SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ तयोः स्थगयित्वा हर्ष-विषादाकुलो राजमन्दिरं प्रतिनिवृत्तः । कुमार्यपि वडवारूढा गच्छन्ती मित्रानन्दं कथितवती - 'भो ! महाभाग ! भवानपि वडवामारोहतु' । तेनोक्तं – 'कञ्चित् कालमहं पदातिरेव गमिष्यामि' । ततो देशसीम्नि पुनरपि तयोक्तं – 'किमर्थं भवान् नाऽऽरोहति ?' तेनोक्तं - 'कुमारि ! न मया भवती मदर्थं नीयमानाऽस्ति किन्तु मम परमसुहृद् अमरदत्तनामाऽस्ति । स भवत्याः प्रतिच्छन्दरूपां शालभञ्जिकां दृष्ट्वा भवत्यामनुरक्तोऽस्ति । तस्य कृत एव मयैतत् सर्वं व्यवसितमस्ति । मित्रपत्न्या च सहैकस्मिन् वाहने आरुह्य गमनं नैवोचितमत एव पदभ्यां गच्छन्नस्मि' । साऽपि चाऽमरदत्तेति नाम श्रुत्वाऽतिहष्टा चिन्तयति स्म - 'अहो ! अस्य महापुरुषत्वं, महानुभावत्वं, मित्रवत्सलत्वं, परोपकारकरणरसिकत्वं च ! नूनं ममाऽपि जन्म सफलमेव यदेताभ्यां मे संयोगो जातः । यद्यपि मे कलङ्कलम्भो जातो मदीयपूर्वदुष्कृतफलत्वेन तथाऽपि सुपुरुषयोरनयोर्योगेनाऽहं कृतार्था जाता' । एवं च तावुभावप्यनवरतप्रयाणैः पाटलिपुत्रं प्रति प्रस्थिताः । इतश्च सोऽमरदत्तोऽनुराग-मित्रविरहदुःखाभ्यामन्तः प्रज्वलन् श्रेष्ठिना सयत्नं प्रतिचर्यमाणस्तद्गृहे च निवसन् दिनानि गणयन्नास्ते । यदा च मासद्वयात्मकस्याऽवधेरन्तिमं दिनं समागतं तदा तेन श्रेष्ठिन उक्तं – 'तात ! अद्य पूर्णोऽवधिर्जातोऽस्ति । अद्ययावन्मित्रानन्दस्य न कोऽपि समाचारः प्राप्तः । ततो यावदस्य किमप्यश्रोतव्यं न शृणुयां तावत् काष्ठानि प्रज्वालयतु, येन तत्र प्रविश्याऽऽत्मानं विनाशयामि' । एतदाकर्ण्य दुःखभरपीडितः श्रेष्ठी नगराद् बहिः काष्ठचितां समारचयामास । सर्वोऽपि नागरजनस्तज्ज्ञात्वा दुःखितः संस्तत्र समागतः । अथ च कुमारे चितायां प्रवेष्टुमुद्यते क्रन्दन् नागरजनः सश्रेष्ठी तं विज्ञपयामास - 'मा कुमार ! साहसं करोतु । अद्याऽपि वर्ततेऽवधिः । प्रतिपालय सूर्यास्तमनं यावत् । यदि ततोऽपि मित्रानन्दो नाऽऽगच्छेत् तदा कामं प्रविशत्वग्निम्' । ततस्तदनुमत्य भूमिगतदृष्टिर श्रूणि चाऽनवरतं मुञ्चन् कुमारः स्थितः । लोकोऽपि च वृक्षादिषूच्चोच्चस्थलेषु समारुह्य दूर दूरं विलोकयितुमारब्धः । अपराह्नकाले तु दूरादश्वेन सह समागच्छन्तं मित्रानन्दं विलोक्य परस्परं वदन्ति जना यथा - 'एष एकोऽश्वारोही एकेन पदातिना पुरुषेण सहाऽऽगच्छन् विलोक्यते' । यावच्च जना अमरदत्तं तद् वदेयुस्तावच्च वेगेन मित्रानन्दः सकुमारीकस्तत्र समागतो मित्रपार्वं च गत्वा सानन्दं कथितवान् – 'भोः प्रियमित्र ! एषाऽऽनीता मया भवतश्चित्तापहारिणी'ति । एतन्निशम्याऽमरदत्तो यावन्मुखमुन्नम्य विलोकितवान् तावता कुमार्या सहाऽऽगतं निजमित्रं दृष्टवान् । ततो हर्षभरापूरितमानसो बाष्पक्लिन्ननेत्रश्च सहसा समुत्थाय मित्रमालिङ्गितवान् । श्रेष्ठी नागरजनश्चाऽपि तद् विलोक्याऽऽनन्दाश्रुपूर्णलोचन: - 'अहो ! शोभनमेतज्जात'मिति वदन् काष्ठाग्नि विध्याप्याऽपसार्य च तत्रैव मङ्गलरवपूर्वकममरदत्त-रत्नमञ्जर्योः पाणिग्रहणं कारितवान् । रत्नमञ्जर्याश्च रूपं विलोक्य सर्वोऽपि जनः सविस्मयं कथयति स्म – 'एतादृश्या रूपवत्याः कृते यदयं प्राणत्यागपणं कृतवान् तत्र नाऽऽश्चर्यम्' । ९४
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy