्तयतस्तस्य बहुशः स 'स्वर्गलोकः' निकटतमः प्रतिभाति स्म, किन्तु न स कदापि तं प्राप्तवान्, न च कदाऽपि तस्य तीव्रा तृट् शान्ताऽभवत् । किञ्च यानपि महाविदुषः स जानाति स्म येषां