________________
अथ च पाटलिपुत्रस्य राजा पूर्वतनदिन एवाऽपुत्रो मृत आसीत् । अतो राजपुरुषैः पञ्च दिव्यान्यधिवासितानि । तेषु च तत्रैव स्थितेषु सत्सु तानि अमरदत्तसमीपं प्राप्तानि । मङ्गलगीतानि गायन्तो जना यावत् किञ्चिद् विचारयेयुस्तावताऽश्वेन हेषारवः कुतः, हस्तिना बृंहितं, छत्रं स्वयमेव कुमारोपरि स्थितं, चामरे च स्वयमेव वीजयितुमारब्धे, कलशेन च स्वयमेव कुमारमस्तकोपरि जलमभिषिक्तम् । ततो हस्तिना शुण्डादण्डेन कुमार उत्पाट्य निजस्कन्धे आरोपितः । सर्वत्र तूर्यनिनादः समुच्छलितो जयजयारावश्च लोकैः कृतः । मन्त्रीभिस्तस्य राजपदस्वीकारार्थं विज्ञप्तिः कृता । तेनाऽपि सा विज्ञप्तिः सहर्ष स्वीकृता। ततः सर्वेऽपि समङ्गलनादं नगरं प्रविष्टा ।
ततो राजभवनद्वारे कृतमङ्गलोपचारोऽमरदत्त: प्रधानपुरुषैरास्थानमण्डपे प्रवेशित: सिंहासने चोपवेशितः । तस्य वामपार्श्वे रत्नमञ्जरी समुपविष्टा, दक्षिणपार्वे च मित्रानन्दः । ततो मन्त्रि-सामन्तादिभिः सम्मील्याऽमरदत्तस्य राज्याभिषेकः कृतः, रत्नमञ्जर्याः पट्टराज्ञीत्वेऽभिषेक: कृतो मित्रानन्दश्च मन्त्रिमण्डलप्रधानो विहितः । ततोऽन्येऽपि ये योग्या आसंस्ते सर्वेऽपि विविधेषु पदेषु स्थापिताः ।
एवं च न्यायेन प्रजाः पालयन् राजाऽमरदत्तः समित्रः सुखी जातः । प्रान्ते च गुरुभगवतां पार्वे धर्मं श्रुत्वा व्रतानि चाऽङ्गीकृत्य यथावत्पालनं च कृत्वा सद्गतिं प्राप ।
(कथामूलं - आ.श्रीदेवचन्द्रसूरिविरचितं प्राकृतभाषामयं श्रीशान्तिनाथचरितम्)