SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कस्मिंश्चित् दिने स नूतनराजगुरुरुपडेमोस्थीनीसमागतवान् । तदानीं डेमोस्थीनीससदृशो महान् तत्त्वविचारकोऽपि पात्राणि मार्जयति स्मेति दृष्ट्वा राजगुरुः स्वमनस्यहसत् । तदृष्टिपथे डेमोस्थीनीसस्य मौर्यं रममाणमासीत् । शनकै राजगुरुणा डेमोस्थीनीसं प्रति सव्यङ्ग्यं हृद्गतमुक्तम् – “यदि राजसभायां नृपं भवानल्पं प्रशंसिष्यत्, तर्हि पात्रमार्जनस्येमानि दिनानि भवान्नाऽद्रक्ष्यत् ।" इदं श्रुत्वा विवेकज्ञो डेमोस्थीनीसो निजचेतसि चिन्तितवान् 'नूतनो राजगुरुरीषद् बोधितव्यः' इति । अतः स गाम्भीर्यमालम्ब्य कथितवान् – “राजगुरो ! यदि भवानित्थं पात्रमार्जनमज्ञास्यत्, तर्हि एषां निःसारमनुजानां मिथ्या स्तुतिं कृत्वा मुखमलिनीकरणस्येमानि दिनानि नाऽद्रक्ष्यत्" । राजगुरुस्तु आत्मनो राज्ञ इव डेमोस्थीनीसस्य हृदयवेधिनी वाचं श्रुत्वा जडवद् बभूव लज्जया चाऽवनतोऽपि सञ्जातः । (३) महती न्यायप्रियता अनुमानतो वर्षशतषट्काद् प्राग् घटितोऽयं प्रसङ्गः । न्याय-नीति-सदाचारप्रधानः स युगः । दिल्हीनगरीये राजसिंहासने कस्यचित् शासकस्य शासनमासीत् । तज्जीवनं नैकगुणैः शोभते स्म । परन्तु, मृगयानामोऽवगुणस्तज्जीवने समासीन आसीत् । एकदा राजा मृगयार्थं वनं गतः । तत्र चाऽनवधानतः स शरं क्षिप्तवान् । शरेण पशुमपहाय कस्यचिन्निर्दोषदरिद्रस्य पुत्रोऽविध्यत । क्षणादेव स मृतः । अतस्तस्य दरिद्रो दुःखी च पिता न्यायार्थं न्यायालयं गतः । न्यायाधीशो भयं परिहत्य नृपं प्रति अभियोगमचालयत् । स दरिद्रं पितरमुक्तवान् – “भ्रातः ! श्वो राजसभायामागन्तव्यम् । त्वं निश्चयतो न्यायपात्रं भवितासि" । स्तोकेन समयेन समग्रनगरे वार्तेयं वायुवत् प्रसृता । प्रातः राजसभा जनाकीर्णा जाता । असौ दरिद्रः पिता राजा चाऽऽगतौ । न्यायाधीशेनाऽनुयुक्तो नृपः - "भवानस्य दरिद्रजनस्य पुत्रमहनदिति सत्यं न वा ?" राज्ञा प्रत्युक्तं - "सत्यं, मया साऽक्षम्या क्षतिः कृताऽस्ति । अहं नूनं दण्डमर्हामि । किन्तु, अद्यपरमेतादृशीं क्षति न करिष्यामीति विश्वासं ददामि । अतोऽहं सकृत् क्षम्य इति मे विज्ञप्तिरस्ति" । न्यायाधीशोऽवदत् - "न, अहं भवते क्षमां दातुं नाऽर्हः । स एव तस्य निर्धनपिता भवन्तं ९७
SR No.521031
Book TitleNandanvan Kalpataru 2013 12 SrNo 31
Original Sutra AuthorN/A
AuthorKirtitrai
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages120
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Nandanvan Kalpataru, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy