________________
काव्यद्वयम्
डॉ. नारायणदाशः
(१) कुरुक्षेत्रे अतीतस्य जीर्णे इतिहासे, कुरुक्षेत्ररणाङ्गणे, युद्धविभीषिका पुनः अद्य चीत्करोति । यद्यपि न शुष्कं गतजीवनदंशनम्, यद्यपि स्वप्नायते सुयोधनवाणी, प्रतिध्वनति पुनः पुनः शतवारम्तथाऽपि हे धर्मराज! मानवसमाज! पुनः धारयति असिं, जीवनज्वालने! अद्य दिव्यवस्त्रावृता यद्यपि द्रौपदी! धर्मराजो राजा अद्य अहम्मयराज्ये! यत्र पतिपुत्रहीनाः कोटिशो मातरः, भाग्यं निजं स्वीकुर्वन्ति लक्षशो भगिन्यः, सर्वमद्य शेषायितं केवलं वञ्चितम्, रङ्गहीनाऽपरिचिता प्रभातकलिका, तदुपरि श्रूयमाणः शिशिरचीत्कार:, तदा भवेत् पुष्पमाला बन्धनशृङ्खला हे मनुज ! धर्मराज ! ज्ञापयति चराचरो भवते प्रणतिम्, तथापि, तथापि कथमुपतिष्ठसे ? जिजीविषाया अन्तहीने कुरुक्षेत्रे किं पुनः प्रमाणीकर्तुं रक्तपिपासुताम् ? कलाविज्ञानं किं सृष्टं केवलं ध्वंसाय ? विज्ञानखड़गः किं सदा शिशोः क्रीडनाय ? स्वागतीकुरु पुनः भग्नतव्यां स्वरम् छिन्नीकुरु एकवारं भिन्नताप्राचीरम्, कुरुक्षेत्रे स्थापयतु सङ्गच्छध्वं ज्ञानम्, स्नेहसिक्तन्यायोपरि विश्वस्य निर्माणम्, रचयतु मानवस्य नवमितिहासम् पूरयतु सन्तोषस्य सुधामयकोषम्, कुरुक्षेत्रे रक्ताञ्चले, सञ्चरतु, नवीनजीवनम् ॥
३०