SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ | विश्लानि संस्कारमूल्यानि मुनिः अक्षयरत्नविजयः* (१) महाऱ्या गुरुदक्षिणा कश्चिद् भिक्षुरासीत् । स परमो भगवद्भक्त आसीत् । परमः शास्त्रविदपि आसीत् । नैकानि पुस्तकानि तेन लिखितानि, मुद्राक्षरैरङ्कितानि अपि कृतानि । बहूनां पुस्तकानामावृत्तयः (संस्करणानि) अपि जाताः । एकदा वय:परिपाकवशात् तस्य चक्षुःपटलं कलुषीभूतम् । अतः पुस्तकसंशोधनाय तेन कश्चिद् वैतनिकः संशोधक आरक्षितः । ___ तदनु एकं वर्ष समाप्तम् । गुरुपूर्णिमाया वासर आगतः । तस्मिन् दिने स भिक्षुस्तस्य पुस्तकसम्माजकस्य गृहं गतवान् । भिक्षुस्तत्करे दशरूप्यकमितं धनं प्रदाय प्राह - "भवान् मल्लेखनं गवेषयति । मदीयं लेखनं निर्दोषं करोति । तत् सम्मायत्यपि । अतो भवान् गुरुदक्षिणार्होऽस्ति । यतोऽस्मद्दोषान् यः सम्मायति, स गुरुसमो भक्तिपात्रं चाऽस्तीति आप्तवचनम् । ततो भवान्नपि मद्गुरुः । अद्यतने दिवसेऽहं तुभ्यं लध्वीं गुरुदक्षिणां समर्पयामीमाम् । कृपया स्वीकरोतु ताम् ।" पुस्तकसम्माजकस्य लोचने सजले जाते श्रुत्वेदम् । कीदृशमद्भुतमासीद् भारतवर्षीयाया जीवनप्रणाल्या नमस्कार्यं माहात्म्यम्..... ! (२) आत्मनो राजा एकदा 'डेमोस्थीनीस'इत्याख्यो ग्रीसदेशीयतत्त्वचिन्तको 'राजगुरु' पदस्य समर्पणाय राज्ञा निमन्त्रितः । डेमोस्थीनीसेन सविनयं तद् राजकीयं निमन्त्रणमपाकृतम् । अतोऽन्येन केनचित्तत्वचिन्तकेन राजगुरोः पदं प्राप्तम् * आ.श्रीधर्मसूरीश्वरसमुदायवर्ती
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy